Site hosted by Angelfire.com: Build your free website today!

PURAANIC SUBJECT INDEX

(From Mahaan  to Mlechchha )

Radha Gupta, Suman Agarwal & Vipin Kumar


Home Page

Mahaan - Mahaabhuuta  ( words like Mahaan / great, Mahaapadma, Mahaapaarshva, Mahaabhuuta etc. )

Mahaabhoja - Mahaalaya ( Mahaamaayaa, Mahaalakshmi , Mahaalaya etc.)

Mahaalinga - Mahishaasura ( Mahisha / buffalo,  Mahishaasura etc.)

Mahishee - Mahotkata (  Mahee / earth, Mahendra, Maheshwara, Mahotkata etc. )

 Mahotpaata - Maandavya ( Mahodaya, Mahodara, Maansa / flesh, Maagadha, Maagha, Maandavya etc.)

Maandooki - Maatrikaa(  Maatangi, Maatali, Maataa / mother, Maatrikaa etc.)

Maatraa - Maadhavi (  Maadri, Maadhava, Maadhavi etc.)

Maadhyandina - Maandhaataa ( Maana / respect, Maanasa, Maanasarovara, Maandhaataa etc.)

Maamu - Maareecha (Maayaa / illusion, Maayaapuri, Maarishaa, Maareecha etc.)

Maareesha - Maargasheersha (  Maaruta, Maarkandeya, Maargasheersha etc.)

Maarjana - Maalaa  (Maarjaara / cat, Maartanda / sun, Maalati, Maalava, Maalaa / garland etc. )

Maalaavatee - Maasa ( Maalaavati, Maalini, Maali, Malyavaan, Maasha, Maasa / month etc.)

Maahikaa - Mitrasharmaa ( Maahishmati, Mitra / friend, Mitravindaa etc.)

Mitrasaha - Meeraa ( Mitrasaha, Mitraavaruna, Mithi, Mithilaa, Meena / fish etc.)

Mukuta - Mukha (Mukuta / hat, Mukunda, Mukta / free, Muktaa, Mukti / freedom, Mukha / mouth etc. )

Mukhaara - Mudgala (Mukhya / main, Muchukunda, Munja, Munjakesha, Munda, Mudgala etc.)

Mudraa - Muhuurta (Mudraa / configuration, Muni, Mura, Mushti, Muhuurta / moment etc.)

Muuka - Moolasharmaa (  Muuka,  Muurti / moorti / idol, Muula / moola etc.)

Muuli- Mrigayaa (Mooshaka / Muushaka / rat, Muushala / Mooshala / pestle, Mrikandu, Mriga / deer etc.)

Mriga - Mrityu ( Mrigavyaadha, Mrigaanka, Mrityu / death etc.)

Mrityunjaya - Meghavaahana ( Mekhalaa, Megha / cloud, Meghanaada etc.)

Meghaswaati - Menaa  (Medhaa / intellect, Medhaatithi, Medhaavi, Menakaa, Menaa etc.)

Meru - Maitreyi  ( Meru, Mesha, Maitreya etc.)

Maithila - Mohana ( Mainaaka, Mainda, Moksha, Moda, Moha, Mohana etc.)

Mohammada - Mlechchha ( Mohini, Mauna / silence, Maurya, Mlechchha etc.)

 

 

मेखला

कर्मकाण्डे यदा यजमानः दीक्षां गृह्णाति, तदा दीक्षारम्भे सः करमुष्टिं धारयति। कारणं, दीक्षितः आचार्यस्य गर्भस्वरूपः भवति एवं गर्भस्य स्थितिः मुष्टिसहितः भवति (गर्भो वा एष भवति यो दीक्षते स छन्दांसि प्रविशति तस्मान्न्यक्नाङ्गुलिरिव भवति न्यक्नाङ्गुलय इव हि गर्भाः माश ३.२.१.६) । मुष्टिधारणकृत्ये एकैकायाः अङ्गुल्याः क्रमिकरूपेण मन्त्रसहितं न्यञ्चनं(संकुञ्चनं) भवति। शतपथब्राह्मणे कथनमस्ति - संतरामङ्गुलीराञ्चन्त संतरां मेखलां पर्यस्तामेवैनामेतत्सतीं पर्यास्यन्त (माश ३.४.३.२)। मुष्टिधारणस्य मेखलाउपरि किं प्रभावं भवति, अयं नात्र अतिस्पष्टः अस्ति। मुष्टिधारणस्य उद्देश्यं अयमस्ति यत् दीक्षाकाले यजमानः न किमपि भोजनं गृह्णाति। यत्किंचित् ऊर्जायाः ग्रहणं मेखलातः भवति, तेनैव तस्य क्षुधा पूरणीया अस्ति। यस्याः ऊर्जायाः क्षरणं अङ्गुलीभ्यः भवति, तस्य रोधनं अपेक्षितमस्ति (द्र. अङ्गुलि उपरि टिप्पणी)।

पद्मपुराणे ६.१८५.१६ भगवद्गीतायाः एकादशाध्यायस्य माहात्म्यवर्णने मेघङ्करनगरे एकः तीर्थः मेखलातीर्थः अस्ति यत्र नृसिंहः विराजते। किं मेखलाशब्दस्य व्याख्या मेघला रूपेण कर्तुं शक्यमस्ति, विचारणीयः।  पुराणेषु एकः शब्दः उलूखलमेखला अस्ति(महाभारत कर्ण ४४.४४), यः संकेतमस्ति यत् कर्मकाण्डे यः उलूखल-मुसलौ युगलपात्रौ स्तः, तयोः मेखला मुसलस्य प्रतीकमस्ति। कथनमस्ति – चक्षुर्मुसलं काम उलूखलम्(शौअ. ११.३.३ )। चमत्कारचन्द्रिका ८.१८ अनुसारेण  - मेखला यथा प्रज्ञेव कीर्तिरमला। कुमारसम्भवम् ८.२६ अनुसारेण नद्योः मेखला मीनपङ्क्तिः भवति। मीनस्य वैशिष्ट्यम् जलमध्ये सम्यक्दर्शनस्य सामर्थ्यग्रहणं अस्ति(चतुर्विधं प्रजाजालं संयुक्तो ज्ञानचक्षुषा। भीष्म द्रक्ष्यसि तत्त्वेन जले मीन इवामले।। - महाभारत शान्ति ५२.२१)। रघुवंश १९.४० अनुसारेण सरयोः मेखला हंसपङ्क्तिः अस्ति।

पुराणेषु दामोदररूपेण मेखलायाः अन्यः पक्षः उद्घाटितमस्ति।

 

संदर्भाः

अङ्गिरसो वै स्वर्गं लोकं यन्तस्ते मेखलास्संन्यकिरँस्ततश्शर उदतिष्ठद्यच्छरमयी मेखला भवति तामेव मेखलामालभते देवा यत्रोर्जं व्यभजन्त ततश्शर उदतिष्ठद्यच्छरमयी मेखला भवति तामेवोर्जमालभत ऊर्ग्वै मेखला मध्यं प्रति परिव्ययत्यूर्जमेव मध्यतो दधाति यजमाने च प्रजासु च तस्मान्मध्यतः प्रजा ऊर्गूर्जयति नाभिं प्रति परिव्ययत्यूर्ध्वं वै पुरुषस्य नाभ्या मेध्यमवाचीनममेध्यं मेध्यस्य चामेध्यस्य च व्यावृत्त्यै त्रिवृद्भवति त्रिवृता वै स्तोमेन प्रजापतिः प्रजा असृजत त्रिवृद्वज्रो वज्रमेव भ्रातृव्याय प्रहरतीन्द्रो वै वृत्राय वज्रं प्राहरत् तस्य यत् प्राशीर्यत से शरोऽभवत् तच्छरस्य शरत्वं वज्रो वै शरो यच्छरमयी मेखला भवति वज्रमेव भ्रातृव्याय प्रहरति स्तृणुत एनं यं द्विष्यात् तं परिव्ययन् ध्यायेद्वज्रेणैवैनँ समर्पयति मेखला पुँसो भवति योक्त्रँ स्त्रियास्स्त्री वै मेखला पुमान् योक्त्रं मिथुनमेव यज्ञमुखे विपर्यूहेते प्रजननाय वज्रो वै मेखला क्षुदुदारं पाप्मा भ्रातृव्यो यन्मेखलां परिव्ययते वज्रेणैव पाप्मानं भ्रातृव्यमपहते ।। - काठ.सं. २३.४

मेखला यथा प्रज्ञेव कीर्तिरमला तव सिङ्गभूप प्रज्ञापि खङ्ग इव तीव्रतरा विभाति। - चमत्कारचन्द्रिका ८.१८

एकयष्टिर्भवेत्काञ्ची मेखला त्वष्टयष्टिका ॥नाट्यशास्त्र २१.३७

नित्यहोमाग्निकुंडं च त्रिमेखलसमायुतम्।।चतुस्त्रिद्व्यंगुलायामा मेखला हस्तमात्रतः।।लिङ्गपु.  २.२५.३ ।।

द्विजस्य मेखला मौंजी मौर्वी च भुजजन्मनः ।।

भवेत्त्रिवृत्समाश्लक्ष्णा विशस्तु शणतांतवी ।। स्कन्द ४.३६.२५ ।।

खे व्यगाहत तरङ्गिणीमुमा मीनपङ्क्तिपुनरुक्त मेखला ।। कुमारसम्भवम् ८.२६ ।।

मेखला च तदा जाता रशना दिव्यपौरटी ।सप्तविंशतिरज्ज्वाढ्या नद्धसद्रत्नहीरका । । लक्ष्मीनारायण सं. १.१९१.४६।।

सैकतं च सरयूं विवृण्वतीं श्रोणिबिम्बमिव हंसमेखलम् ।  स्वप्रियाविलसितानुकारिणीं सौधजालविवरैर्व्यलोकयत् ॥रघुवंश १९.४०

कृतसीतापरित्यागः स रत्नाकरमेखलाम् ।  बुभुजे पृथिवीपालः पृथिवीमेव केवलाम् ॥ रघुवंश १५.

ग्रन्थते मेखला, अग्रन्थिष्ट माला।– भाषावृत्तिः ३.१.८९

स्वादङ्गादवतार्य नूपुरयुगं न्यस्तं सखीपादयोर्मध्ये दीर्घनिनादिनीं मणिमयीं बद्धा दृढं मेखला । शृङ्गारशतकम्

"मौञ्जीं मेखलां त्रिवृतां ब्राह्मणस्य ज्या राजन्यस्याऽऽवीसूत्रं वैश्यस्य" इति ।..."त्रिवृन्मौञ्जी मेखला ब्राह्मणस्य शक्तिविषये दक्षिणावृतानां ज्या राजन्यस्य मौञ्जी वाऽयोमिश्राऽऽवीसत्रं वैश्यस्य सैरी तामली वेत्येके" इति । - संस्काररत्नमाला १.४

मेखला -

१. ऊर्ग्वै मेखला । क ३६, १ ।

२.  अङ्गिरसो ह वै दीक्षितानबल्यमविन्दत्तेनान्यद्व्रतादशनमवाकल्पयंस्त एतामूर्जमपश्यन्त्समाप्तिं ..तथोऽएवैष एतां ( मेखलाम् ) मध्यत आत्मन ऊर्जं धत्ते समाप्तिं तया समाप्नोति । माश ,,,१०

३. मेखला पुंसो भवति, योक्त्र स्त्रियाः । काठ २३.४; क ३६,१ ।

४. यच्छरमयी मेखला भवति ( + तामेवोर्जमालभत । ऊर्ग्वै मेखला (काठ. ] ) । तैसं ६,, , ३-४; काठ २३,४ ।

५. वज्रो वै मेखला । काठ २३,४ ।

६. सा वै शाणी भवति । मृद्व्यसदिति न्वेव शाणी यत्र वै प्रजापतिरजायत गर्भो भूत्वैतस्माद्यज्ञात्तस्य यन्नेदिष्ठमुल्बमासीत्ते शणास्तस्मात्ते पूतयो वान्ति यद्वस्य जराय्वासीत्तद्दीक्षितवसनम् - माश ,,,११

योक्त्रेण पत्नी संनह्यते, मेखलया दीक्षितः । - मै ३.६.७, तै.सं. ३.१.१.२