PURAANIC SUBJECT INDEX (From Mahaan to Mlechchha ) Radha Gupta, Suman Agarwal & Vipin Kumar
|
|
मेधातिथि डा. फतहसिंहः मेधातिथेः निरुक्ति एवंप्रकारेण करोति स्म – मेधा यस्य अतिथिरस्ति। अतिथि अर्थात् यस्य आगमनं आकस्मिकरूपेण भवति। मेधायाः का आवश्यकता अस्ति। तैसं ३.४.९.५ अनुसारेण यावत् मेधा नोपनमति, तावत् छन्दांसि अपि नोपनमन्ति। यावत् छन्दांसि नोपनमन्ति, तावत् ऊर्जायाः क्षरणं भविष्यति। छन्दांसि ऊर्जायाः सम्यक् छादनं कुर्वन्ति। मेधायाः अन्य उल्लेखं अथर्ववेद २०.११५.१ मन्त्रस्य आधारे कर्तुं शक्यन्ते – अहमिद्धि पितुष्परि मेधामृतस्य जग्रभे। अहं सूर्य इवाजनि।। मन्त्रस्य विनियोगं सद्यःक्री संज्ञकस्य यागस्यानुष्ठाने अस्ति। अयं अनुष्ठानं अङ्गिरोभिः भवति यस्मिन् श्येनस्य वर्जनमस्ति। श्येनस्य अनुष्ठानं तीव्रगतिकस्य तन्त्रस्य हेतोः भवति, न मन्दगतिकस्य । अङ्गिरसां गतिः मन्दगतिरस्ति। तथापि, ते सूर्यस्य दक्षिणां ग्रहणे समर्था भवन्ति। अयं कथनं सुब्रह्मण्या आह्वाने मेधातिथेः मेषस्य उल्लेखस्य पुष्टिं करोति। उल्लेखमस्ति यत् सोमपानाय इन्द्रः मेधातिथेः मेषस्य रूपधारणं करोति । सुब्रह्मण्या आह्वानं ब्रह्मतः सुब्रह्मप्राप्ति हेतु भवति। अर्थात् गुणानां या उत्कृष्टता ब्रह्मणे अस्ति, तस्य मर्त्यस्तरे विस्तारं अपि भवेत्।
मेध पुरुषं वै देवाः पशुमालभन्त तस्मादालब्धान्मेध उदाक्रामत्सोऽश्वं प्राविशत् .....तेऽ श्वमालभन्त.....ते गामालभन्त...स (मेधो देवैः ) अनुगतो व्रीहिरभवत् । ऐ २,८ ।। अश्वमेधे अश्वस्तोमीयम् -- मेधो वा आज्यम् । तै ३,९,१२,१।। सर्वेषां वाऽएष पशूनां मेधो यद् व्रीहियवौ । माश ३, ८, ३, १ ॥ मेधाय इत्यन्नायेत्येतत् – माश ७.५.२.३२ पशुर्वै मेधः – ऐ २.६ मेधो वा एष पशूनां यत्पुरोडाशः – कौ १०.५ मेदो वै मेधः । माश ३,८,४,६ ।। मेधपति- यजमानो (+वै [कौ.]) मेधपतिः । ऐ २,६; कौ १०,४ ॥ अथो खल्वाहुर्यस्यै वाव कस्यै च देवतायै पशुरालभ्यते सैव मेधपतिरिति – ऐ २.६ देवतैव मेधपतिरिति – कौ १०.४ मेधा- आ मां मेधा सुरभिर्विश्वरूपा हिरण्यवर्णा जगती जगम्या । ऊर्जस्वती पयसा पिन्वमाना सा मां मेधा सुप्रतीका जुषताम् । तैआ १०, ४२,१ ॥ आकूत्यै प्रयुजे अग्नये स्वाहा, मेधायै मनसे अग्नये स्वाहा, दीक्षायै तपसे अग्नये स्वाहा, सरस्वत्यै पूष्णे अग्नये स्वाहा । तैसं १.२.२.१, मै १.२.२, काठ २.२ अप्सरासु च या मेधा गन्धर्वेषु च यन्मनः। दैवी मेधा मनुष्यजा सा मां मेधा सुरभिर्जुषताम् – तैआ १०.४१ छन्दांसि खलु वा एतं नोपनमन्ति यं मेधा नोपनमति – तैसं ३.४.९.५ मनो मेधामग्निं प्रयुजं स्वाहा – तैसं ४.१.९.१, मै २.७.७ मेधातिथि- तेषां ह स्मेन्द्रो मेधातिथेर्मेषस्य रूपं कृत्वा सोमं व्रतयति – जै ३.२३४ सुब्रह्मण्याह्वानम् -- मेधातिथेर् मेषेति। मेधातिथेर्ह मेषो भूत्वा (इन्द्रः) राजानं (सोमम्) पपौ – जै २.७९ मैधातिथ- ( सामन्-) १. एतेन वै मेधातिथिः काण्वो विभिन्दुकाद्व्यूध्नीर्गा उदसृजत पशूनामवरुद्ध्यै मैधातिथं क्रियते । तां १५,१०,११ ।। २. तदेतत्पशूनामुत्सृष्टिः साम.....यदु मेधातिथिरपश्यत् तस्मान्मैधातिथमित्याख्यायते । जै ३,२३६ ॥ तदेतत् पशूनामुत्सृष्टिः साम (यन्मैधातिथम्) जै ३.२३६
मेध्या पृथिव्या वै मेध्यं चामेध्यं च व्युदक्रामत्। मै ४,१,१०; काठ ३१,८।। मेध्या वा आपः मेध्यो भूत्वा दीक्षा इति पवित्रं वा आपः पवित्रपूतो दीक्षा इति तस्माद्वै स्नाति। माश १,१, १,१; ३,१,२,१० ॥ पृथिव्या वै मेध्यं चामेध्यं च व्युदक्रामत्। प्राचीनमुदीचीनं मेध्यमुदक्रामद् दक्षिणा प्रतीचीनममेध्यम् , प्राचीम् उदीचीं वेदिं प्रवणां कुर्यात् , मेध्यान् एनान् यज्ञियान् करोति – मै ४.१.१० यथा मस्तिष्क एवं पुरोडाशः, सुशृतः कार्यो मेध्यत्वाय । मै ४,१,९ । प्ला ,प्रक्ष १. तस्य मेधं प्लाक्षारयन् ( देवाः ) स प्लक्षो ऽभवत् , तत्प्लक्षस्य प्लक्षत्वम् । मै ३, १०, २ । २. तस्य (पशोः ) शिरश्छित्वा (देवाः) मेधं प्राक्षारयन्त्स प्रक्षोऽभवत् तत् प्रक्षस्य प्रक्षत्वम् । तैसं ६, ३, १०, २ । ३. तस्यावाङ् मेधः पपात । स एष वनस्पतिरजायत तं देवाः प्रापश्यंस्तस्मात्प्रख्यः प्रख्यो ह वै नामैतद्यत्प्लक्षः ! माश ३, ८, ३, १२ । ४. प्लक्षस्य प्रास्रवणस्य प्रदेशमात्रादुदक् तत् पृथिव्यै मध्यम् । जैउ ४, ११, ५, १२ । ५. प्लक्षो मेधेन ( त्वावतु ) । तैसं ७, ४, १२,१; काठ ४४,१ । ६. यशसो वा एष वनस्पतिरजायत यत्प्लक्षः । स्वराज्यं च ह वा एतद्वैराज्यं च वनस्पतीनाम् -- ऐ ७, ३२ ।। ७. स्वराज्यं च ह वा एतद्वैराज्यं च वनस्पतीनाम् ( यत्प्लक्षः ) । ऐ ७, ३२; ८, १६ ।। |