Site hosted by Angelfire.com: Build your free website today!

PURAANIC SUBJECT INDEX

(From Mahaan  to Mlechchha )

Radha Gupta, Suman Agarwal & Vipin Kumar


Home Page

Mahaan - Mahaabhuuta  ( words like Mahaan / great, Mahaapadma, Mahaapaarshva, Mahaabhuuta etc. )

Mahaabhoja - Mahaalaya ( Mahaamaayaa, Mahaalakshmi , Mahaalaya etc.)

Mahaalinga - Mahishaasura ( Mahisha / buffalo,  Mahishaasura etc.)

Mahishee - Mahotkata (  Mahee / earth, Mahendra, Maheshwara, Mahotkata etc. )

 Mahotpaata - Maandavya ( Mahodaya, Mahodara, Maansa / flesh, Maagadha, Maagha, Maandavya etc.)

Maandooki - Maatrikaa(  Maatangi, Maatali, Maataa / mother, Maatrikaa etc.)

Maatraa - Maadhavi (  Maadri, Maadhava, Maadhavi etc.)

Maadhyandina - Maandhaataa ( Maana / respect, Maanasa, Maanasarovara, Maandhaataa etc.)

Maamu - Maareecha (Maayaa / illusion, Maayaapuri, Maarishaa, Maareecha etc.)

Maareesha - Maargasheersha (  Maaruta, Maarkandeya, Maargasheersha etc.)

Maarjana - Maalaa  (Maarjaara / cat, Maartanda / sun, Maalati, Maalava, Maalaa / garland etc. )

Maalaavatee - Maasa ( Maalaavati, Maalini, Maali, Malyavaan, Maasha, Maasa / month etc.)

Maahikaa - Mitrasharmaa ( Maahishmati, Mitra / friend, Mitravindaa etc.)

Mitrasaha - Meeraa ( Mitrasaha, Mitraavaruna, Mithi, Mithilaa, Meena / fish etc.)

Mukuta - Mukha (Mukuta / hat, Mukunda, Mukta / free, Muktaa, Mukti / freedom, Mukha / mouth etc. )

Mukhaara - Mudgala (Mukhya / main, Muchukunda, Munja, Munjakesha, Munda, Mudgala etc.)

Mudraa - Muhuurta (Mudraa / configuration, Muni, Mura, Mushti, Muhuurta / moment etc.)

Muuka - Moolasharmaa (  Muuka,  Muurti / moorti / idol, Muula / moola etc.)

Muuli- Mrigayaa (Mooshaka / Muushaka / rat, Muushala / Mooshala / pestle, Mrikandu, Mriga / deer etc.)

Mriga - Mrityu ( Mrigavyaadha, Mrigaanka, Mrityu / death etc.)

Mrityunjaya - Meghavaahana ( Mekhalaa, Megha / cloud, Meghanaada etc.)

Meghaswaati - Menaa  (Medhaa / intellect, Medhaatithi, Medhaavi, Menakaa, Menaa etc.)

Meru - Maitreyi  ( Meru, Mesha, Maitreya etc.)

Maithila - Mohana ( Mainaaka, Mainda, Moksha, Moda, Moha, Mohana etc.)

Mohammada - Mlechchha ( Mohini, Mauna / silence, Maurya, Mlechchha etc.)

 

 

माघ/मघवा

ऋग्वेदे मघवाशब्दस्य प्रयोगः द्विशताधिकवारः अस्ति। बह्वीषु ऋचासु मघवा इन्द्रस्य विशेषणमस्ति, यथा शुनं हुवेम मघवानमिन्द्रं(ऋ. ३.०३०.२२)। वैदिकनिघण्टु मध्ये मघशब्दः धनस्य वाचकः अस्ति। शतपतब्राह्मण   १४.१.१.[१३] अनुसारेण यः इन्द्रः मखवान् अस्ति, सैव परोक्षरूपेण मघवान् इति आचक्षते। मखशब्दस्य किमर्थमस्ति। पुराणेषु रुद्रेण दक्षप्रजापतेः मखस्य ध्वंसनं प्रसिद्धमस्ति। मखस्य तादात्म्यं प्रवर्ग्येण सह अस्ति। डा. दयानन्दभागर्वानुसारेण

यज्ञ का अर्थ है-आदान-प्रदान। हम किसी से कुछ लें तो किसी को कुछ दें भी। जब हम लेते हैं तो हम अग्नि हैंजब हम देते हैं तो हम सोम हैं। दोनों के मिश्रण से यज्ञ होता है। प्रश्न होता है कितना लें और कितना दें। उत्तर है कि अपना अस्तित्व बनाये रखने के लिए जितना आवश्यक है उतना लेंशेष बचा हुआ दूसरों को दें। अपनी आवश्यकता पूरी करने पर बच जाता है उसे वेद ने उच्छिष्ट कहा है। इसे यज्ञशेष भी कहा जाता है। आज की भाषा में इसे प्रसाद कहते हैं। अपने लिए जो आवश्यक हैब्राह्मण ग्रंथ उसे ब्रह्मौदन कहते हैंजो बच जाए उसे प्रवर्ग्य कहते हैं। एक का प्रवर्ग्य दूसरे का ब्रह्मौदन बने-यह अहिंसक जीवन शैली का मार्ग है। हम दूसरे का ब्रह्मौदन छीनेंयह हिंसक जीवन शैली है। एक उदाहरण लें। पेड़ कार्बनडाइआक्साईड लेता हैवह उसका ब्रह्मौदन हैवह जो ऑक्सीजन छोड़ता हैयह उसका प्रवर्ग्य है। पेड़ का वह प्रवर्ग्य ऑक्सीजन हमारा ब्रह्मौदन बन जाता है और हमारे द्वारा छोड़ा गया कार्बनडाइआक्साईड पेड़ का ब्रह्मौदन बन जाता है। प्राकृतिक जीवन शैली का यही अहिंसक आधार है कि एक का प्रवर्ग्य दूसरा का ब्रह्मौदन बनता रहे और आदान-प्रदान रूप यज्ञ चलता रहे। किंतु सदा यह अहिंसक शैली व्यावहारिक नहीं होती। ऐसे में हमें किसी का ब्रह्मौदन ही लेना पड़े तो उसके प्रायश्चित के रूप में किसी को अपने स्वत्व का कुछ अंश दे भी देना चाहिये। अतःयज्ञ के साथ तपस् और दान भी धर्म का अंग हैं। दान पदार्थ का त्याग हैतपस् सुख का त्याग है। ये दोनों प्रकार के त्याग यज्ञ में होने वाली न्यूनता की पूर्ति कर देते हैं। प्रो० दयानन्द भार्गव

गोपथ ब्राह्मण में वृष के दो शीर्ष कहे गए हैं - प्रवर्ग्य और ब्रह्मौदन । शीर्ष का निर्माण उदान प्राण से होता है। इसीलिए इसे ब्रह्म-ओदन/उदान कहा गया है। सारी देह को पकाकर जो फल निकलता है, शीर्ष उसका प्रतीक होता है। ऐसा अनुमान है कि ब्रह्मौदन ब्रह्माण्ड की वह ऊर्जा है जिसका उपयोग दैवी नियमों के अनुसार हो रहा है, वह नियम जिनके अनुसार ऊर्जा का क्षय नहीं होता, प्रेम। ब्रह्मौदन व प्रवर्ग्ययह दोनों ही उदान प्राण के रूप कहे जा सकते हैं । उदान प्राण का अर्थ होगा वह ऊर्जा जो पृथिवी द्वारा द्युलोक में स्थापित की गई है । अथर्ववेद ११.१ तथा ११.३ सूक्त ब्रह्मौदन देवता के हैं । इन सूक्तों में प्रश्न उठाया गया है कि ब्रह्मौदन की ऊर्जा को देह के विभिन्न  अंग किस देवता के माध्यम से ग्रहण करें । यदि सामान्य स्तर पर ब्रह्मौदन की ऊर्जा को ग्रहण करने का प्रयास किया जाएगा तो वह अङ्ग नष्ट हो जाएगा । अतः जिस  अंग का जो देवता हैउसका आह्वान करके ही ब्रह्मौदन की ऊर्जा को ग्रहण किया जाता है ।

ऐसा प्रतीत होता है कि प्रवर्ग्य ब्रह्माण्ड की वह ऊर्जा है जिसका उपयोग प्रकृति कर रही है और वह ऊर्जा लगातार ऋणात्मकता की ओर जा रही है, उसकी अव्यवस्था में, एण्ट्रांपी में लगातार वृद्धि हो रही है। उसे उच्छिष्ट भी कहा गया है। प्रवर्ग्य शीर्ष की यह विशेषता है कि वह देह से कट कर सारे ब्रह्माण्ड में फैल जाता है।

     पुराणेषु मघवाशब्दस्य विवेचनं माघमासस्य संदर्भे अस्ति(द्र. माघ उपरि पौराणिकसंदर्भाः)। माघमासे सूर्यः मकरराश्यां स्थितः भवति। मकर अर्थात् ओंकारस्य मकारव्यञ्जनम्। ओंकारस्य आद्ययोः अ – उ मात्रयोः यत्किंचित् अपशिष्टमस्ति, तस्य शोधनं मकारमात्रया करणीयमस्ति। भविष्यपुराणे १.१४२ आदित्यपूजनार्थं अव्यङ्गस्य विवेचनमस्ति। अयं प्रतीयते यत् प्रयोगानन्तरं चेतनापुरुषः व्यङ्गः भवति, तस्य अङ्गाः शीर्णाः भवन्ति। अव्यङ्गस्य उत्पत्तिः नागराजतः(वासुकि अथवा शेषः?) भवति। अयं संकेतमस्ति यत् यस्ययस्य अङ्गस्य चेतना शीर्णः भवति, तस्याः आपूरणं नागराजः करोति। केन प्रकारेण। अघानां पानेन। अघानां पानं केन प्रकारेण संभवमस्ति, अन्वेषणीयः। पुराणेषु अघानां शोधनं माघस्नानेन संभवमस्ति (ज्ञानहृदे सत्यजले रागद्वेषमलापहे । यः स्नातो मानसे तीर्थे न स लिप्येत पातकैः – गरुडपु. २.३८.१२) )।  माघस्नानाय प्रयागे पश्चिमवाहिनी गंगा एवं यमुनयोः संधिस्थानः सार्वत्रिकरूपेण प्रसिद्धमस्ति। किन्तु पद्मपुराणे ६.१२८.१३ माघमासे विभिन्नतीर्थेषु स्नानस्य किं फलं भवति, अस्य विवेचनमस्ति।

     पुराणेषु कथनमस्ति यत् साम्बः स्वतपसा यस्य सूर्यस्य प्रतिष्ठां करोति, तस्य सूर्यस्य अहोरात्र अर्चनायाः अपेक्षा भवति। सामान्य वेदविज्ञब्राह्मणः तत्कर्तुं न शक्नोति। अर्चनहेतु मगब्राह्मणस्य सृष्टिः करणीयं भवति। भविष्यपुराणे १.१४४.२५ मगशब्दस्य निरुक्तिः अस्ति   - वदन्ति चार्धमात्रस्थं मकारं व्यञ्जनात्मकम्। ध्यायन्ति ये मकारीयं ज्ञानं ते हि सदात्मकम् । । मकारो भगवान्देवो भास्करः परिकीर्तितः । मकारध्यानयोगाच्च मगा ह्येते प्रकीर्तिताः ।

वेदमन्त्रेभ्यः अयं प्रतीयते यत् अपशिष्टचेतनातः धनभागस्य (मघशब्दः निघण्टुमध्ये धननामसु पठितमस्ति) ग्रहणं मघवानस्य कार्यमस्ति। पुराणेषु ययातेः पुत्राः यदु, तुर्वसु, द्रुह्युः, पूरवादयः सन्ति ये अस्नातारः सन्ति(उत त्या तुर्वशायदू अस्नातारा शचीपतिः । इन्द्रो विद्वाँ अपारयत् -ऋ. ४.३०.१७), तेषां रूपांतरणं सरलं नास्ति। वेदमन्त्रेषु (ऋ. ६.०४६.०८,  ७.०१९.०८) मघवा तेभ्यः धनस्य ग्रहणं कर्तुं शक्नोति।

किं मघवा तन्त्रस्य पुनर्यमनं कर्तुं शक्तः अस्ति। अस्मिन् संदर्भे ऋ. ४.०२४.०२ अनुसारेण अयं संभवमस्ति। ऋ. ८.०५२.०५ अनुसारेण यमनं संभवं नास्ति - अयामन्नुग्रो मघवा पुरूवसुर्गोरश्वस्य प्र दातु नः॥  । सायणभाष्यानुसारेण - अयामन् । यान्त्यनेनेति यामा मार्गः। स न विद्यते यस्यासावयामा । शतपथब्राह्मणे  ४.१.२.[१६] अन्तर्यामग्रहग्रहणस्य संदर्भे मघवानस्य कथनं अस्ति।

प्रयागे गंगायमुनयोः सित-असित सन्ध्याः किं वैदिकप्रमाणमस्ति। ऋग्वेदे ८.००१.१२ कथनमस्ति –

य ऋते चिदभिश्रिषः पुरा जत्रुभ्य आतृदः।

संधाता संधिं मघवा पुरूवसुरिष्कर्ता विह्रुतं पुनः॥

सायणभाष्ये अस्य विवेचनं एवंप्रकारेण अस्ति यत् मघवा शिरं छित्वा तस्य पुनरारोपणं कर्तुं शक्यते।

     भविष्यपुराणे ३.४.९.२४ माघमासस्य सूर्यस्य आख्यानमस्ति। हेलीद्विजः वेदाध्ययनवृत्तिं त्यज्य कारुवृत्तिं गृह्णाति। सः क्रमिकरूपेण एक, द्वि, त्रि इत्यादि कलासु आधिपत्यं प्राप्नोति एवं अन्ततः माघमासस्य सूर्यः भवति। कालान्तरे तस्य सूर्यस्य अवतरणं जयदेवकविरूपे भवति। चौराः जयदेवस्य हस्तपादानां छेदनं कुर्वन्ति। जयदेवः क्रोधं अकृत्वा तेषामुपरि करुणया द्रवितः भवति एवं गीतगोविन्दकाव्यस्य रचनां करोति। अनेन कृत्येन सः पुनः हस्तपादयुक्तः भवति। अयमाख्यानं चक्षुरुन्मीलकः अस्ति। अत्र जयदेवस्य परोक्षरूपेण अर्थमस्ति – दैवोपरि पुरुषार्थेन जयः। कारुवृत्तिः विश्वकर्मणः वाचकः अस्ति।

 

संदर्भाः

विश्वं सत्यं मघवाना युवोरिदापश्चन प्र मिनन्ति व्रतं वाम्।

अच्छेन्द्राब्रह्मणस्पती हविर्नोऽन्नं युजेव वाजिना जिगातम्॥ २.०२४.१२

मघमिति धननाम । तद्वंताविंद्राब्रह्मणस्पती युवोरित् युवयोरेव विश्वं सर्वं स्तोत्रं सत्यं यथार्थं । स्तुत्या यद्यद्गुणजातं प्रतिपाद्यते तत्सर्वं युवयोर्विद्यमानमेव न त्वारोपितमित्यर्थः । 

परि णो हेती रुद्रस्य वृज्याः परि त्वेषस्य दुर्मतिर्मही गात्।

अव स्थिरा मघवद्भ्यस्तनुष्व मीढ्वस्तोकाय तनयाय मृळ॥ २.०३३.१४

हे मीढ्वः सेचनसमर्थ रुद्र स्थिरा स्थिराणि त्वदीयानि धनूंषि मघवद्भ्यो हविर्लक्षणधनयुक्तेभ्यो यजमानेभ्यो ऽवतनुष्व। अवततज्यानि कुरु । 

अयांसमग्ने सुक्षितिं जनायायांसमु मघवद्भ्यः सुवृक्तिम्।

विश्वं तद्भद्रं यदवन्ति देवा बृहद्वदेम विदथे सुवीराः॥ २.०३५.१५

मघवद्भ्यो हविर्लक्षणधनयुक्तेभ्यो यजमानेभ्यश्च सुवृक्तिं शोभनावर्जकं त्वद्विषयं स्तोत्रमयांसं । उपागच्छ ॥

एष स्य ते तन्वो नृम्णवर्धनः सह ओजः प्रदिवि बाह्वोर्हितः।

तुभ्यं सुतो मघवन्तुभ्यमाभृतस्त्वमस्य ब्राह्मणादा तृपत्पिब॥ २.०३६.०५

हे मघवन् धनवन्निंद्र तुभ्यं त्वदर्थं तादृशः सोमः सुतोऽध्वर्युभिरभिषुतः । तुभ्यं होतुमाभृतः । उत्तरवेद्यां प्रत्याहृतश्च ।

स यन्ता विप्र एषां स यज्ञानामथा हि षः।

अग्निं तं वो दुवस्यत दाता यो वनिता मघम्॥ ३.०१३.०३

किंच सः अग्निः दाता ज्योतिष्टोमादिकर्मफलदाता मघं मंहनीयं धनम् । मघं रेक्णः ' (नि. २. १०. १ ) इति तन्नामसु पाठात् । तद्धनं वनिता प्रयच्छंश्च भवति । 

इन्द्रः सुशिप्रो मघवा तरुत्रो महाव्रातस्तुविकूर्मिर्ऋघावान्।

यदुग्रो धा बाधितो मर्त्येषु क्व त्या ते वृषभ वीर्याणि॥ ३.०३०.०३

इन्द्रः परमैश्वर्यसंपन्नः "सुशिप्रः । शिप्रशब्देन शिरस्त्राणमभिधीयते । शोभनशिरस्त्राणोपेतः । यद्वा शोभनहनुमान् । शिप्रे हनू नासिके वा ' ( निरु. ६. १७) इति यास्कः । "मघवा धनवान् "तरुत्रः । तरन्त्यनेन शत्रून्देवा इति तरुत्रः इन्द्रः । 

उताभये पुरुहूत श्रवोभिरेको दृळ्हमवदो वृत्रहा सन्।

इमे चिदिन्द्र रोदसी अपारे यत्संगृभ्णा मघवन्काशिरित्ते॥ ३.०३०.०५

 किंच मघवन् इन्द्र त्वम् अपारे चित् दूरपारेऽपि इमे रोदसी द्यावापृथिव्यौ यत् यस्मात् कारणात् संगृभ्णाः संगृह्णासि परस्परमधरोत्तरभावेन संयोजिते करोषीति यावत् । एषः ते तव महिमा काशिरित् प्रकाशो लोके प्रसिद्धः एव। यद्वा यत् येन ते रोदसी संगृह्णासि ते तव काशिर्मुष्टिः महान् ।' काशिर्मुष्टिः ' ( निरु. ६. १ ) इति यास्कः ॥

सं घोषः शृण्वेऽवमैरमित्रैर्जही न्येष्वशनिं तपिष्ठाम्।

वृश्चेमधस्ताद्वि रुजा सहस्व जहि रक्षो मघवन्रन्धयस्व॥ ३.०३०.१६

आ नो गोत्रा दर्दृहि गोपते गाः समस्मभ्यं सनयो यन्तु वाजाः।

दिवक्षा असि वृषभ सत्यशुष्मोऽस्मभ्यं सु मघवन्बोधि गोदाः॥ ३.०३०.२१

मघवन् धनवन् हे इन्द्र अस्मभ्यं गोदाः गवां प्रदाता भवामीति "सु बोधि सुष्ठु बुध्यस्व ॥

शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ।

शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम्॥ ३.०३०.२२

हे इन्द्र वाजसातौ । वाजस्यान्नस्य सातिः लाभः यस्मिन् सोऽयं वाजसातिः तस्मिन् । भरे। बिभ्रति जयलक्ष्मीमनेन योद्धार इति भरः संग्रामः। तस्मिन् संग्रामे शुनं शूनम् उत्साहेन प्रवृद्धम् । यद्वा शुनमिति सुखनाम । सुखकरं मघवानं धनवन्तम् अत एव इन्द्रं निरतिशयैश्वर्यसंपन्नं नृतमं सर्वस्य जगतोऽतिशयेन नेतारं त्वां हुवेम कुशिका वयं यज्ञार्थमाह्वयेम । 

मह्या ते सख्यं वश्मि शक्तीरा वृत्रघ्ने नियुतो यन्ति पूर्वीः।

महि स्तोत्रमव आगन्म सूरेरस्माकं सु मघवन्बोधि गोपाः॥ ३.०३१.१४

हे मघवन् इन्द्र तादृशस्त्वं अस्माकं सु" सुष्ठु गोपाः पालयिता भवामीति "बोधि बुध्यस्व ॥

तमङ्गिरस्वन्नमसा सपर्यन्नव्यं कृणोमि सन्यसे पुराजाम्।

द्रुहो वि याहि बहुला अदेवीः स्वश्च नो मघवन्सातये धाः॥ ३.०३१.१९

हे मघवन् इन्द्र "नः अस्मभ्यं "स्वः स्वं धनं च "सातये संभजनार्थं धाः धेहि

इन्द्र सोमं सोमपते पिबेमं माध्यंदिनं सवनं चारु यत्ते।

प्रप्रुथ्या शिप्रे मघवन्नृजीषिन्विमुच्या हरी इह मादयस्व॥ ३.०३२.०१

मघवन् धनवन् "ऋजीषिन् । ऋजीषशब्देन गतसारं सोमद्रव्यमुच्यते ।

अस्मे प्र यन्धि मघवन्नृजीषिन्निन्द्र रायो विश्ववारस्य भूरेः।

अस्मे शतं शरदो जीवसे धा अस्मे वीराञ्छश्वत इन्द्र शिप्रिन्॥ ३.०३६.१०

मघवन्धनवन्नृजीषिन् गतसारसोमवन् हे इंद्र

कुविन्मा गोपां करसे जनस्य कुविद्राजानं मघवन्नृजीषिन्।

कुविन्म ऋषिं पपिवांसं सुतस्य कुविन्मे वस्वो अमृतस्य शिक्षाः॥ ३.०४३.०५

हे मघवन् धनवन् ऋजीषिन् सोमवन् हे इन्द्र मां राजानं सर्वस्य स्वामिनं कुरु ।

ये त्वाहिहत्ये मघवन्नवर्धन्ये शाम्बरे हरिवो ये गविष्टौ।

ये त्वा नूनमनुमदन्ति विप्राः पिबेन्द्र सोमं सगणो मरुद्भिः॥ ३.०४७.०४

हे मघवन् धनवन् इन्द्र ये मरुतः "अहिहत्ये वृत्रहननरूपे कर्मणि त्वा त्वाम् अवर्धन्।

चर्षणीधृतं मघवानमुक्थ्यमिन्द्रं गिरो बृहतीरभ्यनूषत।

वावृधानं पुरुहूतं सुवृक्तिभिरमर्त्यं जरमाणं दिवेदिवे॥ ३.०५१.०१

आकृषन्त्यनेन सर्वमिति चर्षणि बलं तद्धारकम् । मघवानं धनवन्तम्

तिष्ठा सु कं मघवन्मा परा गाः सोमस्य नु त्वा सुषुतस्य यक्षि।

पितुर्न पुत्रः सिचमा रभे त इन्द्र स्वादिष्ठया गिरा शचीवः॥ ३.०५३.०२

जायेदस्तं मघवन्सेदु योनिस्तदित्त्वा युक्ता हरयो वहन्तु।

यदा कदा च सुनवाम सोममग्निष्ट्वा दूतो धन्वात्यच्छ॥ ३.०५३.०४

परा याहि मघवन्ना च याहीन्द्र भ्रातरुभयत्रा ते अर्थम्।

यत्रा रथस्य बृहतो निधानं विमोचनं वाजिनो रासभस्य॥ ३.०५३.०५

रूपंरूपं मघवा बोभवीति मायाः कृण्वानस्तन्वं परि स्वाम्।

त्रिर्यद्दिवः परि मुहूर्तमागात्स्वैर्मन्त्रैरनृतुपा ऋतावा॥ ३.०५३.०८

मघवा धनवानिन्द्रः "रूपंरूपं यद्यद्रूपं कामयते तत्तद्रूपं बोभवीति भृशं प्राप्नोति । तत्तद्रूपात्मको भवति । तत्र कारणमुच्यते । मायाः अनेकरूपग्रहणसामर्थ्योपेताः कृण्वानः कुर्वाणः स्वां तन्वं स्वकीयां तनूम् ।

किं ते कृण्वन्ति कीकटेषु गावो नाशिरं दुह्रे न तपन्ति घर्मम्।

आ नो भर प्रमगन्दस्य वेदो नैचाशाखं मघवन्रन्धया नः॥ ३.०५३.१४

तिरः पुरू चिदश्विना रजांस्याङ्गूषो वां मघवाना जनेषु।

एह यातं पथिभिर्देवयानैर्दस्राविमे वां निधयो मधूनाम्॥ ३.०५८.०५

इन्द्र ऋभुभिर्वाजवद्भिः समुक्षितं सुतं सोममा वृषस्वा गभस्त्योः।

धियेषितो मघवन्दाशुषो गृहे सौधन्वनेभिः सह मत्स्वा नृभिः॥ ३.०६०.०५

 हे मघवन् इन्द्र धिया स्तोत्ररूपेण कर्मणा इषितः प्रेरितस्त्वं दाशुषः हविर्दत्तवतो यजमानस्य गृहे "सौधन्वनेभिः सुधन्वनः पुत्रैः "नृभिः मनुष्यैर्ऋभुभिः सह साकं मत्स्व सोमपानेन हृष्टो भव ॥

आ सत्यो यातु मघवाँ ऋजीषी द्रवन्त्वस्य हरय उप नः।

तस्मा इदन्धः सुषुमा सुदक्षमिहाभिपित्वं करते गृणानः॥ ४.०१६.०१

अच्छा कविं नृमणो गा अभिष्टौ स्वर्षाता मघवन्नाधमानम्।

ऊतिभिस्तमिषणो द्युम्नहूतौ नि मायावानब्रह्मा दस्युरर्त॥ ४.०१६.०९

एभिर्नृभिरिन्द्र त्वायुभिष्ट्वा मघवद्भिर्मघवन्विश्व आजौ।

द्यावो न द्युम्नैरभि सन्तो अर्यः क्षपो मदेम शरदश्च पूर्वीः॥ ४.०१६.१९

त्वमध प्रथमं जायमानोऽमे विश्वा अधिथा इन्द्र कृष्टीः।

त्वं प्रति प्रवत आशयानमहिं वज्रेण मघवन्वि वृश्चः॥ ४.०१७.०७

सत्राहणं दाधृषिं तुम्रमिन्द्रं महामपारं वृषभं सुवज्रम्।

हन्ता यो वृत्रं सनितोत वाजं दाता मघानि मघवा सुराधाः॥ ४.०१७.०८

सुराधाः शोभनधनयुक्तो यः मघवा इन्द्रः मघानि धनानि दाता भवति ।

अयं वृतश्चातयते समीचीर्य आजिषु मघवा शृण्व एकः।

अयं वाजं भरति यं सनोत्यस्य प्रियासः सख्ये स्याम॥ ४.०१७.०९

समिन्द्रो गा अजयत्सं हिरण्या समश्विया मघवा यो ह पूर्वीः।

एभिर्नृभिर्नृतमो अस्य शाकै रायो विभक्ता सम्भरश्च वस्वः॥ ४.०१७.११

क्षियन्तं त्वमक्षियन्तं कृणोतीयर्ति रेणुं मघवा समोहम्।

विभञ्जनुरशनिमाँ इव द्यौरुत स्तोतारं मघवा वसौ धात्॥ ४.०१७.१३

मघवा इन्द्रः समोहं समूढं रेणुं पापम् इयर्ति स्तोतुः सकाशात् प्रेरयति । 

स्तुत इन्द्रो मघवा यद्ध वृत्रा भूरीण्येको अप्रतीनि हन्ति।

अस्य प्रियो जरिता यस्य शर्मन्नकिर्देवा वारयन्ते न मर्ताः॥ ४.०१७.१९

एवा न इन्द्रो मघवा विरप्शी करत्सत्या चर्षणीधृदनर्वा।

त्वं राजा जनुषां धेह्यस्मे अधि श्रवो माहिनं यज्जरित्रे॥ ४.०१७.२०

ममच्चन ते मघवन्व्यंसो निविविध्वाँ अप हनू जघान।

अधा निविद्ध उत्तरो बभूवाञ्छिरो दासस्य सं पिणग्वधेन॥ ४.०१८.०९

आ न इन्द्रो हरिभिर्यात्वच्छार्वाचीनोऽवसे राधसे च।

तिष्ठाति वज्री मघवा विरप्शीमं यज्ञमनु नो वाजसातौ ४.०२०.०२

न यस्य वर्ता जनुषा न्वस्ति न राधस आमरीता मघस्य।

उद्वावृषाणस्तविषीव उग्रास्मभ्यं दद्धि पुरुहूत रायः॥ ४.०२०.०७

यन्न इन्द्रो जुजुषे यच्च वष्टि तन्नो महान्करति शुष्म्या चित्।

ब्रह्म स्तोमं मघवा सोममुक्था यो अश्मानं शवसा बिभ्रदेति॥ ४.०२२.०१

अस्माकमित्सु शृणुहि त्वमिन्द्रास्मभ्यं चित्राँ उप माहि वाजान्।

अस्मभ्यं विश्वा इषणः पुरंधीरस्माकं सु मघवन्बोधि गोदाः॥ ४.०२२.१०

स वृत्रहत्ये हव्यः स ईड्यः स सुष्टुत इन्द्रः सत्यराधाः।

यामन्ना मघवा मर्त्याय ब्रह्मण्यते सुष्वये वरिवो धात्॥ ४.०२४.०२

अध श्वेतं कलशं गोभिरक्तमापिप्यानं मघवा शुक्रमन्धः।

अध्वर्युभिः प्रयतं मध्वो अग्रमिन्द्रो मदाय प्रति धत्पिबध्यै शूरो मदाय प्रति धत्पिबध्यै॥ ४.०२७.०५

एवा सत्यं मघवाना युवं तदिन्द्रश्च सोमोर्वमश्व्यं गोः।

आदर्दृतमपिहितान्यश्ना रिरिचथुः क्षाश्चित्ततृदाना॥ ४.०२८.०५

त्वोतासो मघवन्निन्द्र विप्रा वयं ते स्याम सूरयो गृणन्तः।

भेजानासो बृहद्दिवस्य राय आकाय्यस्य दावने पुरुक्षोः॥ ४.०२९.०५

न त्वा वरन्ते अन्यथा यद्दित्ससि स्तुतो मघम्।

स्तोतृभ्य इन्द्र गिर्वणः॥ ४.०३२.०८

तं नो वाजा ऋभुक्षण इन्द्र नासत्या रयिम्।

समश्वं चर्षणिभ्य आ पुरु शस्त मघत्तये॥ ४.०३७.०८

मां नरः स्वश्वा वाजयन्तो मां वृताः समरणे हवन्ते।

कृणोम्याजिं मघवाहमिन्द्र इयर्मि रेणुमभिभूत्योजाः॥ ४.०४२.०५

यो न आगो अभ्येनो भरात्यधीदघमघशंसे दधात।

जही चिकित्वो अभिशस्तिमेतामग्ने यो नो मर्चयति द्वयेन॥ ५.००३.०७

अध क्रत्वा मघवन्तुभ्यं देवा अनु विश्वे अददुः सोमपेयम्।

यत्सूर्यस्य हरितः पतन्तीः पुरः सतीरुपरा एतशे कः॥ ५.०२९.०५

नव यदस्य नवतिं च भोगान्साकं वज्रेण मघवा विवृश्चत्।

अर्चन्तीन्द्रं मरुतः सधस्थे त्रैष्टुभेन वचसा बाधत द्याम्॥ ५.०२९.०६

त्री यच्छता महिषाणामघो मास्त्री सरांसि मघवा सोम्यापाः।

कारं न विश्वे अह्वन्त देवा भरमिन्द्राय यदहिं जघान॥ ५.०२९.०८

कथो नु ते परि चराणि विद्वान्वीर्या मघवन्या चकर्थ।

या चो नु नव्या कृणवः शविष्ठ प्रेदु ता ते विदथेषु ब्रवाम॥ ५.०२९.१३

प्र नु वयं सुते या ते कृतानीन्द्र ब्रवाम यानि नो जुजोषः।

वेददविद्वाञ्छृणवच्च विद्वान्वहतेऽयं मघवा सर्वसेनः॥ ५.०३०.०३

वि षू मृधो जनुषा दानमिन्वन्नहन्गवा मघवन्संचकानः।

अत्रा दासस्य नमुचेः शिरो यदवर्तयो मनवे गातुमिच्छन्॥ ५.०३०.०७

प्र ते पूर्वाणि करणानि वोचं प्र नूतना मघवन्या चकर्थ।

शक्तीवो यद्विभरा रोदसी उभे जयन्नपो मनवे दानुचित्राः॥ ५.०३१.०६

स त्वं न इन्द्र धियसानो अर्कैर्हरीणां वृषन्योक्त्रमश्रेः।

या इत्था मघवन्ननु जोषं वक्षो अभि प्रार्यः सक्षि जनान्॥ ५.०३३.०२

पपृक्षेण्यमिन्द्र त्वे ह्योजो नृम्णानि च नृतमानो अमर्तः।

स न एनीं वसवानो रयिं दाः प्रार्यः स्तुषे तुविमघस्य दानम्॥ ५.०३३.०६

आ यः सोमेन जठरमपिप्रतामन्दत मघवा मध्वो अन्धसः।

यदीं मृगाय हन्तवे महावधः सहस्रभृष्टिमुशना वधं यमत्॥ ५.०३४.०२

यो अस्मै घ्रंस उत वा य ऊधनि सोमं सुनोति भवति द्युमाँ अह।

अपाप शक्रस्ततनुष्टिमूहति तनूशुभ्रं मघवा यः कवासखः॥ ५.०३४.०३

सं यज्जनौ सुधनौ विश्वशर्धसाववेदिन्द्रो मघवा गोषु शुभ्रिषु।

युजं ह्यन्यमकृत प्रवेपन्युदीं गव्यं सृजते सत्वभिर्धुनिः॥ ५.०३४.०८

एष ग्रावेव जरिता त इन्द्रेयर्ति वाचं बृहदाशुषाणः।

प्र सव्येन मघवन्यंसि रायः प्र दक्षिणिद्धरिवो मा वि वेनः॥ ५.०३६.०४

मरुत्वतो अप्रतीतस्य जिष्णोरजूर्यतः प्र ब्रवामा कृतानि।

न ते पूर्वे मघवन्नापरासो न वीर्यं नूतनः कश्चनाप॥ ५.०४२.०६

तवोतिभिः सचमाना अरिष्टा बृहस्पते मघवानः सुवीराः।

ये अश्वदा उत वा सन्ति गोदा ये वस्त्रदाः सुभगास्तेषु रायः॥ ५.०४२.०८

अभि ये त्वा विभावरि स्तोमैर्गृणन्ति वह्नयः।

मघैर्मघोनि सुश्रियो दामन्वन्तः सुरातयः सुजाते अश्वसूनृते॥ ५.०७९.०४

यच्चिद्धि ते गणा इमे छदयन्ति मघत्तये।

परि चिद्वष्टयो दधुर्ददतो राधो अह्रयं सुजाते अश्वसूनृते॥ ५.०७९.०५

ऐषु धा वीरवद्यश उषो मघोनि सूरिषु।

ये नो राधांस्यह्रया मघवानो अरासत सुजाते अश्वसूनृते॥ ५.०७९.०६

तेभ्यो द्युम्नं बृहद्यश उषो मघोन्या वह।

ये नो राधांस्यश्व्या गव्या भजन्त सूरयः सुजाते अश्वसूनृते॥ ५.०७९.०७

अस्माकमग्ने मघवत्सु धारयाऽनामि क्षत्रमजरं सुवीर्यम्।

वयं जयेम शतिनं सहस्रिणं वैश्वानर वाजमग्ने तवोतिभिः॥ ६.००८.०६

नू नश्चित्रं पुरुवाजाभिरूती अग्ने रयिं मघवद्भ्यश्च धेहि।

ये राधसा श्रवसा चात्यन्यान्सुवीर्येभिश्चाभि सन्ति जनान्॥ ६.०१०.०५

अभि प्रयांसि सुधितानि हि ख्यो नि त्वा दधीत रोदसी यजध्यै।

अवा नो मघवन्वाजसातावग्ने विश्वानि दुरिता तरेम ता तरेम तवावसा तरेम॥ ६.०१५.१५

सुत इत्त्वं निमिश्ल इन्द्र सोमे स्तोमे ब्रह्मणि शस्यमान उक्थे।

यद्वा युक्ताभ्यां मघवन्हरिभ्यां बिभ्रद्वज्रं बाह्वोरिन्द्र यासि॥ ६.०२३.०१

वृषा मद इन्द्रे श्लोक उक्था सचा सोमेषु सुतपा ऋजीषी।

अर्चत्र्यो मघवा नृभ्य उक्थैर्द्युक्षो राजा गिरामक्षितोतिः॥ ६.०२४.०१

नहि नु ते महिमनः समस्य न मघवन्मघवत्त्वस्य विद्म।

न राधसोराधसो नूतनस्येन्द्र नकिर्ददृश इन्द्रियं ते॥ ६.०२७.०३

द्वयाँ अग्ने रथिनो विंशतिं गा वधूमतो मघवा मह्यं सम्राट्।

अभ्यावर्ती चायमानो ददाति दूणाशेयं दक्षिणा पार्थवानाम्॥ ६.०२७.०८

एना मन्दानो जहि शूर शत्रूञ्जामिमजामिं मघवन्नमित्रान्।

अभिषेणाँ अभ्यादेदिशानान्पराच इन्द्र प्र मृणा जही च॥ ६.०४४.१७

आसु ष्मा णो मघवन्निन्द्र पृत्स्वस्मभ्यं महि वरिवः सुगं कः।

अपां तोकस्य तनयस्य जेष इन्द्र सूरीन्कृणुहि स्मा नो अर्धम्॥ ६.०४४.१८

यद्वा तृक्षौ मघवन्द्रुह्यावा जने यत्पूरौ कच्च वृष्ण्यम्।

अस्मभ्यं तद्रिरीहि सं नृषाह्येऽमित्रान्पृत्सु तुर्वणे॥ ६.०४६.०८

इन्द्र त्रिधातु शरणं त्रिवरूथं स्वस्तिमत्।

छर्दिर्यच्छ मघवद्भ्यश्च मह्यं च यावया दिद्युमेभ्यः॥ ६.०४६.०९

ये गव्यता मनसा शत्रुमादभुरभिप्रघ्नन्ति धृष्णुया।

अध स्मा नो मघवन्निन्द्र गिर्वणस्तनूपा अन्तमो भव॥ ६.०४६.१०

त्रातारमिन्द्रमवितारमिन्द्रं हवेहवे सुहवं शूरमिन्द्रम्।

ह्वयामि शक्रं पुरुहूतमिन्द्रं स्वस्ति नो मघवा धात्विन्द्रः॥ ६.०४७.११

नू मे ब्रह्माण्यग्न उच्छशाधि त्वं देव मघवद्भ्यः सुषूदः।

रातौ स्यामोभयास आ ते यूयं पात स्वस्तिभिः सदा नः॥ ७.००१.२०

तं नो अग्ने मघवद्भ्यः पुरुक्षुं रयिं नि वाजं श्रुत्यं युवस्व।

वैश्वानर महि नः शर्म यच्छ रुद्रेभिरग्ने वसुभिः सजोषाः॥ ७.००५.०९

नू त्वामग्न ईमहे वसिष्ठा ईशानं सूनो सहसो वसूनाम्।

इषं स्तोतृभ्यो मघवद्भ्य आनड्यूयं पात स्वस्तिभिः सदा नः॥ ७.००७.०७

त्वे अग्ने स्वाहुत प्रियासः सन्तु सूरयः।

यन्तारो ये मघवानो जनानामूर्वान्दयन्त गोनाम्॥ ७.०१६.०७

स मन्द्रया च जिह्वया वह्निरासा विदुष्टरः।

अग्ने रयिं मघवद्भ्यो न आ वह हव्यदातिं च सूदय॥ ७.०१६.०९

राजेव हि जनिभिः क्षेष्येवाव द्युभिरभि विदुष्कविः सन्।

पिशा गिरो मघवन्गोभिरश्वैस्त्वायतः शिशीहि राये अस्मान्॥ ७.०१८.०२

प्रियास इत्ते मघवन्नभिष्टौ नरो मदेम शरणे सखायः।

नि तुर्वशं नि याद्वं शिशीह्यतिथिग्वाय शंस्यं करिष्यन्॥ ७.०१९.०८

सद्यश्चिन्नु ते मघवन्नभिष्टौ नरः शंसन्त्युक्थशास उक्था।

ये ते हवेभिर्वि पणीँरदाशन्नस्मान्वृणीष्व युज्याय तस्मै॥ ७.०१९.०९

स न इन्द्र त्वयताया इषे धास्त्मना च ये मघवानो जुनन्ति।

वस्वी षु ते जरित्रे अस्तु शक्तिर्यूयं पात स्वस्तिभिः सदा नः॥ ७.०२०.१०

बोधा सु मे मघवन्वाचमेमां यां ते वसिष्ठो अर्चति प्रशस्तिम्।

इमा ब्रह्म सधमादे जुषस्व॥ ७.०२२.०३

एवा न इन्द्र वार्यस्य पूर्धि प्र ते महीं सुमतिं वेविदाम।

इषं पिन्व मघवद्भ्यः सुवीरां यूयं पात स्वस्तिभिः सदा नः॥ ७.०२४.०६

न सोम इन्द्रमसुतो ममाद नाब्रह्माणो मघवानं सुतासः।

तस्मा उक्थं जनये यज्जुजोषन्नृवन्नवीयः शृणवद्यथा नः॥ ७.०२६.०१

उक्थौक्थे सोम इन्द्रं ममाद नीथेनीथे मघवानं सुतासः।

यदीं सबाधः पितरं न पुत्राः समानदक्षा अवसे हवन्ते॥ ७.०२६.०२

य इन्द्र शुष्मो मघवन्ते अस्ति शिक्षा सखिभ्यः पुरुहूत नृभ्यः।

त्वं हि दृळ्हा मघवन्विचेता अपा वृधि परिवृतं न राधः॥ ७.०२७.०२

नू चिन्न इन्द्रो मघवा सहूती दानो वाजं नि यमते न ऊती।

अनूना यस्य दक्षिणा पीपाय वामं नृभ्यो अभिवीता सखिभ्यः॥ ७.०२७.०४

नू इन्द्र राये वरिवस्कृधी न आ ते मनो ववृत्याम मघाय।

गोमदश्वावद्रथवद्व्यन्तो यूयं पात स्वस्तिभिः सदा नः॥ ७.०२७.०५

वोचेमेदिन्द्रं मघवानमेनं महो रायो राधसो यद्ददन्नः।

यो अर्चतो ब्रह्मकृतिमविष्ठो यूयं पात स्वस्तिभिः सदा नः॥ ७.०२८.०५

अयं सोम इन्द्र तुभ्यं सुन्व आ तु प्र याहि हरिवस्तदोकाः।

पिबा त्वस्य सुषुतस्य चारोर्ददो मघानि मघवन्नियानः॥ ७.०२९.०१

का ते अस्त्यरंकृतिः सूक्तैः कदा नूनं ते मघवन्दाशेम।

विश्वा मतीरा ततने त्वायाधा म इन्द्र शृणवो हवेमा॥ ७.०२९.०३

उतो घा ते पुरुष्या इदासन्येषां पूर्वेषामशृणोर्ऋषीणाम्।

अधाहं त्वा मघवञ्जोहवीमि त्वं न इन्द्रासि प्रमतिः पितेव॥ ७.०२९.०४

वोचेमेदिन्द्रं मघवानमेनं महो रायो राधसो यद्ददन्नः।

यो अर्चतो ब्रह्मकृतिमविष्ठो यूयं पात स्वस्तिभिः सदा नः॥ ७.०२९.०५

भवा वरूथं मघवन्मघोनां यत्समजासि शर्धतः।

वि त्वाहतस्य वेदनं भजेमह्या दूणाशो भरा गयम्॥ ७.०३२.०७

कस्तमिन्द्र त्वावसुमा मर्त्यो दधर्षति।

श्रद्धा इत्ते मघवन्पार्ये दिवि वाजी वाजं सिषासति॥ ७.०३२.१४

न त्वावाँ अन्यो दिव्यो न पार्थिवो न जातो न जनिष्यते।

अश्वायन्तो मघवन्निन्द्र वाजिनो गव्यन्तस्त्वा हवामहे॥ ७.०३२.२३

अभी षतस्तदा भरेन्द्र ज्यायः कनीयसः।

पुरूवसुर्हि मघवन्सनादसि भरेभरे च हव्यः॥ ७.०३२.२४

परा णुदस्व मघवन्नमित्रान्सुवेदा नो वसू कृधि।

अस्माकं बोध्यविता महाधने भवा वृधः सखीनाम्॥ ७.०३२.२५

यूयं ह रत्नं मघवत्सु धत्थ स्वर्दृश ऋभुक्षणो अमृक्तम्।

सं यज्ञेषु स्वधावन्तः पिबध्वं वि नो राधांसि मतिभिर्दयध्वम्॥ ७.०३७.०२

उवोचिथ हि मघवन्देष्णं महो अर्भस्य वसुनो विभागे।

उभा ते पूर्णा वसुना गभस्ती न सूनृता नि यमते वसव्या॥ ७.०३७.०३

उतेदानीं भगवन्तः स्यामोत प्रपित्व उत मध्ये अह्नाम्।

उतोदिता मघवन्सूर्यस्य वयं देवानां सुमतौ स्याम॥ ७.०४१.०४

ऋभुक्षणो वाजा मादयध्वमस्मे नरो मघवानः सुतस्य।

आ वोऽर्वाचः क्रतवो न यातां विभ्वो रथं नर्यं वर्तयन्तु॥ ७.०४८.०१

बृहद्वयो मघवद्भ्यो दधात जुजोषन्निन्मरुतः सुष्टुतिं नः।

गतो नाध्वा वि तिराति जन्तुं प्र णः स्पार्हाभिरूतिभिस्तिरेत॥ ७.०५८.०३

यो ब्रह्मणे सुमतिमायजाते वाजस्य सातौ परमस्य रायः।

सीक्षन्त मन्युं मघवानो अर्य उरु क्षयाय चक्रिरे सुधातु॥ ७.०६०.११

असश्चता मघवद्भ्यो हि भूतं ये राया मघदेयं जुनन्ति।

प्र ये बन्धुं सूनृताभिस्तिरन्ते गव्या पृञ्चन्तो अश्व्या मघानि॥ ७.०६७.०९

अधा ह यन्तो अश्विना पृक्षः सचन्त सूरयः।

ता यंसतो मघवद्भ्यो ध्रुवं यशश्छर्दिरस्मभ्यं नासत्या॥ ७.०७४.०५

प्रति त्वाद्य सुमनसो बुधन्तास्माकासो मघवानो वयं च।

तिल्विलायध्वमुषसो विभातीर्यूयं पात स्वस्तिभिः सदा नः॥ ७.०७८.०५

स वावृधे नर्यो योषणासु वृषा शिशुर्वृषभो यज्ञियासु।

स वाजिनं मघवद्भ्यो दधाति वि सातये तन्वं मामृजीत॥ ७.०९५.०३

प्रेन्द्रस्य वोचं प्रथमा कृतानि प्र नूतना मघवा या चकार।

यदेददेवीरसहिष्ट माया अथाभवत्केवलः सोमो अस्य॥ ७.०९८.०५

इन्द्रासोमा समघशंसमभ्यघं तपुर्ययस्तु चरुरग्निवाँ इव।

ब्रह्मद्विषे क्रव्यादे घोरचक्षसे द्वेषो धत्तमनवायं किमीदिने॥ ७.१०४.०२

प्र वर्तय दिवो अश्मानमिन्द्र सोमशितं मघवन्सं शिशाधि।

प्राक्तादपाक्तादधरादुदक्तादभि जहि रक्षसः पर्वतेन॥ ७.१०४.१९

वि तर्तूर्यन्ते मघवन्विपश्चितोऽर्यो विपो जनानाम्।

उप क्रमस्व पुरुरूपमा भर वाजं नेदिष्ठमूतये॥ ८.००१.०४

महे चन त्वामद्रिवः परा शुल्काय देयाम्।

न सहस्राय नायुताय वज्रिवो न शताय शतामघ॥ ८.००१.०५

य ऋते चिदभिश्रिषः पुरा जत्रुभ्य आतृदः।

संधाता संधिं मघवा पुरूवसुरिष्कर्ता विह्रुतं पुनः॥ ८.००१.१२

स्तुहि स्तुहीदेते घा ते मंहिष्ठासो मघोनाम्।

निन्दिताश्वः प्रपथी परमज्या मघस्य मेध्यातिथे॥ ८.००१.३०

कदु स्तुवन्त ऋतयन्त देवत ऋषिः को विप्र ओहते।

कदा हवं मघवन्निन्द्र सुन्वतः कदु स्तुवत आ गमः॥ ८.००३.१४

युक्ष्वा हि वृत्रहन्तम हरी इन्द्र परावतः।

अर्वाचीनो मघवन्सोमपीतय उग्र ऋष्वेभिरा गहि॥ ८.००३.१७

इमे हि ते कारवो वावशुर्धिया विप्रासो मेधसातये।

स त्वं नो मघवन्निन्द्र गिर्वणो वेनो न शृणुधी हवम्॥ ८.००३.१८

मन्दन्तु त्वा मघवन्निन्द्रेन्दवो राधोदेयाय सुन्वते।

आमुष्या सोममपिबश्चमू सुतं ज्येष्ठं तद्दधिषे सहः॥ ८.००४.०४

ऋश्यो न तृष्यन्नवपानमा गहि पिबा सोमं वशाँ अनु।

निमेघमानो मघवन्दिवेदिव ओजिष्ठं दधिषे सहः॥ ८.००४.१०

अस्मभ्यं वाजिनीवसू मघवद्भ्यश्च सप्रथः।

छर्दिर्यन्तमदाभ्यम्॥ ८.००५.१२

न ते वर्तास्ति राधस इन्द्र देवो न मर्त्यः।

यद्दित्ससि स्तुतो मघम्॥ ८.०१४.०४

समित्तमघमश्नवद्दुःशंसं मर्त्यं रिपुम्।

यो अस्मत्रा दुर्हणावाँ उप द्वयुः॥ ८.०१८.१४

हर्यश्वं सत्पतिं चर्षणीसहं स हि ष्मा यो अमन्दत।

आ तु नः स वयति गव्यमश्व्यं स्तोतृभ्यो मघवा शतम्॥ ८.०२१.१०

आ वृषस्व महामह महे नृतम राधसे।

दृळ्हश्चिद्दृह्य मघवन्मघत्तये॥ ८.०२४.१०

नू अन्यत्रा चिदद्रिवस्त्वन्नो जग्मुराशसः।

मघवञ्छग्धि तव तन्न ऊतिभिः॥ ८.०२४.११

उप नो यातमश्विना राया विश्वपुषा सह।

मघवाना सुवीरावनपच्युता॥ ८.०२६.०७

उत नः पितुमा भर संरराणो अविक्षितम्।

मघवन्भूरि ते वसु॥ ८.०३२.०८

कण्वेभिर्धृष्णवा धृषद्वाजं दर्षि सहस्रिणम्।

पिशङ्गरूपं मघवन्विचर्षणे मक्षू गोमन्तमीमहे॥ ८.०३३.०३

यः सुषव्यः सुदक्षिण इनो यः सुक्रतुर्गृणे।

य आकरः सहस्रा यः शतामघ इन्द्रो यः पूर्भिदारितः॥ ८.०३३.०५

वृषणस्ते अभीशवो वृषा कशा हिरण्ययी।

वृषा रथो मघवन्वृषणा हरी वृषा त्वं शतक्रतो॥ ८.०३३.११

एन्द्र याहि पीतये मधु शविष्ठ सोम्यम्।

नायमच्छा मघवा शृणवद्गिरो ब्रह्मोक्था च सुक्रतुः॥ ८.०३३.१३

आ नो याहि महेमते सहस्रोते शतामघ।

दिवो अमुष्य शासतो दिवं यय दिवावसो॥ ८.०३४.०७

प्राव स्तोतारं मघवन्नव त्वां पिबा सोमं मदाय कं शतक्रतो।

यं ते भागमधारयन्विश्वाः सेहानः पृतना उरु ज्रयः समप्सुजिन्मरुत्वाँ इन्द्र सत्पते॥ ८.०३६.०२

उत त्वं मघवञ्छृणु यस्ते वष्टि ववक्षि तत्।

यद्वीळयासि वीळु तत्॥ ८.०४५.०६

यस्ते रेवाँ अदाशुरिः प्रममर्ष मघत्तये।

तस्य नो वेद आ भर॥ ८.०४५.१५

नहि ते शूर राधसोऽन्तं विन्दामि सत्रा।

दशस्या नो मघवन्नू चिदद्रिवो धियो वाजेभिराविथ॥ ८.०४६.११

स नो वाजेष्वविता पुरूवसुः पुरःस्थाता मघवा वृत्रहा भुवत्॥ ८.०४६.१३

अभि प्र वः सुराधसमिन्द्रमर्च यथा विदे।

यो जरितृभ्यो मघवा पुरूवसुः सहस्रेणेव शिक्षति॥ ८.०४९.०१

एतावतस्त ईमह इन्द्र सुम्नस्य गोमतः।

यथा प्रावो मघवन्मेध्यातिथिं यथा नीपातिथिं धने॥ ८.०४९.०९

यथा कण्वे मघवन्त्रसदस्यवि यथा पक्थे दशव्रजे।

यथा गोशर्ये असनोर्ऋजिश्वनीन्द्र गोमद्धिरण्यवत्॥ ८.०४९.१०

शतानीका हेतयो अस्य दुष्टरा इन्द्रस्य समिषो महीः।

गिरिर्न भुज्मा मघवत्सु पिन्वते यदीं सुता अमन्दिषुः॥ ८.०५०.०२

यथा कण्वे मघवन्मेधे अध्वरे दीर्घनीथे दमूनसि।

यथा गोशर्ये असिषासो अद्रिवो मयि गोत्रं हरिश्रियम्॥ ८.०५०.१०

यथा मनौ सांवरणौ सोममिन्द्रापिबः सुतम्।

नीपातिथौ मघवन्मेध्यातिथौ पुष्टिगौ श्रुष्टिगौ सचा॥ ८.०५१.०१

यस्मै त्वं वसो दानाय शिक्षसि स रायस्पोषमश्नुते।

तं त्वा वयं मघवन्निन्द्र गिर्वणः सुतावन्तो हवामहे॥ ८.०५१.०६

कदा चन स्तरीरसि नेन्द्र सश्चसि दाशुषे।

उपोपेन्नु मघवन्भूय इन्नु ते दानं देवस्य पृच्यते॥ ८.०५१.०७

यो नो दाता स नः पिता महाँ उग्र ईशानकृत्।

अयामन्नुग्रो मघवा पुरूवसुर्गोरश्वस्य प्र दातु नः॥ ८.०५२.०५

यस्मै त्वं मघवन्निन्द्र गिर्वणः शिक्षो शिक्षसि दाशुषे।

अस्माकं गिर उत सुष्टुतिं वसो कण्ववच्छृणुधी हवम्॥ ८.०५२.०८

उपमं त्वा मघोनां ज्येष्ठं च वृषभाणाम्।

पूर्भित्तमं मघवन्निन्द्र गोविदमीशानं राय ईमहे॥ ८.०५३.०१

यदिन्द्र राधो अस्ति ते माघोनं मघवत्तम।

तेन नो बोधि सधमाद्यो वृधे भगो दानाय वृत्रहन्॥ ८.०५४.०५

सन्ति ह्यर्य आशिष इन्द्र आयुर्जनानाम्।

अस्मान्नक्षस्व मघवन्नुपावसे धुक्षस्व पिप्युषीमिषम्॥ ८.०५४.०७

उभयं शृणवच्च न इन्द्रो अर्वागिदं वचः।

सत्राच्या मघवा सोमपीतये धिया शविष्ठ आ गमत्॥ ८.०६१.०१

अप्रामिसत्य मघवन्तथेदसदिन्द्र क्रत्वा यथा वशः।

सनेम वाजं तव शिप्रिन्नवसा मक्षू चिद्यन्तो अद्रिवः॥ ८.०६१.०४

त्वं ह्येहि चेरवे विदा भगं वसुत्तये।

उद्वावृषस्व मघवन्गविष्टय उदिन्द्राश्वमिष्टये॥ ८.०६१.०७

यत इन्द्र भयामहे ततो नो अभयं कृधि।

मघवञ्छग्धि तव तन्न ऊतिभिर्वि द्विषो वि मृधो जहि॥ ८.०६१.१३

त्वं हि राधस्पते राधसो महः क्षयस्यासि विधतः।

तं त्वा वयं मघवन्निन्द्र गिर्वणः सुतावन्तो हवामहे॥ ८.०६१.१४

प्रभङ्गी शूरो मघवा तुवीमघः सम्मिश्लो वर्याय कम्।

उभा ते बाहू वृषणा शतक्रतो नि या वज्रं मिमिक्षतुः॥ ८.०६१.१८

दाता मे पृषतीनां राजा हिरण्यवीनाम्।

मा देवा मघवा रिषत्॥ ८.०६५.१०

वयं घा ते त्वे इद्विन्द्र विप्रा अपि ष्मसि।

नहि त्वदन्यः पुरुहूत कश्चन मघवन्नस्ति मर्डिता॥ ८.०६६.१३

आ पप्राथ महिना वृष्ण्या वृषन्विश्वा शविष्ठ शवसा।

अस्माँ अव मघवन्गोमति व्रजे वज्रिञ्चित्राभिरूतिभिः॥ ८.०७०.०६

उदू षु णो वसो महे मृशस्व शूर राधसे।

दू षु मह्यै मघवन्मघत्तय उदिन्द्र श्रवसे महे॥ ८.०७०.०९

कर्णगृह्या मघवा शौरदेव्यो वत्सं नस्त्रिभ्य आनयत्।

अजां सूरिर्न धातवे॥ ८.०७०.१५

तवेदिन्द्राहमाशसा हस्ते दात्रं चना ददे।

दिनस्य वा मघवन्सम्भृतस्य वा पूर्धि यवस्य काशिना॥ ८.०७८.१०

विद्मा हि त्वा तुविकूर्मिं तुविदेष्णं तुवीमघम्।

तुविमात्रमवोभिः॥ ८.०८१.०२

यज्जायथा अपूर्व्य मघवन्वृत्रहत्याय।

तत्पृथिवीमप्रथयस्तदस्तभ्ना उत द्याम्॥ ८.०८९.०५

त्वं हि सत्यो मघवन्ननानतो वृत्रा भूरि न्यृञ्जसे।

स त्वं शविष्ठ वज्रहस्त दाशुषेऽर्वाञ्चं रयिमा कृधि॥ ८.०९०.०४

एवा रातिस्तुवीमघ विश्वेभिर्धायि धातृभिः।

अधा चिदिन्द्र मे सचा॥ ८.०९२.२९

दुर्गे चिन्नः सुगं कृधि गृणान इन्द्र गिर्वणः।

त्वं च मघवन्वशः॥ ८.०९३.१०

स वृत्रहेन्द्रश्चर्षणीधृत्तं सुष्टुत्या हव्यं हुवेम।

स प्राविता मघवा नोऽधिवक्ता स वाजस्य श्रवस्यस्य दाता॥ ८.०९६.२०

अस्मे इन्द्र सचा सुते नि षदा पीतये मधु।

कृधी जरित्रे मघवन्नवो महदस्मे इन्द्र सचा सुते॥ ८.०९७.०८

तमिन्द्रं जोहवीमि मघवानमुग्रं सत्रा दधानमप्रतिष्कुतं शवांसि।

मंहिष्ठो गीर्भिरा च यज्ञियो ववर्तद्राये नो विश्वा सुपथा कृणोतु वज्री॥ ८.०९७.१३

विश्वेत्ता ते सवनेषु प्रवाच्या या चकर्थ मघवन्निन्द्र सुन्वते।

पारावतं यत्पुरुसम्भृतं वस्वपावृणोः शरभाय ऋषिबन्धवे॥ ८.१००.०६

आ वंसते मघवा वीरवद्यशः समिद्धो द्युम्न्याहुतः।

कुविन्नो अस्य सुमतिर्नवीयस्यच्छा वाजेभिरागमत्॥ ८.१०३.०९

 

 

मख

१. स प्रोक्षति। यमाय त्वेत्येष वै यमो य एष तपत्येष हीदं सर्वं यमयत्येतेनेदं सर्वं यतमेष उ प्रवर्ग्य..... मखाय त्वेति। एष वै मखो य एष तपत्येष उ प्रवर्ग्य। माश १४,,,

२. तस्य ( मखस्य ) धन्वार्त्तिरुदय्य शिरोऽछिनत्, स सम्राडभवत्। मै ४,,९ ।

३. मख इत्येतद्यज्ञनामधेयं छिद्रप्रतिषेधसामर्थ्यात्, छिद्रं खमित्युक्तं तस्य मेति प्रतिषेधः । मा यज्ञं छिद्रं करिष्यतीति । गो ,,

 नमो ऽग्नये मखघ्ने मखस्य मा यशो ऽर्यात् । इत्य् आहवनीयम् उप तिष्ठते यज्ञो वै मखः ॥ - तैसं ,,,

नमो रुद्राय मखघ्ने नमस्कृत्या मा पाहि । इत्य् आग्नीध्रं तस्मा एव नमस्कृत्य सदः प्र सर्पत्य् आत्मनो ऽनार्त्यै नम इन्द्राय मखघ्न इन्द्रियम् मे वीर्यम् मा निर् वधीः । इति होत्रीयम् आशिषम् एवैताम् आ शास्त इन्द्रियस्य वीर्यस्यानिर्घाताय - - तैसं ,,,

मखस्य शिरो ऽसीत्य् आह यज्ञो वै मखः तस्यैतच् छिरो यद् उखा - तैसं ,,,

४. यज्ञो वै मखः  -   मै ३,,; ,,; काठ ३१,; क ३०,; तां ७,,; तै ३, ,,; माश ६,,,; तैआ ५,,,,२।

मघ-वत्-

अग्निना विश्वाषाट् सूर्येण स्वराट् क्रत्वा शचीपतिः । ऋषभेण त्वष्टा यज्ञेन मघवान् दक्षिणया सुवर्गः......। तैसं ,,,

अन्तर्यामग्रहः - उपयामगृहीतोऽसीत्युक्त उपयामस्य बन्धुरन्तर्यच्छ मघवन्पाहि सोममितीन्द्रो वै मघवानिन्द्रो यज्ञस्य नेता- माश ४.१.२.१५

ऽन्तर्यामे मघवन्मादयस्वेतीन्द्रो वै मघवानिन्द्रो यज्ञस्य नेता तस्मादाह मघवन्नित्यथ यदन्तरन्तरिति गृह्णात्यन्तस्त्वात्मन्दध इत्येवैतदाह - ४.१.२.[१६]

तस्योपपरासृत्य। ज्यामपि जक्षुस्तस्यां च्छिन्नायां धनुरार्त्न्यौ विष्फुरन्त्यौ विष्णोः शिरः प्रचिच्छिदतुः तद्घृङ्ङिति पपात। तत्पतित्वाऽसावादित्योऽभवदथेतरः प्राङेव प्रावृज्यत तद्यद्घृङ्ङित्यपतत्तस्माद्घर्मोऽथ यत्प्रावृज्यत तस्मात्प्रवर्ग्यः । ......स उ एव मखः स विष्णुः। तत इन्द्रो मखवानभवन्मखवान्ह वै तम्मघवानित्याचक्षते परोऽक्षं परोऽक्षकामा हि देवाः माश १४.१.१.[१३]

[°वत्- इन्द्र- १८४;  द्र.]।

मघा-

पितरो देवता, मघा नक्षत्रम् । काठ ३९,१३ ॥

[°घा- पितृ- ७७, ८२ द्र. ] ।