पुराण विषय अनुक्रमणिका PURAANIC SUBJECT INDEX (From Paksha to Pitara ) Radha Gupta, Suman Agarwal & Vipin Kumar
|
|
परिधिः वैदिकवाङ्मयस्य परिधिशब्दस्य लौकिकरूपान्तरं आभामण्डलं भवितुं शक्यते। कथनमस्ति (डा. पिंगले) यत् आध्यात्मिकरूपेण विकसितस्य मनुष्यस्य आभामण्डलस्य क्षेत्रः मीटरमात्रम् भवति, किन्तु गवां आभामण्डलस्य परासः अष्टमीटरतः विस्तृतं भवति। ये तीर्थंकराः भवन्ति, तेषां आभामण्डलस्य क्षेत्रे हिंसा भवितुं न शक्यते। किन्तु प्रश्नमस्ति – व्यावहारिकरूपेण परिधेः अथवा आभामण्डलस्य विस्तारस्य के लाभाः सन्ति, विस्तारः केन प्रकारेण संभवमस्ति। वास्तुसूत्रोपनिषत् २.६ उपरि टिप्पणीतः ज्ञातं भवति यत् वृत्तस्य केन्द्रबिन्दुः प्राणः भवति, परिधिः मनः। यदि परिधेः रचना भवति, तदा मनः ऋतं भविष्यति, अन्यथा अनृतं। मनसा सह वागपि अनृतं भविष्यति – वरदान, शापदानस्य क्षमता न भविष्यति। ब्राह्मणग्रन्थेषु आख्यानं अस्ति (तैसं २.६.६.३, मैसं ३.८.६ ) यत् देवेभ्यः हविर्वहनं कुर्वन्तं अग्निः अदृश्यः बभूव। यदा अन्वेषणोपरि सः देवानां समक्षे प्रकटाभूत्, तदा तेनाकथयत् यत् देवानां हविर्वहनकुर्वन्तं तस्य त्रयः भ्रातरः मृताः आसन्। अतएव यदि देवाः इदानीमपि अग्निं हविर्वहनकर्तुं इच्छन्ति, तर्हि तेभ्यः भ्रातरेभ्यः हविर्भागस्य प्राप्तिः भवेत्। देवाः ऊचुः – यत्किंचित् बहिष्परिधिः स्कन्दयति, तत् तेषां भागधेयं भविष्यति। प्रश्नमस्ति – परिधितः बाह्यं, परं किमस्ति। मैसं ४.५.२ अनुसारेण उक्थानि परिधिभ्यः पराणि सन्ति एवं उक्थेभ्यः परः रात्रिः/अतिरात्रः अस्ति। उक्थाः किं भवन्ति। ये प्राणाः सुप्ताः सन्ति, किन्तु केनापि प्रकारेण येषां जागरणं संभवमस्ति, तेषां संज्ञा उक्थाः अस्ति। येषां जागरणं संभवं नास्ति, ते रात्रिरूपाः सन्ति।
सप्तास्यासन्परिधयस्त्रिः सप्त समिधः कृताः । अस्मिन् ऋचायां येषां सप्तानां परिधीनां उल्लेखः अस्ति, ते किं भवन्ति। सायणभाष्यानुसारेण त्रयः परिधयः ऐष्टिकस्याहवनीयस्य सन्ति, त्रयः उत्तरवेदिकाः एवं सप्तमः आदित्यस्वरूपा अस्ति। वैदिकवाङ्मये प्रत्यक्षरूपेण कुत्रापि सप्तपरिधीनां उल्लेखं नास्ति। माश १.३.४.[९] आदिषु यः कथनं अस्ति, तस्यानुसारेण दक्षिणपार्श्वे या परिधिः सृज्यन्ते, तस्याः उद्देश्यं मृत्युतः, क्षुधादिभ्यः मुक्तिः भवति। अयं परिधिः पर्वतरूपा, अश्मरूपा भवति। वैदिकवाङ्मयानुसारेण पर्वताः पृथ्व्याः नियामकाः सन्ति। उत्तरपार्श्वे या परिधिः सृज्यन्ते, तस्या उद्देश्यं मैत्रावरुणं (मैत्रीस्थापनं) अस्ति। पूर्वादिशायां या परिधिः सृज्यन्ते, सा सूर्योदस्य प्रतीका अस्ति। ऐतरेयब्राह्मणे ७.१५ आख्यानमस्ति यत् हरिश्चन्द्रस्य पुत्रः रोहितः पुरुषमेधे यज्ञपशुरूपेण बलितः मुक्तिहेतु इन्द्रस्य परामर्शानुसारेण संवत्सरे – संवत्सरे अरण्यं चरति। यदा संवस्तसरस्यान्ते सः ग्रामं आगमनस्य विचारं करोति, तदा इन्द्रः तं प्रेरयति। प्रथमसंवत्सरस्यान्ते सः प्रेरयति - नाना श्रान्ताय श्रीरस्तीति रोहित शुश्रुम पापो नृषद्वरो जन इन्द्र इच्चरतः सखा चरैवेति चरैवेति। द्वितीयस्यान्ते - पुष्पिण्यौ चरतो जङ्घे भूष्णुरात्मा फलग्रहिः शेरेऽस्य सर्वे पाप्मानः श्रमेण प्रपथे हतश् चरैवेति चरैवेति तृतीयस्यान्ते - आस्ते भग आसीनस्योर्ध्वस्तिष्ठति तिष्ठतः शेते निपद्यमानस्य चराति चरतो भगश् चरैवेति चरैवेति चतुर्थस्यान्ते - कलिः शयानो भवति संजिहानस्तु द्वापरः। उत्तिष्ठंस्त्रेता भवति कृतं सम्पद्यते चरंश् चरैवेति चरैवेति पंचमस्यान्ते - चरन्वै मधु विन्दति चरन्स्वादुमुदुम्बरम्सूर्यस्य पश्य श्रेमाणं यो न तन्द्रयते चरंश् चरैवेति चरैवेति षष्ठसंवत्सरस्यान्ते सः आजीगर्तस्य शुनःशेपसंज्ञकपुत्रस्य प्राप्तिं करोति। एषः प्रतीयते यत् एते कथनाः सप्तपरिधयः सन्ति।
संदर्भाः
त इन्निण्यं हृदयस्य प्रकेतैः सहस्रवल्शमभि सं चरन्ति । एवं स्वाच्छन्द्येन' अभिसंचरन्तस्ते “वसिष्ठाः “यमेन कारणात्मना सर्वनियन्त्रा “ततं विस्तृतं “परिधिं वस्त्रम्। परिधिरित्यनेन जन्मादिप्रवाहो विवक्षितः । तं "वयन्तोऽप्सरसः जननीत्वेन “उप “सेदुः ।
स प्रकेत उभयस्य प्रविद्वान्सहस्रदान उत वा सदानः ।
इन्द्रो अस्माँ अरदद्वज्रबाहुरपाहन्वृत्रं परिधिं नदीनाम् । तादृशो बलवानिंद्रो नदीरस्मानरदत् । रदतिः खनतिकर्मा। अखनत् । कथमखनत्। उच्यते । नदीनां शब्दकारिणीनामपां परिधिं परितो निहितमुदकमंतः कृत्वा परितो वर्तमानमित्यर्थः । तादृशं वृत्रं । वृणोत्याकाशमिति वृत्रो मेघः । तं मेघमपाहन् । जघान । तस्मिन्हत आपः पतिताः ।
इमं जीवेभ्यः परिधिं दधामि मैषां नु गादपरो अर्थमेतम् । अनया जीवरक्षार्थं पाषाणं परिधिरूपेण स्थापयन्ति । "जीवेभ्यः जीवद्भ्यः पुत्रपौत्रादिभ्यस्तेषां रक्षणार्थमेवं "परिधिं मृत्योः परिधानभूतं पाषाणं "दधामि निदधामि । ततः "एषां जीवतां मध्ये “अपरः अन्यः “एतम् इमम् "अर्थम् । अर्तेरिदं रूपम् । गन्तव्यं मरणाख्यं मार्गं "नु क्षिप्रं "मा “गात् मा गच्छतु । एतदर्थं परिधिं स्थापयामीति संबन्धः।
एता अर्षन्त्यललाभवन्तीरृतावरीरिव संक्रोशमानाः । किंच “आपः उदकानि “परिधिम् आवरकं "कम् “अद्रिं कं मेघं "रुजन्ति भञ्जन्ति । 'अपः कमपि मेघं न भञ्जन्ति किंतु इन्द्रो मम पुत्र एव उदकावरकं मेघं भङ्क्त्वा आपः प्रवर्तयतीत्यर्थः ।।
द्वादश प्रधयश्चक्रमेकं त्रीणि नभ्यानि क उ तच्चिकेत । “द्वादश एतत्संख्याकाः “प्रधयः परिधयः प्रहिता वर्तन्ते । तत्स्थानीया द्वादश मासाः “एकम् अद्वितीयं “चक्रं क्रमणस्वभावं संवत्सराख्यं चक्रमाश्रिताः।
अभि स्ववृष्टिं मदे अस्य युध्यतो रघ्वीरिव प्रवणे सस्रुरूतयः । तत्रोदकपानार्थं प्रवृत्तस्य कूपे पतितस्य प्रतिरोधाय असुरैः परिधयः परिधायकाः कूपस्याच्छादकाः स्थापिताः । तान्यथा स अभिनत् तद्वत् ॥
कासीत्प्रमा प्रतिमा किं निदानमाज्यं किमासीत्परिधिः क आसीत् । तथा “परिधिः । परितो धीयन्त इति त्रयः परिधयो बाहुमात्राः पलाशादिवृक्षजन्याः ।
सप्तास्यासन्परिधयस्त्रिः सप्त समिधः कृताः । “अस्य सांकल्पिकयज्ञस्य गायत्र्यादीनि “सप्त छन्दांसि परिधयः “आसन् । ऐष्टिकस्याहवनीयस्य त्रयः परिधय उत्तरवेदिकास्त्रय आदित्यश्च सप्तमः परिधिप्रतिनिधिरूपः । अत एवाम्नायते-- न पुरस्तात्परि दधात्यादित्यो ह्येवोद्यन् पुरस्ताद्रक्षांस्यपहन्ति' (तै. सं. २.६.६.३) इति । तत एत आदित्यसहिताः सप्त परिधयोऽत्र सप्त छन्दोरूपाः ।
मा पृणन्तो दुरितमेन आरन्मा जारिषुः सूरयः सुव्रतासः । “तेषां दातॄणां स्तोतॄणां वा “अन्यः तेभ्योऽन्यो यः कोऽपि पुरुषः “परिधिः पापस्य परितो धारकः “अस्तु । यद्वा । अन्यो यः कश्चन पापदेवः तेषां परिधिस्थानीयो व्यवधायकोऽस्तु । यथा अग्नेः परिधिः स्वयं रक्षःप्रभृतिभिर्बाध्यमानः स्वान्तर्हितमग्निं रक्षति तद्वत् । अथवा । अन्यो धर्मविशेषः तेषां परिधिः परिधानमस्तु कवचस्थानीयोऽस्तु ।
देवानां हेतिः परि त्वा वृणक्तु पारयामि त्वा रजस उत्त्वा मृत्योरपीपरम् ।
येन पूता वेदिरग्निः परिधयः सह येन पूताः । सांग्रहणी भवति मनोग्रहणं वै संग्रहणम् मन एव सजातानाम् गृह्णाति ध्रुवो ऽसि ध्रुवो ऽहम्̇ सजातेषु भूयासम् इति परिधीन् परि दधाति । आशिषम् एवैताम् आ शास्ते । अथो एतद् एव सर्वम्̇ सजातेष्व् अधि भवति यस्यैवं विदुष एते परिधयः परिधीयन्ते । - तैसं. २.३.९.४ *ध्रुवो ऽसीत्येतैः प्रतिमन्त्रं परिधीन्परिधीयमानान्। अस्मिन्यज्ञ उप भूय इन्नु मे ऽविक्षोभाय परिधीन्दधामि। धर्ता धरुणो धरीयानग्निर्द्वेषांसि निरितो नु दाता इति च। - आप.श्रौ.सू. 4.6.3 तम् अब्रुवन्न् उप न आ वर्तस्व हव्यं नो वहेति सो ऽब्रवीद् वरं वृणै यद् एव गृहीतस्याहुतस्य बहिःपरिधि स्कन्दात् तन् मे भ्रातृणाम् भागधेयम् असद् इति तस्माद् यद् गृहीतस्याहुतस्य बहिःपरिधि स्कन्दति तेषां तद् भागधेयं तान् एव तेन प्रीणाति परिधीन् परि दधाति रक्षसाम् अपहत्यै सम्̇ स्पर्शयति रक्षसाम् अनन्ववचाराय न पुरस्तात् परि दधात्य् आदित्यो ह्य् एवोद्यन् पुरस्ताद् रक्षाम्̇स्य् अपहन्ति । – तैसं २.६.६.३
क्षाळयित्वाततो दर्भानग्नौ
विन्यन्य देशिकः. 17
नावृष्ट्या तपते सूर्य्यो
नावृष्ट्या परिशुष्यति। अथवा स्फुटग्रहगतिः अत्र साध्यते । तस्याः साधनोपायाः मध्यमः, शीघ्रः, मन्दः, परिधयः, ज्या इति आदयः – आर्यभटीयम्
मर्यादाया एव लोष्टमाहृत्य अन्तरेण निदधातीमं जीवेभ्यः परिधिं दधामि मैषां नु गादपरो अर्थमेतं शतं जीवन्तु शरदः पुरूचीरन्तर्मृत्युं दधतां पर्वतेनेति जीवेभ्यश्चैवैतां पितृभ्यश्च मर्यादां करोत्यसम्भेदाय तस्मादु हैतज्जीवाश्च पितरश्च न सन्दृश्यन्ते – माश १३.८.४.[१२] परिधिपरिधानम् - ते वा आर्द्राः स्युः । एतद्ध्येषां जीवमेतेन सतेजस एतेन वीर्यवन्तस्तस्मादार्द्राः स्युः [१] । स मध्यममेवाग्रे । परिधिं परिदधाति गन्धर्वस्त्वा विश्वावसुः परिदधातु विश्वस्यारिष्ट्यै यजमानस्य परिधिरस्यग्निरिड ईडित इति [२] । अथ दक्षिणां परिदधाति । इन्द्रस्य बाहुरसि दक्षिणो विश्वस्य अरिष्ट्यै यजमानस्य परिधिरस्यग्निरिड ईडित इति [३] । अथोत्तरं परिदधाति । मित्रावरुणौ त्वोत्तरतः परिधत्तां ध्रुवेण धर्मणा विश्वस्यारिष्ट्यै यजमानस्यपरिधिरस्यग्निरिड ईडित इत्यग्नयो हि तस्मादाहाग्निरिड ईडित इति [४] । अथ समिधमभ्यादधाति । स मध्यममेवाग्रे परिधिमुपस्पृशति तेनैतानग्रे समिन्धेऽथाग्नावभ्यादधाति तेनो अग्निं प्रत्यक्षं समिन्धे [५]। सोऽभ्यादधाति । वीतिहोत्रं त्वा कवे द्युमन्तं समिधीमहि अग्ने बृहन्तमध्वर इत्येतया गायत्र्या गायत्रीमेवैतत्समिन्धे सा गायत्री समिद्धान्यानि छन्दांसि समिन्धे छन्दांसि समिद्धानि देवेभ्यो यज्ञं वहन्ति [६]। अथ यां द्वितीयां समिधमभ्यादधाति । वसन्तमेव तया समिन्धे स वसन्तः समिद्धोऽन्यानृतून्त्समिन्ध ऋतवः समिद्धाः प्रजाश्च प्रजनयन्त्योषधीश्च पचन्ति सोऽभ्यादधाति समिदसीति समिद्धि वसन्तः [७]। अथाभ्याधाय जपति । सूर्यस्त्वा पुरस्तात्पातु कस्याश्चिदभिशस्त्या इति गुप्त्यै वा अभितः परिधयो भवन्त्यथैतत्सूर्यमेव पुरस्ताद्गोप्तारं करोति नेत्पुरस्तान्नाष्ट्रा रक्षांस्यभ्यवचरानिति सूर्यो हि नाष्ट्राणां रक्षसामपहन्ता [८]। अथ यामेवामूं तृतीयां समिधमभ्यादधाति । अनुयाजेषु ब्राह्मणमेव तया समिन्धे स ब्राह्मणः समिद्धो देवेभ्यो यज्ञं वहति – माश १.३.४.[९] परिधीन्परिदधात्यार्द्रार्नेकवृक्षीयान् बाहुमात्रान् पालाशवैकङ्कतकार्ष्मर्यबैल्वान्पूर्वालाभ उत्तरान् खादिरौदुम्बरान्वा मध्यमदक्षिणोत्तरान् गन्धर्व इति प्रतिमन्त्रम् १ प्रथमं परिधिं समिधोपस्पृश्य वीतिहोत्रमित्यादधाति २ अनुपस्पृश्य द्वितीयां समिदसीति कात्यायन श्रौ. २.८.३ अभ्युक्ष्य जुह्वा परिधीननक्ति यथापूर्वम् -- वसुभ्य इति प्रतिमन्त्रम् १ प्रथमं परिधिं गृहीत्वा आश्राव्याऽहेषिता दैव्या होतारो भद्र वाच्याय प्रेषितो मानुषः सूक्तवाकाय सूक्ता ब्रूहि इति २ पशौ प्रेष्येति कात्यायन श्रौ. ३.६.३ बाणवन्तः परिधयः - कात्यायन श्रौ. २२.१०.२६ शरमयं बर्हिः ५ मौसलाः परिधयः ६ वैभीतक इध्मः ७– आश्व.श्रौ. ९.७.७ द्वे निःशीयमाने नीललोहिते सूत्रे सव्यरज्जुं शान्तवृक्षस्य चतुरः शङ्कूंश्चतुरः परिधीन्वारणं शामीलमौदुम्बरं पालाशं वृक्षस्य शान्तौषधीः ४। माघे निदध्यान्माघं भूदिति ५। शरदि निदध्याच्छाम्यत्वघमिति ६। निदाघे निदध्यान्निदह्यतामघमिति। - कौशिकसूत्रं ११.८३.७ इमां मात्रां मिमीमह इति दक्षिणतः सव्यरज्जुं मीत्वा १२। वारयतामघमिति वारणं परिधिं परिदधाति शङ्कुं च निचृतति १३। पुरस्तान्मीत्वा शमेभ्योऽस्त्वघमिति शामीलं परिधिं परिदधाति शङ्कुं च निचृतति १४। उत्तरतो मीत्वा शाम्यत्वघमित्यौदुम्बरं परिधिं परिदधाति शङ्कुं च निचृतति १५। पश्चान्मीत्वा शान्तमघमिति पालाशं परिधिं परिदधाति शङ्कुं च निचृतति। - कौशिकसू. ११.८५.१६ यद्येनमुपधावेयुर्गोमायवोऽवादिषु रेकसृकोऽवादीदभिमृताः स्मः परिधिं नः कुर्विति पालाशमिध्ममुपसमाधायेमं मे वरुण तत्त्वा यामि त्वं नो अग्ने स त्वं नो अग्ने त्वमग्ने अयासि प्रजापत इति षडाहुतीर्हुत्वेमं जीवेभ्यः परिधिं दधामि मैषां नु गादपरो अर्धमेतम् । शतं जीवन्तु शरदः पुरूचीस्तिरो मृत्युं दधतां पर्वतेनेति दक्षिणतोऽश्मानं परिधिं दधाति आप.श्रौ ९.१२. ४ अथ यस्य देवयजनस्य दक्षिणत उन्नतं तद् भ्रातृव्यवान् यजेत , एतां वै दिशं देवा असुरान् प्रणुद्य स्वर्गं लोकमायन् , अथैभ्योऽमुमादित्यं परिधिं पर्यदधुरपुनराभावाय – मैसं ३.८.४ त्रयो वै मे पूर्वे भ्रातरः प्राधन्वन् हव्यं देवेभ्यो वहन्तो , वषट्कारः प्रावृश्चत्तेषां भागोऽस्त्विति, वृणीष्वे, त्यब्रुवन् , सोऽब्रवीत् , यदेव किंचाहुतं बहिष्परिधि स्कन्देत्तदेव तेषां भागधेयमसदिति – मैसं ३.८.६ न ह्यग्निमाहुतिस्तरति, मुखत एवैनान् प्रीणाति , अथो सुतीर्थेन वा एतदाहुतीस्तारयति , अयं वाव भूपति , रयं भुवनपति , रयं भूतानां पति , रथ योऽयमिदानीं स भूति , र्यदाहुतं बहिष्परिधि स्कन्देत्तदभिमन्त्रयेत ॥भूपतये स्वाहा, भुवनपतये स्वाहा, भूतानां पतये स्वाहा ॥ इति भागधेयं वावैषामेतत्, प्रीणात्य् एवैनान्, अथो हविषा वा एतत् स्कन्नेन द्वितीयामाशिषं अवरुन्धे- मैसं ३.८.६ प्रस्तरं धारयन् परिधीन् परिदधाति, स्वयं वा एतद्यजमान आत्मानं परिधत्ते अहिंसायै, न पुरस्तात् परिदधाति , उद्यन् वा असा आदित्यो रक्षांस्यपाहत – मैसं ४.१.१३ यद्युक्थ्यः परिधिमनक्ति, परे वा अग्नेः परिधयः, पराणि परिधिभ्य उक्थानि , उक्थानि एव यज्ञक्रतुमनुसंतनोति, यद्यतिरात्र, एतदेव यजुर्वदन् हविर्धानं प्रपद्येत, परं वै परिधिभ्यो हविर्धानं , परोक्थेभ्यो रात्री, रात्रीमेव यज्ञक्रतुमनुसंतनोति – मैसं ४.५.२ यदि पुरा प्रजाजेभ्यो बहिःपरिध्यङ्गारा अभिपर्यावर्तेरन्ब्राह्मणोक्तं प्रायश्चित्तं कृत्वेमं जीवेभ्यः परिधिं दधामीत्येतया स्रुवाहुतिं जुहुयात् – बौश्रौ २७.२
इमं जीवेभ्यः परिधिं दधामीति परिधिं परिदध्यात् ९ जुह्वा परिधीननक्ति वसुभ्यस्त्वेति मध्यमं रुद्रेभ्यस्त्वेति दक्षिणमादित्येभ्यस्त्वेत्युत्तरम् - आप.श्रौ.सू. ३.५.७
आश्विनं परःसहस्रं शस्त्रं भवति
४ ऽथैभ्योऽध्वर्युर्दक्षिणतोऽश्मानं परिधिं दधातीमं जीवेभ्यः परिधिं दधामि मा नो नु गादपरो अर्धमेतम् । शतं जीवन्तु शरदः पुरूचीस्तिरो मृत्युं दध्महे पर्वतेनेति आप.श्रौ. १४.२२.३ इन्द्राग्नी परिधी मम वातो देवपुरा मम । ब्रह्म वर्म ममान्तरं तं त्वेन्द्रग्रह प्रपद्ये सगुः साश्वः । वर्म मे द्यावापृथिवी वर्माग्निर्वर्म सूर्यः । वर्म मे ब्रह्मणस्पतिर्मा मा प्रापदतो भयम् । इन्द्राग्नी परिधी मम वातो देवपुरा मम । ब्रह्म वर्म ममान्तरं तं त्वेन्द्रग्रह प्रविशानि सगुः साश्वः सपूरुषः । आप.श्रौ. १४.२६.१ यदि हुताहुतौ सोमौ संसृज्येयातामन्तःपरिध्यङ्गारं निर्वर्त्य यज्ञस्य हि स्थ ऋत्वियाविन्द्राग्नी चेतनस्य च । हुताहुतस्य तृप्यतमहुतस्य हुतस्य च । आप.श्रौ. १४.३०.२
त्रयोदश
वैकङ्कतान्परिधीन्वैकङ्कतीँ
स्रुचं प्रचरणीं
कार्ष्मर्यमयान्परिधीन्सुवर्णरजतौ च रुक्मौ द्वे घर्मदुघे धेनुं च छागां च
द्वौ कुशमयौ वेदावेकं मौञ्जं वेदमपरिवासितं मौञ्जं रज्जुदाम
मुञ्जप्रलवान्रौहिणपिष्टानि खरेभ्यः सिकता इत्यथ प्रायणीयेन चरति तमेव प्रतिप्रस्थाता प्रवर्ग्यं विहरत्यथाहवनीये कार्ष्मर्यमयान्परिधीन्परिदधाति बौ.श्रौ. ९.६ त्रयोदशभिर्वैकङ्कतैः परिधिभिः परिचिनुतोऽध्वर्युश्च प्रतिप्रस्थाता च। मा असीति प्राञ्चावध्वर्युः। प्रमा असीत्युदञ्चौ प्रतिप्रस्थाता – बौश्रौ. ९.७ यत् परिधयः परिधीयन्ते यज्ञस्य गोपीथाय परिधीन् परिधत्ते यज्ञस्य सात्मत्वाय परिधीन्त् संमार्ष्टि पुनात्य् एवैनान् त्रिर् मध्यमम् त्रय इमे प्राणाः प्राणान् एवाभिजयति त्रिर् दक्षिणार्ध्यम् त्रयो वै लोकाः लोकान् एवाभिजयति त्रिर् उत्तरार्ध्यं त्रयो वै देवलोकाः देवलोकान् एवाभिजयति – गो.ब्रा. २.१.१ परिधानीया
१.
आत्मा वै स्तोत्रियः
.....
यद् अन्तरात्मंस् तन् निवित् आत्मा सूक्तम् यद् अन्तर् आत्मंस् तन् निवित् । प्रतिष्ठा परिधानीय अन्नम् याज्या । कौ १५.३, १६.४ २. श्रोत्रं परिधानीया । जैउ ३,१,४,३ ॥ [°या- दिश्- २९ द्र.]। परिधि १. आधानानि परिधयः । क ४४,१। २. कस्त्वा युनक्ति स त्वा युनक्त्विति परिधीन्युनक्ति । इमे वै लोकाः परिधयः ।। तै ३,८,१८,४ । ३. गुप्त्यै वाऽअभितः परिधयो भवन्ति । माश १,३,४,८ । ४. तस्येन्द्रः परिधीन् यज्ञियेभ्यो वृक्षेभ्य आजहार । काठसंक १३७:१३-१४ ।। ५. देवेभ्यस्त्वा मरीचिपेभ्या इति, रश्मयो वै देवा मरीचिपाः, परिधयो रश्मयो , असा आदित्य आहवनीय, स्तान् एव प्रीणाति । मै ४,५, ५ । द्र. लक्ष्मीनारायण संहिता १.५५.३२ ६. परिधीन् परिदधाति (+रक्षसामपहत्यै (तै.सं.J) । तैसं २, ६, ६,२; माश १,३,३,१३ ७. यं परिधिं पर्यधत्था अग्ने देवपणिभिर्वीयमाणः (°मानः (मै.J; °भिरिध्यमानः [काठ.])। तैसं १,१,१३,२; मै ४,१,१४; काठ ४७,११ ।। ८. रक्षसां वा एतेऽनवजयाय परिधीयन्ते यत् परिधयः । काठ २६,७; क ४१, ५। ९. सप्तास्य (यज्ञस्य) आसन् परिधयः । काठसंक १०१:११ ॥ ग्रावाणो दन्ता , अक्षाः परिधयो , नासिकोत्तरवेदिः, शिखा यूपः, शिरो हविर्धानं ,– मै ४.५.९ वनस्पतय इध्मः । दिशः परिधयः । आदित्यो यूपः । यजमानः पशुः । समुद्रो ऽवभृथः । ( परिधानीया (जैउ) – मै १.८.७, काठ ६.६, ऐ ५.२८, तै २.१.५.२, जैउ ३.१.४.२
|