Site hosted by Angelfire.com: Build your free website today!

पुराण विषय अनुक्रमणिका

PURAANIC SUBJECT INDEX

(From Paksha to Pitara  )

Radha Gupta, Suman Agarwal & Vipin Kumar

HOME PAGE

Paksha - Panchami  ( words like Paksha / side, Pakshee / Pakshi / bird, Panchachuudaa, Panchajana, Panchanada, Panchamee / Panchami / 5th day etc. )

Panchamudraa - Patanga ( Pancharaatra, Panchashikha, Panchaagni, Panchaala, Patanga etc. )

Patanjali - Pada ( Patanjali, Pataakaa / flag, Pati / husband, Pativrataa / chaste woman, Patnee / Patni / wife, Patnivrataa / chaste man, Patra / leaf, Pada / level etc.)

Padma - Padmabhuu (  Padma / lotus, Padmanaabha etc.)

Padmamaalini - Pannaga ( Padmaraaga, Padmaa, Padmaavati, Padminee / Padmini, Panasa etc. )

Pannama - Parashunaabha  ( Pampaa, Payah / juice, Para, Paramaartha, Parameshthi, Parashu etc. )

Parashuraama - Paraashara( Parashuraama, Paraa / higher, Paraavasu, Paraashara etc)

Parikampa - Parnaashaa  ( Parigha, Parimala, Parivaha, Pareekshita / Parikshita, Parjanya, Parna / leaf, Parnaashaa etc.)

Parnini - Pallava (  Parva / junctions, Parvata / mountain, Palaasha etc.)

Palli - Pashchima (Pavana / air, Pavamaana, Pavitra / pious, Pashu / animal, Pashupati, Pashupaala etc.)

Pahlava - Paatha (Pahlava, Paaka, Paakashaasana, Paakhanda, Paanchajanya, Paanchaala, Paatala, Paataliputra, Paatha etc.)

Paani - Paatra  (Paani / hand, Paanini, Paandava, Paandu, Pandura, Paandya, Paataala, Paataalaketu, Paatra / vessel etc. )

Paada - Paapa (Paada / foot / step, Paadukaa / sandals, Paapa / sin etc. )

 Paayasa - Paarvati ( Paara, Paarada / mercury, Paaramitaa, Paaraavata, Paarijaata, Paariyaatra, Paarvati / Parvati etc.)

Paarshva - Paasha (  Paarshnigraha, Paalaka, Paavaka / fire, Paasha / trap etc.)

Paashupata - Pichindila ( Paashupata, Paashaana / stone, Pinga, Pingala, Pingalaa, Pingaaksha etc.)

Pichu - Pitara ( Pinda, Pindaaraka, Pitara / manes etc. )

 

 

यथा सोमयागकृत्ये सर्वविदितमस्ति, प्रथमतः शूद्रतः सोमवल्लीनां क्रयः भवति। सोमवल्लीनां पूलकः प्रवर्ग्यकृत्यसमाप्तिपर्यन्तं सोमयागे अतिथिरूपेण अप्रयुक्तः एव वसति। प्रवर्ग्यकृत्यानन्तरं सोमपूलकस्य स्थान्तरणं उत्तरवेद्यां भवति यत्र सोमवल्लीनां कुट्टनं भवति एवं तेषां रसस्य उपयोगं विभिन्न ग्रहाणां माध्यमेन देवेभ्यः आहुतिप्रदानाय भवति। रसस्य उपयोगतः पूर्वं तस्य दशापवित्रस्य माध्यमेन शोधनं भवति। केषांचित् ग्रहेषु सोमस्य ग्रहणं पवित्रतः धारारूपेण स्रवितेन सोमेन भवति, अन्येषां द्रोणकलशे गृहीतेन सोमेन। अस्मिन् संदर्भे डा. दयानन्दभार्गवस्य अयं टिप्पणी उल्लेखनीयः अस्ति

यज्ञ का अर्थ है-आदान-प्रदान। हम किसी से कुछ लें तो किसी को कुछ दें भी। जब हम लेते हैं तो हम अग्नि हैंजब हम देते हैं तो हम सोम हैं। दोनों के मिश्रण से यज्ञ होता है। प्रश्न होता है कितना लें और कितना दें। उत्तर है कि अपना अस्तित्व बनाये रखने के लिए जितना आवश्यक है उतना लेंशेष बचा हुआ दूसरों को दें। अपनी आवश्यकता पूरी करने पर बच जाता है उसे वेद ने उच्छिष्ट कहा है। इसे यज्ञशेष भी कहा जाता है। आज की भाषा में इसे प्रसाद कहते हैं। अपने लिए जो आवश्यक हैब्राह्मण ग्रंथ उसे ब्रह्मौदन कहते हैंजो बच जाए उसे प्रवर्ग्य कहते हैं। एक का प्रवर्ग्य दूसरे का ब्रह्मौदन बने-यह अहिंसक जीवन शैली का मार्ग है। हम दूसरे का ब्रह्मौदन छीनेंयह हिंसक जीवन शैली है। एक उदाहरण लें। पेड़ कार्बनडाइआक्साईड लेता हैवह उसका ब्रह्मौदन हैवह जो ऑक्सीजन छोड़ता हैयह उसका प्रवर्ग्य है। पेड़ का वह प्रवर्ग्य ऑक्सीजन हमारा ब्रह्मौदन बन जाता है और हमारे द्वारा छोड़ा गया कार्बनडाइआक्साईड पेड़ का ब्रह्मौदन बन जाता है। प्राकृतिक जीवन शैली का यही अहिंसक आधार है कि एक का प्रवर्ग्य दूसरा का ब्रह्मौदन बनता रहे और आदान-प्रदान रूप यज्ञ चलता रहे। किंतु सदा यह अहिंसक शैली व्यावहारिक नहीं होती। ऐसे में हमें किसी का ब्रह्मौदन ही लेना पड़े तो उसके प्रायश्चित के रूप में किसी को अपने स्वत्व का कुछ अंश दे भी देना चाहिये। अतःयज्ञ के साथ तपस् और दान भी धर्म का अंग हैं। दान पदार्थ का त्याग हैतपस् सुख का त्याग है। ये दोनों प्रकार के त्याग यज्ञ में होने वाली न्यूनता की पूर्ति कर देते हैं। प्रो० दयानन्द भार्गव

सोमयागे येषां सोमवल्लीनां क्रयः क्रियतं आस्ते, तेभ्यः ब्रह्मौदनस्य ग्रहणं कस्मिन् क्षणे भवति, नायं स्पष्टं अस्ति। किन्तु येन प्रकारेण पवित्रस्य माध्यमेन सोमरसस्य उपयोगं भवति, व्यावहारिकरूपेण, तत् लौकिकजीवनस्य सत्यं अस्ति। वयं अन्नरूपेण यत्किंचित् गृह्णीमः, तस्य परिष्कारं देहे विद्यमानेभ्यः पवित्रेभ्यः सम्यकप्रकारेण भवति। वैदिकवाङ्मये पवित्राणां वर्गीकरणं अग्निः, वायुः, सूर्यादि स्तरेषु अस्ति। अस्य वर्गीकरणस्य उपयोगं आधुनिकचिकित्साशास्त्रे केन प्रकारेण संभवमस्ति, अयं प्रश्नः एव।

ऐतरेय ब्राह्मणे १.२० ऋग्वेदः सूक्तस्य ९.८३ संदर्भे कथनमस्ति - पवित्रं ते विततं ब्रह्मणस्पते तपोष्पवित्रं विततं दिवस्पदे वियत्पवित्रं धिषणा अतन्वतेति पूतवन्तः प्राणास्त इमेऽवाञ्चो रेतस्यो मूत्र्यः पुरीष्या इत्येतानेवास्मिंस्तद्दधाति ॥ऐब्रा १.२०

ऋग्वेदे ९.०८६.०३ कथनमस्ति

वृषा पवित्रे अधि सानो अव्यये सोमः पुनान इन्द्रियाय धायसे

अयं संकेतमस्ति यत् इन्द्रियाणां यः सामर्थ्यः अस्ति, तत् पूतसोमे उपरि आधृता अस्ति।

पितृतर्पणकृत्ये यस्य पवित्रस्य उपयोगः भवति, तत् सोमयागस्य दशापवित्रतः भिन्नः अस्ति। तर्पणकृत्ये कुशानिर्मितस्य अंगुलीयकरूपस्य पवित्रस्य धारणं अनामिका अङ्गुल्यां भवति। कथनमस्ति

तेषां उदकं आनीय सपवित्रांस्तिलानपि । अग्नौ कुर्यादनुज्ञातो ब्राह्मणो ब्राह्मणैः सह । ।  मनुस्मृति ३.२१०.

तेषां दत्त्वा तु हस्तेषु सपवित्रं तिलोदकम् । तत्पिण्डाग्रं प्रयच्छेत स्वधैषां अस्त्विति ब्रुवन् । । मनुस्मृति ३.२२३

गरुडपुराणे २.२.१९, २.२९.१५, ब्रह्मपुराण १.११०.४१ , भविष्यपुराण ४.९९ इत्यादिषु तिलस्य उत्पत्तिः स्वेदतः अस्ति, अयं कथनमस्ति। योगस्य स्तरे स्वेदस्य जननं न भवति, स्वेदस्य तिरोभवनं भवति, यथा प्रसिद्धमस्ति यत् हनुमानः श्रमजनितस्य स्वेदतः रहितः अस्ति। ऋग्वेदे १.१३५.०६(एते वामभ्यसृक्षत तिरः पवित्रमाशवः।

), ८.००१.१५(तिरः पवित्रं ससृवांस आशवो), ९.०६८.०२(तिरः पवित्रं परियन्नुरु ज्रयो), ९.१०९.१९(असर्जि वाजी तिरः पवित्रम्) पवित्रशब्देन सह तिरः शब्दस्य उल्लेखं भवति।

 

संदर्भाः

उच्छिष्टं चम्वोर्भर सोमं पवित्र आ सृज।

नि धेहि गोरधि त्वचि॥ १.०२८.०९

एते वामभ्यसृक्षत तिरः पवित्रमाशवः।

युवायवोऽति रोमाण्यव्यया सोमासो अत्यव्यया॥ १.१३५.०६

स वह्निः पुत्रः पित्रोः पवित्रवान्पुनाति धीरो भुवनानि मायया।

धेनुं च पृश्निं वृषभं सुरेतसं विश्वाहा शुक्रं पयो अस्य दुक्षत॥ १.१६०.०३

शुक्रेभिरङ्गै रज आततन्वान्क्रतुं पुनानः कविभिः पवित्रैः।

शोचिर्वसानः पर्यायुरपां श्रियो मिमीते बृहतीरनूनाः॥ ३.००१.०५

त्रिभिः पवित्रैरपुपोद्ध्यर्कं हृदा मतिं ज्योतिरनु प्रजानन्।

वर्षिष्ठं रत्नमकृत स्वधाभिरादिद्द्यावापृथिवी पर्यपश्यत्॥ ३.०२६.०८

अपश्चिदेष विभ्वो दमूनाः प्र सध्रीचीरसृजद्विश्वश्चन्द्राः।

मध्वः पुनानाः कविभिः पवित्रैर्द्युभिर्हिन्वन्त्यक्तुभिर्धनुत्रीः॥ ३.०३१.१६

समुद्रेण सिन्धवो यादमाना इन्द्राय सोमं सुषुतं भरन्तः।

अंशुं दुहन्ति हस्तिनो भरित्रैर्मध्वः पुनन्ति धारया पवित्रैः॥ ३.०३६.०७

शतपवित्राः स्वधया मदन्तीर्देवीर्देवानामपि यन्ति पाथः।

ता इन्द्रस्य न मिनन्ति व्रतानि सिन्धुभ्यो हव्यं घृतवज्जुहोत॥ ७.०४७.०३

यदि स्तोमं मम श्रवदस्माकमिन्द्रमिन्दवः।

तिरः पवित्रं ससृवांस आशवो मन्दन्तु तुग्र्यावृधः॥ ८.००१.१५

वयं घ त्वा सुतावन्त आपो न वृक्तबर्हिषः।

पवित्रस्य प्रस्रवणेषु वृत्रहन्परि स्तोतार आसते॥ ८.०३३.०१

आ नो यज्ञं दिविस्पृशं वायो याहि सुमन्मभिः।

अन्तः पवित्र उपरि श्रीणानोऽयं शुक्रो अयामि ते॥ ८.१०१.०९

पवस्व देववीरति पवित्रं सोम रंह्या।

इन्द्रमिन्दो वृषा विश॥ ९.००२.०१

समुद्रो अप्सु मामृजे विष्टम्भो धरुणो दिवः।

सोमः पवित्रे अस्मयुः॥ ९.००२.०५

एष प्रत्नेन जन्मना देवो देवेभ्यः सुतः।

हरिः पवित्रे अर्षति॥ ९.००३.०९

अभि त्यं पूर्व्यं मदं सुवानो अर्ष पवित्र आ।

अभि वाजमुत श्रवः॥ ९.००६.०३

यः सोमः कलशेष्वाँ अन्तः पवित्र आहितः।

तमिन्दुः परि षस्वजे॥ ९.०१२.०५

अनप्तमप्सु दुष्टरं सोमं पवित्र आ सृज।

पुनीहीन्द्राय पातवे॥ ९.०१६.०३

प्र पुनानस्य चेतसा सोमः पवित्रे अर्षति।

क्रत्वा सधस्थमासदत्॥ ९.०१६.०४

दिवो न सानु पिप्युषी धारा सुतस्य वेधसः।

वृथा पवित्रे अर्षति॥ ९.०१६.०७

अत्यूर्मिर्मत्सरो मदः सोमः पवित्रे अर्षति।

विघ्नन्रक्षांसि देवयुः॥ ९.०१७.०३

आ कलशेषु धावति पवित्रे परि षिच्यते।

उक्थैर्यज्ञेषु वर्धते॥ ९.०१७.०४

परि सुवानो गिरिष्ठाः पवित्रे सोमो अक्षाः।

मदेषु सर्वधा असि॥ ९.०१८.०१

क्रीळुर्मखो न मंहयुः पवित्रं सोम गच्छसि।

दधत्स्तोत्रे सुवीर्यम्॥ ९.०२०.०७

इन्दो यदद्रिभिः सुतः पवित्रं परिधावसि।

अरमिन्द्रस्य धाम्ने॥ ९.०२४.०५

आ पवस्व मदिन्तम पवित्रं धारया कवे।

अर्कस्य योनिमासदम्॥ ९.०२५.०६

एष कविरभिष्टुतः पवित्रे अधि तोशते।

पुनानो घ्नन्नप स्रिधः॥ ९.०२७.०१

एष इन्द्राय वायवे स्वर्जित्परि षिच्यते।

पवित्रे दक्षसाधनः॥ ९.०२७.०२

एष सूर्येण हासते पवमानो अधि द्यवि।

पवित्रे मत्सरो मदः॥ ९.०२७.०५

एष पवित्रे अक्षरत्सोमो देवेभ्यः सुतः।

विश्वा धामान्याविशन्॥ ९.०२८.०२

प्र धारा अस्य शुष्मिणो वृथा पवित्रे अक्षरन्।

पुनानो वाचमिष्यति॥ ९.०३०.०१

असर्जि रथ्यो यथा पवित्रे चम्वोः सुतः।

कार्ष्मन्वाजी न्यक्रमीत्॥ ९.०३६.०१

स सुतः पीतये वृषा सोमः पवित्रे अर्षति।

विघ्नन्रक्षांसि देवयुः॥ ९.०३७.०१

स पवित्रे विचक्षणो हरिरर्षति धर्णसिः।

अभि योनिं कनिक्रदत्॥ ९.०३७.०२

सुत एति पवित्र आ त्विषिं दधान ओजसा।

विचक्षाणो विरोचयन्॥ ९.०३९.०३

अयं स यो दिवस्परि रघुयामा पवित्र आ।

सिन्धोरूर्मा व्यक्षरत्॥ ९.०३९.०४

दुहानः प्रत्नमित्पयः पवित्रे परि षिच्यते।

क्रन्दन्देवाँ अजीजनत्॥ ९.०४२.०४

इन्दुरत्यो न वाजसृत्कनिक्रन्ति पवित्र आ।

यदक्षारति देवयुः॥ ९.०४३.०५

अयं देवेषु जागृविः सुत एति पवित्र आ।

सोमो याति विचर्षणिः॥ ९.०४४.०३

अत्यू पवित्रमक्रमीद्वाजी धुरं न यामनि।

इन्दुर्देवेषु पत्यते॥ ९.०४५.०४

स न ऊर्जे व्यव्ययं पवित्रं धाव धारया।

देवासः शृणवन्हि कम्॥ ९.०४९.०४

आ पवस्व मदिन्तम पवित्रं धारया कवे।

अर्कस्य योनिमासदम्॥ ९.०५०.०४

अध्वर्यो अद्रिभिः सुतं सोमं पवित्र आ सृज।

पुनीहीन्द्राय पातवे॥ ९.०५१.०१

अभ्यर्ष विचक्षण पवित्रं धारया सुतः।

अभि वाजमुत श्रवः॥ ९.०५१.०५

परि द्युक्षः सनद्रयिर्भरद्वाजं नो अन्धसा।

सुवानो अर्ष पवित्र आ॥ ९.०५२.०१

परि सोम ऋतं बृहदाशुः पवित्रे अर्षति।

विघ्नन्रक्षांसि देवयुः॥ ९.०५६.०१

पवमानस्य ते वयं पवित्रमभ्युन्दतः।

सखित्वमा वृणीमहे॥ ९.०६१.०४

ये ते पवित्रमूर्मयोऽभिक्षरन्ति धारया।

तेभिर्नः सोम मृळय॥ ९.०६१.०५

समिन्द्रेणोत वायुना सुत एति पवित्र आ।

सं सूर्यस्य रश्मिभिः॥ ९.०६१.०८

एते असृग्रमिन्दवस्तिरः पवित्रमाशवः।

विश्वान्यभि सौभगा॥ ९.०६२.०१

यास्ते धारा मधुश्चुतोऽसृग्रमिन्द ऊतये।

ताभिः पवित्रमासदः॥ ९.०६२.०७

आ नः सोमं पवित्र आ सृजता मधुमत्तमम्।

देवेभ्यो देवश्रुत्तमम्॥ ९.०६२.२१

पवमान ऋतः कविः सोमः पवित्रमासदत्।

दधत्स्तोत्रे सुवीर्यम्॥ ९.०६२.३०

सुता इन्द्राय वज्रिणे सोमासो दध्याशिरः।

पवित्रमत्यक्षरन्॥ ९.०६३.१५

प्र सोम मधुमत्तमो राये अर्ष पवित्र आ।

मदो यो देववीतमः॥ ९.०६३.१६

ऊर्मिर्यस्ते पवित्र आ देवावीः पर्यक्षरत्।

सीदन्नृतस्य योनिमा॥ ९.०६४.११

स नो अर्ष पवित्र आ मदो यो देववीतमः।

इन्दविन्द्राय पीतये॥ ९.०६४.१२

तव शुक्रासो अर्चयो दिवस्पृष्ठे वि तन्वते।

पवित्रं सोम धामभिः॥ ९.०६६.०५

प्र सुवान इन्दुरक्षाः पवित्रमत्यव्ययम्।

पुनान इन्दुरिन्द्रमा॥ ९.०६६.२८

पवमानास इन्दवस्तिरः पवित्रमाशवः।

इन्द्रं यामेभिराशत॥ ९.०६७.०७

ग्राव्णा तुन्नो अभिष्टुतः पवित्रं सोम गच्छसि।

दधत्स्तोत्रे सुवीर्यम्॥ ९.०६७.१९

एष तुन्नो अभिष्टुतः पवित्रमति गाहते।

रक्षोहा वारमव्ययम्॥ ९.०६७.२०

पवमानः सो अद्य नः पवित्रेण विचर्षणिः।

यः पोता स पुनातु नः॥ ९.०६७.२२

यत्ते पवित्रमर्चिष्यग्ने विततमन्तरा।

ब्रह्म तेन पुनीहि नः॥ ९.०६७.२३

यत्ते पवित्रमर्चिवदग्ने तेन पुनीहि नः।

ब्रह्मसवैः पुनीहि नः॥ ९.०६७.२४

उभाभ्यां देव सवितः पवित्रेण सवेन च।

मां पुनीहि विश्वतः॥ ९.०६७.२५

स रोरुवदभि पूर्वा अचिक्रददुपारुहः श्रथयन्स्वादते हरिः।

तिरः पवित्रं परियन्नुरु ज्रयो नि शर्याणि दधते देव आ वरम्॥ ९.०६८.०२

एते सोमाः पवमानास इन्द्रं रथा इव प्र ययुः सातिमच्छ।

सुताः पवित्रमति यन्त्यव्यं हित्वी वव्रिं हरितो वृष्टिमच्छ॥ ९.०६९.०९

पवित्रवन्तः परि वाचमासते पितैषां प्रत्नो अभि रक्षति व्रतम्।

महः समुद्रं वरुणस्तिरो दधे धीरा इच्छेकुर्धरुणेष्वारभम्॥ ९.०७३.०३

सहस्रधारे वितते पवित्र आ वाचं पुनन्ति कवयो मनीषिणः।

रुद्रास एषामिषिरासो अद्रुहः स्पशः स्वञ्चः सुदृशो नृचक्षसः॥ ९.०७३.०७

ऋतस्य गोपा न दभाय सुक्रतुस्त्री ष पवित्रा हृद्यन्तरा दधे।

विद्वान्स विश्वा भुवनाभि पश्यत्यवाजुष्टान्विध्यति कर्ते अव्रतान्॥ ९.०७३.०८

ऋतस्य तन्तुर्विततः पवित्र आ जिह्वाया अग्रे वरुणस्य मायया।

धीराश्चित्तत्समिनक्षन्त आशतात्रा कर्तमव पदात्यप्रभुः॥ ९.०७३.०९

पवित्रं ते विततं ब्रह्मणस्पते प्रभुर्गात्राणि पर्येषि विश्वतः।

अतप्ततनूर्न तदामो अश्नुते शृतास इद्वहन्तस्तत्समाशत॥ ९.०८३.०१

तपोष्पवित्रं विततं दिवस्पदे शोचन्तो अस्य तन्तवो व्यस्थिरन्।

अवन्त्यस्य पवीतारमाशवो दिवस्पृष्ठमधि तिष्ठन्ति चेतसा॥ ९.०८३.०२

हविर्हविष्मो महि सद्म दैव्यं नभो वसानः परि यास्यध्वरम्।

राजा पवित्ररथो वाजमारुहः सहस्रभृष्टिर्जयसि श्रवो बृहत्॥ ९.०८३.०५

अधि द्यामस्थाद्वृषभो विचक्षणोऽरूरुचद्वि दिवो रोचना कविः।

राजा पवित्रमत्येति रोरुवद्दिवः पीयूषं दुहते नृचक्षसः॥ ९.०८५.०९

दिवो नाके मधुजिह्वा असश्चतो वेना दुहन्त्युक्षणं गिरिष्ठाम्।

अप्सु द्रप्सं वावृधानं समुद्र आ सिन्धोरूर्मा मधुमन्तं पवित्र आ॥ ९.०८५.१०

अत्यो न हियानो अभि वाजमर्ष स्वर्वित्कोशं दिवो अद्रिमातरम्।

वृषा पवित्रे अधि सानो अव्यये सोमः पुनान इन्द्रियाय धायसे ९.०८६.०३

उभयतः पवमानस्य रश्मयो ध्रुवस्य सतः परि यन्ति केतवः।

यदी पवित्रे अधि मृज्यते हरिः सत्ता नि योना कलशेषु सीदति॥ ९.०८६.०६

यज्ञस्य केतुः पवते स्वध्वरः सोमो देवानामुप याति निष्कृतम्।

सहस्रधारः परि कोशमर्षति वृषा पवित्रमत्येति रोरुवत्॥ ९.०८६.०७

पवस्व सोम दिव्येषु धामसु सृजान इन्दो कलशे पवित्र आ।

सीदन्निन्द्रस्य जठरे कनिक्रदन्नृभिर्यतः सूर्यमारोहयो दिवि॥ ९.०८६.२२

अद्रिभिः सुतः पवसे पवित्र आँ इन्दविन्द्रस्य जठरेष्वाविशन्।

त्वं नृचक्षा अभवो विचक्षण सोम गोत्रमङ्गिरोभ्योऽवृणोरप॥ ९.०८६.२३

त्वं पवित्रे रजसो विधर्मणि देवेभ्यः सोम पवमान पूयसे।

त्वामुशिजः प्रथमा अगृभ्णत तुभ्येमा विश्वा भुवनानि येमिरे॥ ९.०८६.३०

उन्मध्व ऊर्मिर्वनना अतिष्ठिपदपो वसानो महिषो वि गाहते।

राजा पवित्ररथो वाजमारुहत्सहस्रभृष्टिर्जयति श्रवो बृहत्॥ ९.०८६.४०

एष स्य ते मधुमाँ इन्द्र सोमो वृषा वृष्णे परि पवित्रे अक्षाः।

सहस्रसाः शतसा भूरिदावा शश्वत्तमं बर्हिरा वाज्यस्थात्॥ ९.०८७.०४

एते सोमा अभि गव्या सहस्रा महे वाजायामृताय श्रवांसि।

पवित्रेभिः पवमाना असृग्रञ्छ्रवस्यवो न पृतनाजो अत्याः॥ ९.०८७.०५

एष सुवानः परि सोमः पवित्रे सर्गो न सृष्टो अदधावदर्वा।

तिग्मे शिशानो महिषो न शृङ्गे गा गव्यन्नभि शूरो न सत्वा॥ ९.०८७.०७

परि सुवानो हरिरंशुः पवित्रे रथो न सर्जि सनये हियानः।

आपच्छ्लोकमिन्द्रियं पूयमानः प्रति देवाँ अजुषत प्रयोभिः॥ ९.०९२.०१

ब्रह्मा देवानां पदवीः कवीनामृषिर्विप्राणां महिषो मृगाणाम्।

श्येनो गृध्राणां स्वधितिर्वनानां सोमः पवित्रमत्येति रेभन्॥ ९.०९६.०६

शिशुं जज्ञानं हर्यतं मृजन्ति शुम्भन्ति वह्निं मरुतो गणेन।

कविर्गीर्भिः काव्येना कविः सन्सोमः पवित्रमत्येति रेभन्॥ ९.०९६.१७

अस्य प्रेषा हेमना पूयमानो देवो देवेभिः समपृक्त रसम्।

सुतः पवित्रं पर्येति रेभन्मितेव सद्म पशुमान्ति होता॥ ९.०९७.०१

पवित्रेभिः पवमानो नृचक्षा राजा देवानामुत मर्त्यानाम्।

द्विता भुवद्रयिपती रयीणामृतं भरत्सुभृतं चार्विन्दुः॥ ९.०९७.२४

अक्रान् त्समुद्रः प्रथमे विधर्मञ्जनयन्प्रजा भुवनस्य राजा।

वृषा पवित्रे अधि सानो अव्ये बृहत्सोमो वावृधे सुवान इन्दुः॥ ९.०९७.४०

सं त्री पवित्रा विततान्येष्यन्वेकं धावसि पूयमानः।

असि भगो असि दात्रस्य दातासि मघवा मघवद्भ्य इन्दो॥ ९.०९७.५५

ते प्रत्नासो व्युष्टिषु सोमाः पवित्रे अक्षरन्।

अपप्रोथन्तः सनुतर्हुरश्चितः प्रातस्ताँ अप्रचेतसः॥ ९.०९८.११

सुत इन्दो पवित्र आ नृभिर्यतो वि नीयसे।

इन्द्राय मत्सरिन्तमश्चमूष्वा नि षीदसि॥ ९.०९९.०८

पवस्व वाजसातमः पवित्रे धारया सुतः।

इन्द्राय सोम विष्णवे देवेभ्यो मधुमत्तमः॥ ९.१००.०६

त्वां रिहन्ति मातरो हरिं पवित्रे अद्रुहः।

वत्सं जातं न धेनवः पवमान विधर्मणि॥ ९.१००.०७

सुतासो मधुमत्तमाः सोमा इन्द्राय मन्दिनः।

पवित्रवन्तो अक्षरन्देवान्गच्छन्तु वो मदाः॥ ९.१०१.०४

स वीरो दक्षसाधनो वि यस्तस्तम्भ रोदसी।

हरिः पवित्रे अव्यत वेधा न योनिमासदम्॥ ९.१०१.१५

पवमाना असृक्षत पवित्रमति धारया।

मरुत्वन्तो मत्सरा इन्द्रिया हया मेधामभि प्रयांसि च॥ ९.१०७.२५

शिशुं जज्ञानं हरिं मृजन्ति पवित्रे सोमं देवेभ्य इन्दुम्॥ ९.१०९.१२

प्र सुवानो अक्षाः सहस्रधारस्तिरः पवित्रं वि वारमव्यम्॥ ९.१०९.१६

असर्जि वाजी तिरः पवित्रमिन्द्राय सोमः सहस्रधारः॥ ९.१०९.१९

यस्ते द्रप्सः स्कन्दति यस्ते अंशुर्बाहुच्युतो धिषणाया उपस्थात्।

अध्वर्योर्वा परि वा यः पवित्रात्तं ते जुहोमि मनसा वषट्कृतम्॥ १०.०१७.१२

पीवानं मेषमपचन्त वीरा न्युप्ता अक्षा अनु दीव आसन्।

द्वा धनुं बृहतीमप्स्वन्तः पवित्रवन्ता चरतः पुनन्ता॥ १०.०२७.१७

नैतावदेना परो अन्यदस्त्युक्षा स द्यावापृथिवी बिभर्ति।

त्वचं पवित्रं कृणुत स्वधावान्यदीं सूर्यं न हरितो वहन्ति॥ १०.०३१.०८

 

१. अन्तरिक्षं वै पवित्रम् काठ २६.१०, क ४१.८

. अयं वै पवित्रं यो ऽयं (वायुः) पवते । माश १, , , , .,, १२ ।

. एतद्वा अछिद्रं पवित्रं यत् सूर्यस्य रश्मयः । मै ,,;

देवो वः सविता पुनात्वछिद्रेण पवित्रेणेति , एतद्वा अछिद्रं पवित्रं यत् सूर्यस्य रश्मयो  मै ,,

. हिरण्यं दक्षिणा पवित्रं वै हिरण्यम् पुनात्य् एवैनम् आद्यम् अस्यान्नम् भवति । तैसं ,, ,; तै १,..,

शूर्पम् -- वायुर्वो विविनक्त्वित्याह । पवित्रं वै वायुः । पुनात्येवैनान् ।- तैब्रा ,,,११ (तु. काठ ८,)

५ पवित्रं पोत्राभ्याम् । तैसं ,,१५, , काठ ५३,

तद्वा अतः पवित्राभ्यामेवोत्पुनाति । यजमानो वा आज्यम् । प्राणापानौ पवित्रे । तैब्रा ,,,

तस्मिन्पवित्रे अपिसृजति । यजमानो वै प्रस्तरः । प्राणापानौ पवित्रे । यजमान एव प्राणापानौ दधाति । तैब्रा ३.३.६.७

पाहि माग्ने दुश्चरितादा मा सुचरिते भजेत्याह अग्निर्वाव पवित्रम् तै ३.३.७.१०

अथ पवित्रयोर्मार्जयन्ते । पाकयज्ञिययेव वा एतदिडयाचारिषुः पवित्रपूता यदत ऊर्ध्वमसंस्थितं यज्ञस्य तत्तनवामहा इति तस्मात्पवित्रयोर्मार्जयन्ते माश १.८.१.४३]

अथ ते पवित्रे प्रस्तरेऽपिसृजति । यजमानो वै प्रस्तरः प्राणोदानौ पवित्रे यजमाने तत्प्राणोदानौ दधाति तस्मात्ते पवित्रे प्रस्तरेऽपिसृजति माश १.८.१.४४ 

. येन देवाः पवित्रेणात्मानं पुनते सदा तेन सहस्रधारेण पवमानः पुनातु मा । काठसंक ९६ । २ ।

. वसूनां वा एतद् भागधेयं यत् पवित्रम् । क ४६.८ ।।

अन्तरिक्षं पवित्रेण (सहागच्छतु) तैआ ३.८.२
पुनानस् सोम धारयापो वसानो अर्षसि इति। आपो वै पवित्रम् जै १.१२१

पवित्रं वाऽआपः पवित्रपूतो व्रतमुपायानीति माश १.१.१.१,

पवित्रं वा आपः पवित्रपूतो दीक्षा इति तस्माद्वै स्नाति - माश ३.१.२.१०

दर्भमयं परिधापयति । पवित्रं वै दर्भाः तै १.३.७.१, ३.८.२.३

यज्ञो वै पवित्रपतिः । मै ३,, ; काठ २३, ; क ३५,७ ।

 

शुद्धा न आपस्तन्वे क्षरन्तु यो नः सेदुरप्रिये तं नि दध्मः ।
पवित्रेण पृथिवि मोत्पुनामि ॥शौअ १२.१.३० अ १२.१.३०, ३.३.१४.२५

<पवित्रेण पृथिवि [१२.३०.१ ]> इति लोष्टेनात्मानमुत्पुनाति  वैतानश्रौसू. १२.६

पूतं पवित्रेणेवाज्यम् वा.सं २०.२०

सोमं पवित्र आ सृज - ऋ. १.२८.९, ३.३६.७, ८.३३.१, ९०.९, ९.२.१

स न ऊर्जे व्यव्यं पवित्रं धाव धारया ऋ. ९.४९.४

पवित्रं ते विततम् ८३.१, ९७.५५, १०.३१.८, अ. ९.६.१६, ६.१२४.३, वासं १.२.१२

देवो मा सविता पुनात्वच्छिद्रेण पवित्रेण सूर्य रश्मिभिः ४.४.१९, ३.३७.४०.४१, तैब्रा १.४.१.१

वायुर्वै देवानां पवित्र तैसं २.१.१०.२

पवित्रं वै हिरण्यम् २.५.१

पवित्रं वा आपः श.ब्रा. १.१.१.१

प्राणोदानौ पवित्रं ८.१.१.४

पवित्रं वै सौत्रामणी माश १२.८.१.८, आश्व.गृ. १.४

यत्ते पवित्रमर्चिष्यग्ने विततमन्तरा लाट्या. ५.४.१४

पवित्रं विदुषां हि वाक् म ११.८५

स (वासुदेवः) हि सत्यमनृतं चैव पवित्रं पुण्यमेव च महा १.२४९.

पवित्राणां पवित्रं च मङ्गलानाञ्च मङ्गलम् ।। - वायुपु. १.३०.२४३

पवित्राणां हि गोविन्दः पवित्रं परमुच्यते महाभा. ३.८८.२७, १३७५९. १३७६२, भागवत ४.३८.९, १७, र २.३९.२४, वराह बृहत् सं ४७.३.७३, ९.८२.२३

प्राक्कूलान्पर्युपासीनः पवित्रैश्चैव पावितः । प्राणायामैस्त्रिभिः पूतस्तत ओंकारर्हति । । मनु २.७५

तेषां उदकं आनीय सपवित्रांस्तिलानपि । अग्नौ कुर्यादनुज्ञातो ब्राह्मणो ब्राह्मणैः सह । ।  मनुस्मृति ३.२१०.

तेषां दत्त्वा तु हस्तेषु सपवित्रं तिलोदकम् । तत्पिण्डाग्रं प्रयच्छेत स्वधैषां अस्त्विति ब्रुवन् । । मनुस्मृति ३.२२३ भागवपु. ६.८.४

दर्भपवित्र शत.ब्रा. ३.१.३.१८

कुशपवित्र  कात्याश्रौ ७.३.१

समित्कुशपवित्राणि र २.२५.७

अजाविलोमपवित्र कात्य श्रौ १९.२.११ ऐब्रा ८.१३

दशापवित्र ऐब्रा ६.३६

पवित्रवन्तो ऽन्ये ग्रहा गृह्यन्ते किंपवित्र उपाशुर् इति वाक्पवित्र इति ब्रूयात् ।  तैसं ६.४.५.३

त्रिभिः पवित्रैरपुपोद्ध्यर्कं हृदा मतिं ज्योतिरनु प्रजानन् ऋ ३.२६.८

वितते पवित्र आ वाचं पुनन्ति कवयो मनीषिणः ९.७३.७

त्री ष पवित्रा हृद्यन्तरा दधे ९.७३.८

क्रतुं पुनानः कविभिः पवित्रैः ३.१.५

सावित्रीं च जपेन्नित्यं पवित्राणि च शक्तितः मनु ११.२२५.३, २५६ महा १३.४४०२

पवित्रपठनात् मार्क.पु. ५१.२६

आदित्यानां(देवानां) पवित्रम् साम ३.२०५, व. २१९

त्रीणि श्राद्धे पवित्राणि दौहित्रः कुतपस्तिलाः मनु ३.२३५

त्रीणि देवाः पवित्राणि ब्राह्मणानामकल्पयन्। अदृष्टमद्भिर्निर्णिक्तं यच्च वाचा प्रशस्यते ५.१२७

पवित्रं दुष्यतीत्येतद्धर्मतो नोपपद्यते १०.१०२

खुरन्यासपवित्रपांशु रघु२.२

वाग्भिः पवित्राभिः भाग.पु ७.१०.२४

अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा। यः स्मरेत्पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः। गरुडपु. २.४७.५२

त्वदंशुभिरिदं स्पृष्टं सर्वं सञ्जायते शुचि॥ क्रियते त्वत्करैः स्पर्शाज्जलादीनां पवित्रता मार्क पु. ७८.१०

सर्वे सोमाः पवित्रपूताः शब्रा ४.१.१.४, वासं ४.४

पवित्ररथ ऋ ९.८३.५, ८६.४०

पवित्रवन्तः परि वाचमासते झ ९.७३.७, १०.२७.१७

पवित्रवन्तो ऽन्ये ग्रहा गृह्यन्ते तैसं ६.४.५.३

पवित्रवति संवपति पात्र्यां पवित्रे अवधाय शब्रा १.२.२.१, २.५.३.४, शांश्रौसू १.१२.८