Site hosted by Angelfire.com: Build your free website today!

पुराण विषय अनुक्रमणिका

PURAANIC SUBJECT INDEX

(From Paksha to Pitara  )

Radha Gupta, Suman Agarwal & Vipin Kumar

HOME PAGE

Paksha - Panchami  ( words like Paksha / side, Pakshee / Pakshi / bird, Panchachuudaa, Panchajana, Panchanada, Panchamee / Panchami / 5th day etc. )

Panchamudraa - Patanga ( Pancharaatra, Panchashikha, Panchaagni, Panchaala, Patanga etc. )

Patanjali - Pada ( Patanjali, Pataakaa / flag, Pati / husband, Pativrataa / chaste woman, Patnee / Patni / wife, Patnivrataa / chaste man, Patra / leaf, Pada / level etc.)

Padma - Padmabhuu (  Padma / lotus, Padmanaabha etc.)

Padmamaalini - Pannaga ( Padmaraaga, Padmaa, Padmaavati, Padminee / Padmini, Panasa etc. )

Pannama - Parashunaabha  ( Pampaa, Payah / juice, Para, Paramaartha, Parameshthi, Parashu etc. )

Parashuraama - Paraashara( Parashuraama, Paraa / higher, Paraavasu, Paraashara etc)

Parikampa - Parnaashaa  ( Parigha, Parimala, Parivaha, Pareekshita / Parikshita, Parjanya, Parna / leaf, Parnaashaa etc.)

Parnini - Pallava (  Parva / junctions, Parvata / mountain, Palaasha etc.)

Palli - Pashchima (Pavana / air, Pavamaana, Pavitra / pious, Pashu / animal, Pashupati, Pashupaala etc.)

Pahlava - Paatha (Pahlava, Paaka, Paakashaasana, Paakhanda, Paanchajanya, Paanchaala, Paatala, Paataliputra, Paatha etc.)

Paani - Paatra  (Paani / hand, Paanini, Paandava, Paandu, Pandura, Paandya, Paataala, Paataalaketu, Paatra / vessel etc. )

Paada - Paapa (Paada / foot / step, Paadukaa / sandals, Paapa / sin etc. )

 Paayasa - Paarvati ( Paara, Paarada / mercury, Paaramitaa, Paaraavata, Paarijaata, Paariyaatra, Paarvati / Parvati etc.)

Paarshva - Paasha (  Paarshnigraha, Paalaka, Paavaka / fire, Paasha / trap etc.)

Paashupata - Pichindila ( Paashupata, Paashaana / stone, Pinga, Pingala, Pingalaa, Pingaaksha etc.)

Pichu - Pitara ( Pinda, Pindaaraka, Pitara / manes etc. )

 

 

अदितिर्द्यौरदितिरन्तरिक्षमदितिर्माता स पिता स पुत्रः ।
विश्वे देवा अदितिः पञ्च जना अदितिर्जातमदितिर्जनित्वम् ॥१.८९.१०

स वज्रभृद्दस्युहा भीम उग्रः सहस्रचेताः शतनीथ ऋभ्वा ।

चम्रीषो न शवसा पाञ्चजन्यो मरुत्वान्नो भवत्विन्द्र ऊती ॥१२॥ - ऋ.१.१००.१२

ऋषिं नरावंहसः पाञ्चजन्यमृबीसादत्रिं मुञ्चथो गणेन ।

मिनन्ता दस्योरशिवस्य माया अनुपूर्वं वृषणा चोदयन्ता ॥ऋ. १.११७.३

ससर्परीरभरत्तूयमेभ्योऽधि श्रवः पाञ्चजन्यासु कृष्टिषु ।

सा पक्ष्या नव्यमायुर्दधाना यां मे पलस्तिजमदग्नयो ददुः ॥ऋ. ३.५३.१६

मित्राय पञ्च येमिरे जना अभिष्टिशवसे ।
स देवान्विश्वान्बिभर्ति ॥३.५९.८

एकं नु त्वा सत्पतिं पाञ्चजन्यं जातं शृणोमि यशसं जनेषु ।

तं मे जगृभ्र आशसो नविष्ठं दोषा वस्तोर्हवमानास इन्द्रम् ॥ऋ.५.३२.११

अदिद्युतत्स्वपाको विभावाग्ने यजस्व रोदसी उरूची ।

आयुं न यं नमसा रातहव्या अञ्जन्ति सुप्रयसं पञ्च जनाः ॥४॥ ऋ. ६.११.४ 

ते न इन्द्रः पृथिवी क्षाम वर्धन्पूषा भगो अदितिः पञ्च जनाः ।

सुशर्माणः स्ववसः सुनीथा भवन्तु नः सुत्रात्रासः सुगोपाः ॥ऋ.६.५१.११

आ पश्चातान्नासत्या पुरस्तादाश्विना यातमधरादुदक्तात् ।

आ विश्वतः पाञ्चजन्येन राया यूयं पात स्वस्तिभिः सदा नः ॥७.७२.५ 

आ पश्चातान्नासत्या पुरस्तादाश्विना यातमधरादुदक्तात् ।

आ विश्वतः पाञ्चजन्येन राया यूयं पात स्वस्तिभिः सदा नः ॥७.७३.५

यत्पाञ्चजन्यया विशेन्द्रे घोषा असृक्षत ।

अस्तृणाद्बर्हणा विपोऽर्यो मानस्य स क्षयः ॥ऋ. ८.६३.७

अग्निरृषिः पवमानः पाञ्चजन्यः पुरोहितः ।

तमीमहे महागयम् ॥ऋ. ९.६६.२०॥

तदद्य वाचः प्रथमं मसीय येनासुराँ अभि देवा असाम ।

ऊर्जाद उत यज्ञियासः पञ्च जना मम होत्रं जुषध्वम् ॥४॥

पञ्च जना मम होत्रं जुषन्तां गोजाता उत ये यज्ञियासः ।

पृथिवी नः पार्थिवात्पात्वंहसोऽन्तरिक्षं दिव्यात्पात्वस्मान् ॥ऋ. १०.५३.५

पाञ्चजन्यं वा एतदुक्थं यद् वैश्वदेवम्; सर्वेषां वा एतत् पञ्चजनानामुक्थं देवमनुष्याणां गन्धर्वाप्सरसां सर्पाणां च पितॄणां च; एतेषां वा एतत् पञ्चजनानामुक्थं; सर्व एनं पञ्चजना विदुः ऐतरेय ब्राह्मण ३.३१

विश्वे देवा अदितिः पञ्च जना इति ये देवा असुरेभ्यः पूर्वे पञ्च जना आसन्य एवासावादित्ये पुरुषो यश्चन्द्रमसि यो विद्युति योऽप्सु योऽयमक्षन्नन्तरेष एव ते तदेषैव – जै.उ.ब्रा.१.१३.२.६

असि सत्यशुष्मम् असि सत्येन त्वाऽभि घारयामि तस्य ते भक्षीय
पञ्चानां त्वा वातानां यन्त्राय धर्त्राय गृह्णामि
पञ्चानां त्वर्तूनां यन्त्राय धर्त्राय गृह्णामि
पञ्चानां त्वा दिशाम्̇ यन्त्राय धर्त्राय गृह्णामि
पञ्चानां त्वा पञ्चजनानां यन्त्राय धर्त्राय गृह्णामि
चरोस् त्वा पञ्चबिलस्य यन्त्राय धर्त्राय गृह्णामि
ब्रह्मणस् त्वा तेजसे यन्त्राय धर्त्राय गृह्णामि
क्षत्रस्य त्वौजसे यन्त्राय तै.सं. १.६.१.२

अग्निर्ऋषिः पवमानः पाञ्चजन्यः पुरोहितः । तमीमहे महागयम्, इति तै.आ. २.५.२

पाञ्चजन्यया विशेति मरुत्वतीयस्य प्रतिपत्पाञ्चजन्ययेति पञ्चमेऽहनि पञ्चमस्याह्नो रूपम् – ऐ.ब्रा. ५.६

नाम कृत्वाथैनमुपतिष्ठते । सर्वेण वा एष एतमात्मना चिनोति स यदेतामत्रात्मनः परिदां न वदेतात्र हैवास्यैष आत्मानं वृञ्जीताथ यदेतामत्रात्मनः परिदां वदते तथो हास्यैष आत्मानं न वृङ्क्ते ये अग्नयः पाञ्चजन्या अस्यां पृथिव्यामधि तेषामसि त्वमुत्तमः प्र नो जीवातवे सुवेति ये केचाग्नयः पञ्चचितिका अस्यां पृथिव्यामधि तेषामसि त्वं सत्तमः प्रोअस्माञ्जीवनाय सुवेत्येतदनुष्टुभा वाग्वा अनुष्टुब्वागु सर्वाणि छन्दांसि सर्वैरेवास्मा एतच्छन्दोभिर्निह्नुत उपस्थायाग्निं समारोह्य निर्मथ्योदवसानीयया यजते श.ब्रा. ९.५.१.[५३]

यत् पाञ्चजन्यया विश इति मरुत्वतीयस्य प्रतिपत् । (सोम पृष्ठ्य षडह)
पाञ्चजन्यया इत् तत् पञ्चमस्य अह्नो रूपम् । - शां.ब्रा. २३.१

यच्छन्दांसि व्यूहतीमौ वै लोकौ सहास्तां तौ व्यैतां नावर्षन्न समतपत्ते पञ्चजना न समजानत तौ देवाः समनयंस्तौ संयन्तावेतं देवविवाहं व्यवहेतां रथंतरेणैवेयममूं जिन्वति बृहतासाविमां नौधसेनैवेयममूं जिन्वति श्यैतेनासाविमां धूमेनैवेयममूं जिन्वति वृष्ट्यासाविमां देवयजनमेवेयममुष्यामदधात्पशूनसावस्यामेतद्वा इयममुष्यां देवयजनमदधाद्यदेतच्चन्द्रमसि कृष्णमिव तस्मादापूर्यमाणपक्षेषु यजन्त – ऐ.ब्रा. ४.२७

अथास्मै नामगृह्य प्रहरति । निरमुं नुद ओकसः । सपत्नो यः पृतन्यति । निर्बाध्येन हविषा । इन्द्र एणं पराशरीत् । इहि तिस्रः परावतः । इहि पञ्च जनाँ अति । इहि तिस्रोऽति रोचना । यावत् । सूर्यो असद्दिवि । परमां त्वा परावतम् – तै.ब्रा. ३.३.११.३