पुराण विषय अनुक्रमणिका PURAANIC SUBJECT INDEX (From Paksha to Pitara ) Radha Gupta, Suman Agarwal & Vipin Kumar
|
|
पद्मिनी स्कन्दपुराणे २.१.३ पद्मिनी वियद्राजधरण्योः कन्या अस्ति यस्य विवाहः श्रीनिवासविष्णुना सह भवति। पद्मपुराणे ६.१८४.७२ एका पद्मावती अप्सरा अस्ति। सा दुर्वासां ऋषिं वीक्ष्य पद्मिनीरूपं धारयति यस्योपरि दुर्वासा तां शपति एवं तां स्थायीरूपेण पद्मिनीरूपं ददाति। कथनमस्ति यत् पद्मिनि पञ्चपद्मेभ्यः अलंकृता अस्ति – पादयोः द्वे, करयोः द्वे, मुखे एकं। तस्याः वैशिष्ट्यमस्ति यत् सा गीतायाः विभूतियोगसंज्ञकं दशममध्यायं जानाति एवं तस्याः पाठेन दुर्वासाशापतः मुक्ता अपि भवति। प्रथमतः, अयं उल्लेखनीयमस्ति यत् पद्मा, पद्मावती, पद्मिनी शब्देषु भेदाः सन्ति। या पद्मावती अस्ति, सा वास्तविकरूपेण पद्मेभिः अलंकृता नास्ति, केवलं तत्सादृश्या एव अस्ति। पद्मपुराणे पद्मावती अप्सरा अस्ति। सा दुर्वासाशापेन एव पद्मिनी भवति। स्कन्दपुराणे पद्मिनी वियद्राजधरण्योः कन्या अस्ति। अत्र वियत् – धरणि शब्दौ संकेतौ स्तः यत् अयं प्रसंगः वैदिकवाङ्मयस्य द्यावापृथिव्ययोः प्रसंगः अस्ति। काठकसंहितायाः ३.३ कथनमस्ति – द्यां ते धूमो गच्छत्वन्तरिक्षमर्चिः पृथिवीं भस्म। किमपेक्षणीयमस्ति, अस्य उल्लेखं तैत्तिरीयसंहितायां २.५.२.५ अस्ति। द्यौः वरदानस्वरूपेण नक्षत्रविहिता भवति। पृथिवी वरदानस्वरूपेण चित्रा भवति। यदा पद्मपुराणः कथयति यत् पद्मिन्योः पादौ पद्मयुक्तौ स्तः, अस्य किमर्थं भवितुं शक्यते। पादौ सर्वेषां अघानां आलयौ स्तः। अतएव, प्रथमतः एषां अघानां भस्मीभवनस्य आवश्यकता अस्ति। द्वितीयतः अस्य भस्मोपरि वनस्पत्यादीनां, इरायाः वर्धनस्य आवश्यकता अस्ति। अध्यात्मे पादाभ्यां ऊर्जायाः प्रवाहः ऊर्ध्वमुखी भवति। अयमेव इरायाः वर्धनं प्रतीयते। पद्मिन्योः करकमलयोः उल्लेखमस्ति। करकमलतः किं आशयं भवितुं शक्यते। बलरामस्य करौ तालयुक्तौ स्तः। ताल – तल – दर्पण, मुकुरयुक्तौ। वैदिकवाङ्मये करकमलौ अस्मिन् रूपे आविर्भवन्ति – सवितुः प्रसविताभ्यां अश्विनोर्बाहुभ्यां पूष्णोः हस्ताभ्यां ... त्वां गृह्णामि। नाहं अहंकारस्य योगे कार्यं करोमि, अपितु सवितुः देवस्य प्रेरणया करोमि। पद्मिन्योः मुखे एकः कमलः अस्ति। तेन सा दिव्यवाणीयुक्ता अस्ति। संभवतः अनेन पद्मेनैव सा गीतायाः दशमं अध्यायं स्मरति। अस्मिन् अध्याये किमस्ति। विष्णुदेवः कथयति यत् ब्रह्माण्डे पदेपदे भूतानां या पराकाष्ठा अस्ति – अश्वेषु उच्चैःश्रवा अश्वः, गावःसु कामधेनु आदि, तत् सर्वं सैव अस्ति। अत्र रहस्यमस्ति, एष प्रतीयते। प्रकृतितः पराकाष्ठायाः प्रापणं संभवं नास्ति। अयं पराकाष्ठा पुरुषतः एव प्रापणीयः। मार्कण्डेयपुराणे पद्मिनीविद्यया सह निधीनां उल्लेखमस्ति। ऐतरेयब्राह्मणे १.२९ एवं काठकसंहितायां ६.६ कथनमस्ति – द्यावापृथिवी वै देवानां हविर्धाने आस्ताम्। किं हविर्धानाभ्यां निधीनां सह सम्बन्धं अस्ति, अयं अन्वेषणीयः। निधिषु या नील निधिरस्ति, अस्मिन् संदर्भे पुरुषोत्तमक्षेत्रस्य अन्वेषणं प्रथमतः नीलरूपेणैवाभवत्। विष्णोः नीलरूपस्य दर्शने शबराः एव समर्थाः सन्ति, न ब्राह्मणाः। कालान्तरे नीलस्य रूपान्तरणं वासुदेव, संकर्षण, सुभद्रादयोः रूपेण भवति। नीलावस्था, यथा शंकरस्य नीलकण्ठः कठोरसाधनायाः स्थितिरस्ति। अयं साधना शबररूपेण कर्तव्यं इत्यभिप्रायः। कच्छपनिधिसंदर्भे, कच्छपः द्यावापृथिव्योः रूपमस्ति। अतएव अस्य रहस्यं द्यावापृथिव्यां निहितं भवितुं शक्यते। मुकुन्दनिधेः संदर्भे, रहस्योद्घाटकाः कथनाः अत्यल्पाः प्रतीयन्ते। बालमुकुन्दस्य आख्यानमस्ति यत् मार्कण्डेयः तस्य मुखे प्रविशति, उदरे ब्रह्माण्डस्य दर्शनं करोति एवं निर्गमयति। किं मुकुन्दशब्दः मुकुर – दर्पणेन सह सम्बद्धं अस्ति, अयं अन्वेषणीयः। वाचक्नवि द्विजस्य भार्या मुकुन्दा अस्ति। शंखनिधि संदर्भे, शंखध्वनिः प्राणानां ध्मातेन प्रभवति – पाञ्चजन्यं हृषीकेशो देवदत्तं धनंजयः। पौण्ड्रं दध्मौ महाशंखं भीमकर्मा वृकोदरः। अनंतविजयं राजा कुन्तीपुत्रो युधिष्ठिरः। नकुलः सहदेवश्च सुघोषमणिपुष्पकौ। अत्र देवदत्तं दैवदत्तं अस्ति, अयं प्रतीयते। सोमयागे शंसनकृत्यं स्तोत्रानन्तरं भवति एवं मुख्यरूपेण चर्तुषु स्तरेषु भवति (होता, मैत्रावरुण, ब्राह्मणाच्छंसी, अच्छावाक)।
ॐ तच्च द्वादशवज्रैः सान्तरालैरलंकृतम् । तेषुवज्रेषु ॐ पद्मनिधये नमः । ॐमहापद्मनिधये नमः । ॐगरुडनिधये नमः । ॐशङ्खनिधये नमः । ॐ मकरनिधये नमः । ॐकच्छपनिधये नमः । ॐ विद्यानिधयेनमः । ॐ परमानन्दनिधये नमः । ॐ मोक्षनिधये नमः । ॐ लक्ष्मीनिधयेनमः । ॐ ब्रह्मनिधये नमः । ॐ श्रीमुकुन्दनिधये नमः । ॐ वैकुण्ठनिधयेनमः । - त्रिपाद्विभूतिमहानारायणोपनिषत् ७.४३ |