|
पुराण विषय अनुक्रमणिका PURAANIC SUBJECT INDEX (From Dvesha to Narmadaa ) Radha Gupta, Suman Agarwal & Vipin Kumar
|
|
|
नमः १. तन्नम इत्युपासीत । नम्यन्ते ऽ स्मै कामाः । तैआ ९,१०, ४; तैउ ३,१०,४ । २. ये वाऽमी रोचने दिवो । ये वा सूर्यस्य रश्मिषु येषामप्सु सदस्कृतं तेभ्यः सर्पेभ्यो नम इति यत्र यत्रैते तदेवैभ्य एतन्नमस्करोति नमो नम इति यज्ञो वै नमो यज्ञेनैवैनानेतन्नमस्कारेण नमस्यति - माश ७,४,१, ३० । ३. नमः पशुभ्यः पशुपतये करोमि । तैसं ३,१,४,४ । ४. नमः श्वभ्यः श्वपतिभ्यश्च वो नमः । तैसं ४,५,४,२-३ ।
५.
नमः सृकाविभ्यो जिघाꣳसद्भ्यो मुष्णतां पतये
नमो नमो ऽसिमद्भ्यो नक्तंचरद्भ्यः ...कुलुञ्चानां पतये नमः.
.... विध्यद्भ्यश्च वो नमः.. .नमो
अश्वेभ्यः । तैसं ४,५.३.१
२ । ७. अथ नीविमुद्वृह्य नमस्करोति । पितृदेवत्या वै नीविस्तस्मान्नीविमुद्वृह्य नमस्करोति यज्ञो वै नमो यज्ञियानेवैनानेतत्करोति षट्कृत्वो नमस्करोति षड्वा ऋतव ऋतवः पितरस्तस्मात्षट्कृत्वो नमस्करोति । माश २,४,२, २४; अथ नीविमुद्वृह्य नमस्करोति । पितृदेवत्या वै नीविस्तस्मान्नीविमुद्वृह्य नमस्करोति यज्ञो वै नमो यज्ञियानेवैनानेतत्करोति षट्कृत्वो नमस्करोति षड्वा ऋतव ऋतवः पितरस्तदृतुष्वेवैतद्यज्ञं प्रतिष्ठापयति तस्मात्षट्कृत्वो नमस्करोति - माश २.६,१, ४२; ७,४,१,३० ८; नमोनम इति यज्ञो वै नमो यज्ञेनैवैनमेतन्नमस्कारेण नमस्यति तस्मादु ह नायज्ञियं ब्रूयान्नमस्त इति यथा हैनं ब्रूयाद्यज्ञस्त इति तादृक्तत् – माश ९,१,१, १६ । ८. स ( शर्यातो मानवः) हैनं ( च्यवनम्) आद्रुत्याब्रवीद्, ऋषे नमस्ते ऽस्तु । जै ३,१२२ । ९. स्तेनानां पतये नमः... तस्कराणां पतये नमः, नमो वञ्चते परिवञ्चते स्तायूनां पतये नमः । तैसं ४,५,३, १ ।। युजे वां ब्रह्म पूर्व्यं नमोभिरिति । प्राणो वै ब्रह्म पूर्व्यमन्नं नमस्तत्तदेषैवाहुतिरन्नमेतयैव तदाहुत्यैतेनान्नेन प्राणानेतस्मै कर्मणे युङ्क्ते - माश ६.३.१.१७; स्वधा नमः ॥ इति वषट्करोति , स्वधाकारः पितृणां , नमस्कारो देवानां, उभये हीज्यन्ते मै १.१०.१८, नमो देवेभ्यः, स्वधा पितॄभ्या इति, नमस्कारो देवानां , स्वधाकारः पितृणां , मै ३.९.१, काठ ३६.१३ । नमस्-कार- देव- १३२ द्र. ।
नमस्-कृत्य
नमस्कृत्य हि वसीयाꣳसम् ( श्रेयाꣳसम्
[काठ.) उपचरन्ति । तैसं ५.४.४.५. नमस्य- १. सो न्वाह । ईडेन्यो नमस्य इति(ऋ.३.२७.१३) ईडेन्यो ह्येष नमस्यो ह्येष। माश १, ४,१, २९ । २. ईडामहै देवाꣳ ईडेन्यान् नमस्याम वा ईडेन्याः पितरो नमस्या देवा यज्ञियाः ।। तैसं २,५,९, ६; ईडामहै देवां ईडेन्यान्नमस्याम नमस्यान्यजाम यज्ञियानितीडामहै तान्देवान्य ईडेन्या नमस्याम तान्ये नमस्या यजाम यज्ञियानिति मनुष्या वा ईडेन्याः पितरो नमस्या देवा यज्ञियाः - माश १,५,२, ३ ।
|