Site hosted by Angelfire.com: Build your free website today!

पुराण विषय अनुक्रमणिका

PURAANIC SUBJECT INDEX

(From Dvesha to Narmadaa )

Radha Gupta, Suman Agarwal & Vipin Kumar

HOME PAGE


Dwesha - Dhanavati ( words like Dwesha,  Dvaipaayana, Dhana / wealth, Dhananjaya, Dhanada etc.)

Dhanaayu - Dhara ( Dhanu / bow, Dhanurveda / archery, Dhanusha / bow, Dhanushakoti, Dhanyaa,  Dhanvantari, Dhara etc.)

Dhara - Dharma ( Dharani, Dharaa, Dharma etc.)

Dharma - Dharmadatta ( Dharma, Dharmagupta, Dharmadatta etc.)

Dharmadhwaja - Dhaataa/Vidhaataa ( Dharmadhwaja, Dharmaraaja, Dharmasaavarni, Dharmaangada, Dharmaaranya, Dhaataki, Dhaataa, Dhaaataa - Vidhaataa etc.)

Dhaatu - Dhishanaa ( Dhaataa - Vidhaataa, Dhaatu / metal, Dhaatri, Dhaanya / cereal, Dhaarnaa, Dhaarni, Dhaaraa, Dhishanaa etc.)

Dhishanaa - Dhuupa (Dhee / intellect, Dheeman, Dheera,  Dheevara, Dhundhu, Dhundhumaara, Dhuupa etc.)

Dhuuma - Dhritaraashtra  ( Dhuuma / smoke, Dhuumaketu, Dhuumaavati, Dhuumra, Dhuumralochana, Dhuumraaksha, Dhritaraashtra etc.)

Dhritaraashtra - Dhenu ( Dhriti, Dhrista, Dhenu / cow etc.)

Dhenu - Dhruva ( Dhenu, Dhenuka, Dhaumya, Dhyaana / meditation, Dhruva etc. )

Dhruvakshiti - Nakshatra  ( Dhruvasandhi, Dhwaja / flag, Dhwani / sound, Nakula, Nakta / night, Nakra / crocodile, Nakshatra etc.)

Nakshatra - Nachiketaa ( Nakshatra, Nakha / nail, Nagara / city, Nagna / bare, Nagnajit , Nachiketa etc.)

Nata - Nanda (  Nata, Nataraaja, Nadvalaa, Nadee / river, Nanda etc.)

Nanda - Nandi ( Nanda, Nandana, Nandasaavarni, Nandaa, Nandini, Nandivardhana, Nandi etc.)

Napunsaka - Nara (  Nabha/sky, Nabhaga, Namuchi, Naya, Nara etc. )

Naraka - Nara/Naaraayana (Nara / man, Naraka / hell, Narakaasura, Nara-Naaraayana etc.) 

Naramedha - Narmadaa  (  Naramedha, Naravaahanadutta, Narasimha / Narasinha, Naraantaka, Narishyanta, Narmadaa etc. )

 

 

नक्षत्र

भगवद्गीतायां १०.२१ कथनमस्ति - मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी ॥ अस्य कथनस्य विवेचनात्पूर्वं अयं अभिगमनं अपेक्षितमस्ति यत् नक्षत्रशब्दस्य का व्युत्पत्तिः अस्ति। माश , ,, १८ कथनमस्ति - नाना ह वा एतान्यग्रे क्षत्राण्यासुः । यथैवासौ सूर्य एवं तेषामेष उद्यन्नेव वीर्यं क्षत्रमादत्त तस्मादादित्यो नाम यदेषां वीर्यं क्षत्रमादत्त। अयं संकेतमस्ति यत् यदा सूर्यस्य उदयः भवति, सः सर्वेषां नक्षत्राणां क्षत्रं आदत्ते। सः एकैव नक्षत्राणां नक्षत्रं भवति। यावत् सूर्यः क्षत्रं न गृह्णाति, तावत् नक्षत्राः नक्षत्राः न सन्ति।क्षत्रग्रहणस्य किं तात्पर्यमस्ति। क्षतात् त्रायते इति क्षत्रः। यः जीवतन्त्रः अस्ति, तत् स्वरक्षार्थं प्रतिक्षणं क्षत्रबलस्य अपेक्षा करोति। मृत्युः जीवनस्य सर्वाधिकभयावहः अस्ति। यदि केनापि प्रकारेण जीवः मृत्योः भयात् मुक्तः भवितुं शक्नोति, तदा क्षत्रबलस्य आवश्यकता न भविष्यति। जीवः स्वऊर्जायाः उपयोगं ब्रह्मप्राप्त्यर्थं कर्तुं शक्ष्यति। स ब्राह्मणं भविष्यति। अयं तदैव संभवमस्ति यदा अन्तःस्थितस्य सूर्यस्य उदयं भविष्यति। अलं, इतः परं कथनमस्ति यत् सूर्यः स्वयं नक्षत्राणां नक्षत्रः भवति। अयं केनप्रकारेण संभवमस्ति, न ज्ञातम्।

नक्षत्रस्य साधनं न नक्षत्रतः आरभ्यते। कथनानि सन्ति यत् पृथिव्योपरि ये दृश्याः दृश्यमानानि सन्ति, ते अश्लीलाः, चित्राणि सन्ति। तेभ्यः सुकृतस्य ग्रहणं भवति। तत् द्युलोकं गत्वा नक्षत्रं सृजते (नक्षत्राणि वै जनयो ये हि जनाः पुण्यकृतः स्वर्गं लोकं यन्ति तेषामेतानि ज्योती षि नक्षत्रैरेवैनामेतत्पचति । - माश ,,,)। अस्य कथनस्य अन्यः कथनं एवं प्रकारेण अस्ति यत् एकः पुण्डरीकपूर्णः ह्रदः अस्ति। तस्मात् साधुः पङ्कं त्यक्त्वा पुण्डरीकस्य ग्रहणं करोति। एते पुण्डरीकाः सुकृतरूपाणि सन्ति। (द्र. पुण्डरीकोपरि टिप्पणी )। अस्मिन् संदर्भे अयं कथनमपि विचारणीयः अस्ति - नक्षत्राणां वा अवकाशे पुण्डरीकं जायते, क्षत्रस्य वा एतद् रूपं, क्षत्रस्यैव रूपं प्रतिमुञ्चते, द्वादशपुण्डरीका भवन्ति, द्वादश मासाः संवत्सरः - मै , , । अपि च, यानि पुण्डरीकाणि तानि दिवो रूपं तानि नक्षत्राणां रूपं  । माश , , , १४

भगवद्गीतायाः यः कथनमस्ति यत् नक्षत्राणामहं शशी, तस्य एकं संभावतोत्तरं अनेन प्रकारेण अस्ति - सर्वोऽग्निः पृथिव्याम् । वायुरन्तरिक्षे । सूर्यो दिवि । चन्द्रमा दिक्षु । नक्षत्राणि स्वलोके, इति । -  तैआ ,२०, । अयं प्रतीयते यत् नक्षत्राः स्वःलोके स्थिताः सन्ति। चन्द्रमसः गतिः दिक्षु अस्ति। एवंप्रकारेण, एकान्तिकसाधनातः या प्राप्तिः भवति, चन्द्रमा तस्याः वितरणं सर्वजनकल्याणाय करोति। अन्यं कथनमस्ति - एतान्य् एव पञ्च ज्योतींषीद्धान्य् एषु लोकेषु दीप्यन्ते - ऽग्निः पृथिव्यां, वायुर् अन्तरिक्ष, आदित्यो दिवि, चन्द्रमा नक्षत्रेषु, विद्युद् अप्सु। अग्निर् एव रथन्तरस्य, वायुर् वामदेव्यस्य, आदित्यो बृहतश्, चन्द्रमा गायत्रस्य, विद्युद् यज्ञायज्ञीयस्य। आपो हि यज्ञायज्ञीयम्।-  जै २.४३३। अस्य कथनानुसारेण, यथा पृथिव्याः ज्योतिः अग्निः अस्ति, एवंप्रकारेणैव नक्षत्राणां ज्योतिः चन्द्रमा अस्ति। चन्द्रमसः यः शशाकृतिभागः अस्ति, तस्मिन् विषये लोके कथनमस्ति यत् अयं शशः पृथिव्याः सूक्ष्मांशः अस्ति। पद्मपुराणे ३.३.१६  कथनमस्ति यत्  - यथा हि पुरुषः पश्येदादर्शे मुखमात्मनः एवं सुदर्शनो द्वीपो दृश्यते चक्रमंडलः द्विरंशे पिप्पलस्तस्य द्विरंशे च शशो महान् ॥... यावान्भूम्यवकाशोयं दृश्यते शशलक्षणे तस्य प्रमाणं प्रब्रूहि ततो वक्ष्यसि पिप्पलम्॥ यः पिप्पलभागः अस्ति, तत् कार्य-कारणतः बद्धः अस्ति।

गोपथब्राह्मणे कथनमस्ति - दर्शपूर्णमासौ वै यज्ञस्यावसानदर्शौ ये वा अनिष्ट्वा दर्शपूर्णमासाभ्यां सोमेन यजन्ते तेषाम् एतानि ज्योतींषि यान्य् अमूनि नक्षत्राणि पतन्तीव - गो ,,। अन्यत्र कथनमस्ति यत् नक्षत्राः समित् रूपाः सन्ति, चन्द्रमा आहुतिरूपः। आहुत्या नक्षत्राणां पुष्टिः भवति। लक्ष्मीनारायणसंहितायां १.३११ एकः समित्पीयूष राजा अस्ति यस्य २७ पत्न्यः अधिकमासपूर्णिमायाः साधनातः कालान्तरे २७ नक्षत्राः भवन्ति।

 

संदर्भाः

१अथ यन्नक्षत्राणीत्याख्यायते तल्लोकम्पृणा (इष्टका)। माश १०, , ,

नक्षत्राणि ह त्वेवैषोऽग्निश्चितः तानि वा एतानि सप्तविंशतिर्नक्षत्राणि सप्तविंशतिः सप्तविंशतिर्होपनक्षत्राण्येकैकं नक्षत्रमनूपतिष्ठन्ते तानि सप्त च शतानि विंशतिश्चाधि षट्त्रिंशत् – माश १०, , ,

अभ्रं पुरीषम् चन्द्रमा आहुतयो नक्षत्राणि समिधो यच्चन्द्रमा नक्षत्रे वसत्याहुतिस्तत्समिधि वसत्येतदु वा आहुतेरन्नमेषा प्रतिष्ठा तस्मादाहुतिर्न क्षीयत - माश १०, , , १७

२. अमूनि नक्षत्राणि सर्वेषां भूतानां प्राणैरप प्रसर्पन्ति चोत्सर्पन्ति च । तैआ ,१४,

३. इन्द्रो वै वृत्रमह स्तस्येमे (द्यावापृथिव्यौ) रूपाण्युपैतां चित्राणीयं (पृथिवी ), नक्षत्राण्यसौ ( द्यौः)। मै , ,

नक्षत्राणां वा अवकाशे पुण्डरीकं जायते, क्षत्रस्य वा एतद् रूपं, क्षत्रस्यैव रूपं प्रतिमुञ्चते, द्वादशपुण्डरीका भवन्ति, द्वादश मासाः संवत्सरः - मै , ,

४. कृत्तिकास्वग्नी आदधीत । ...एकं द्वे त्रीणि चत्वारीति वाऽ न्यानि नक्षत्राण्यथैता एव भूयिष्ठा यत्कृत्तिकाः। एता ह वै प्राच्यै दिशो न च्यवन्ते । - माश ,, ,

५. स वशम् एव दिव आदत्त, क्षत्रं नक्षत्राणाम्, .... सङ्गमं पितॄणां, भां चन्द्रमसः।  (आदित्य आदत्त ) । जै ,२६

६. अयम् एव लोकः प्रायणीयो ऽतिरात्रः। तस्य यच् छुक्लं तद् अह्नो रूपं, यत् कृष्णं तद् रात्रेश्, चित्राण्य् एव नक्षत्राणाम्। जै , ४२९

७. दशमम् अहः -- ते वाचम् यमा आसत आ नक्षत्राणाम् दर्शनात् ।  ....दृश्यमानेषु नक्षत्रेष्व् अदीक्षितो बहिस् तिष्ठन्न् आह दीक्षिता वेद इति ।  ... ते यथा प्रपन्नम् उपनिष्क्रम्य मार्जालीयन्य् अन्तेन नक्षत्रेषु चक्षुर् विसृजन्ते तच् चक्षुर् देव हितम् शुक्रम् उच्चरद् इति(ऋ. ७.६६.१६) । ज्योतिर् वै नक्षत्राणि । ज्योतिर् एव तद् आत्मन् दधते । । कौ २७,

८. दर्शपूर्णमासौ वै यज्ञस्यावसानदर्शौ ये वा अनिष्ट्वा दर्शपूर्णमासाभ्यां सोमेन यजन्ते तेषाम् एतानि ज्योतींषि यान्य् अमूनि नक्षत्राणि पतन्तीव - गो ,,

९. विश्वेदेवाः सत्रमासत सोमेन राज्ञा गृहपतिना तेऽब्रुवन्त्सोम एव नो राजा सर्व्वत्र विभवेदिति तस्मात्सोमो राजा सर्व्वाणि नक्षत्राण्युपैति सोमो हि रेतोधाः॥ । ष ४.६.२

१०. यानि पुण्डरीकाणि तानि दिवो रूपं तानि नक्षत्राणां रूपं  । माश , , , १४

११. नक्षत्राणि ह त्वेवैषोऽग्निश्चितः तानि वा एतानि सप्तविंशतिर्नक्षत्राणि सप्तविंशतिः सप्तविंशतिर्होपनक्षत्राण्येकैकं नक्षत्रमनूपतिष्ठन्ते तानि सप्त च शतानि विंशतिश्चाधि षट्त्रिंशत्। माश १०, , ,

१२. नाना ह वा एतान्यग्रे क्षत्राण्यासुः । यथैवासौ सूर्य एवं तेषामेष उद्यन्नेव वीर्यं क्षत्रमादत्त तस्मादादित्यो नाम यदेषां वीर्यं क्षत्रमादत्त .....ते ह देवा ऊचुः । यानि वै तानि क्षत्राण्यभूवन्न वै तानि क्षत्राण्यभूवन्निति । तद्वै नक्षत्राणां नक्षत्रत्वम् । माश ,,,१९ (तु. तै २,,१८,३)।

१३. धानाभिर्जुहोति अहोरात्राणां वा एतद्रूपं यद्धानाः। ....लाजैर्जुहोति नक्षत्राणां वा एतद्रूपं यल्लाजाः। माश १३, ,,

१४. उदञ्चो (अवभृथं) ऽभ्यवेयुर्न्नक्षत्राणाँ वा एषा दिग्यदुदीची या नक्षत्राणां दिक्तां नोऽनु यज्ञः सन्तिष्ठाता इति ॥ ३.४.२९    

१५. चन्द्रमसस् तृतीया नक्षत्राणां चतुर्थी सवितुः पञ्चमी - तैसं , , २२, ;

दीक्षा - विश्वेषां देवानामोतवश्च तन्तवश्च नक्षत्राणामतीरोकास्सर्वदेवत्यं वासः - काठ २३,

न्द्रमसस्तृतीया नक्षत्राणां चतुर्थी सवितुः पञ्चमी - काठ ५३, १२

१६. क्षत्राणि रूपैः, पृथिवीं त्वचा  । मै , १५, ;

दिवं रूपेण नक्षत्राणि प्रतिरूपेण पृथिवीं चर्मणा - काठ ५३, १०।  

१७. उषा वा अश्वस्य मेध्यस्य शिरः.... चन्द्रमाः श्रोत्रम् ।....नक्षत्राणि रूपम् । तैसं , , २५, ;

 ह्रीश्च ते लक्ष्मीश्च पत्न्यौ । अहोरात्रे पार्श्वे । नक्षत्राणि रूपम् । अश्विनौ व्यात्तम्।  - तैआ ,१३,

१८, नक्षत्राणि वै जनयो ये हि जनाः पुण्यकृतः स्वर्गं लोकं यन्ति तेषामेतानि ज्योती षि नक्षत्रैरेवैनामेतत्पचति । माश ,,,

१९. नक्षत्राणि वै रोचना दिवि । तै ३,,, २।

२०. चन्द्रमा अस्यादित्ये श्रितः । नक्षत्राणां प्रतिष्ठा ।....नक्षत्राणि स्थ चन्द्रमसि श्रितानि । संवत्सरस्य प्रतिष्ठा ।....संवत्सरोऽसि नक्षत्रेषु श्रितः । ऋतूनां प्रतिष्ठा । तै ३.११.१, १३

२१. आदित्यः सर्वोऽग्निः पृथिव्याम् । वायुरन्तरिक्षे । सूर्यो दिवि । चन्द्रमा दिक्षु । नक्षत्राणि स्वलोके, इति । तैआ ,२०,

२२. प्रजापतिर्वै सोमाय राज्ञे दुहितॄरददान् नक्षत्राणि, स रोहिण्यामेवावसन् नेतरासु, ता अनुपेयमानाः पुनरगच्छन् , तं राजयक्ष्मेणाग्राहयत्, स निरस्रवत्। मै ,,; काठ ११,३।

२३. ब्राह्मणो वा अष्टाविँशो नक्षत्राणाम् । समानस्याह्नः पञ्च पुण्यानि नक्षत्राणि । चत्वार्यश्लीलानि । तानि नव । यच्च परस्तान्नक्षत्राणां यच्चावस्तात् । तान्येकादश । ब्राह्मणो द्वादशः । तै ,,,

२४. भाकुरयो ह नामैते भा  हि नक्षत्राणि कुर्वन्ति । माश ९,,,९ ।

२५. यत् पुण्यं नक्षत्रं तद्वषटकुर्वीतोपव्युषं यदा वै सूर्य उदेति । अथ नक्षत्रं नैति । यावति तत्र सूर्यो गच्छेत् । यत्र जघन्यं पश्येत् । तावति कुर्वीत। यत्कारी स्यात् । पुण्याह एव कुरुते । तै ,,,

२६. नाना ह वा एतान्यग्रे क्षत्राण्यासुः । यथैवासौ सूर्य एवं तेषामेष उद्यन्नेव वीर्यं क्षत्रमादत्त तस्मादादित्यो नाम यदेषां वीर्यं क्षत्रमादत्त - माश , ,, १८

तस्मादु सूर्यनक्षत्र एव स्यादेष ह्येषां वीर्यं क्षत्रमादत्त यद्यु नक्षत्रकामः स्यादेतद्वा अनपराद्धं नक्षत्रं यत्सूर्यः- माश २.१.२.१९

27. यानि वा पृथिव्याश्चित्राणि तानि नक्षत्राणि । तस्मादश्लीलनामँ श्चित्रे । नावस्येन्न यजेत । तै ,,,

२८. यावन्त्येतानि नक्षत्राणि तावन्तो लोमगर्ता यावन्तो लोमगर्तास्तावन्तः सहस्रसंवत्सरस्य मुहूर्ताः । माश १०, ,,२ ।

२९. यो वा इह यजते । अमु स लोकं नक्षते। तन्नक्षत्राणां नक्षत्रत्वम् । तै ,,,

३०. यो वै बहु ददिवान् बह्वीजानोऽग्निमुत्सादयतेऽक्षित्तद् वै तस्य, तदीजाना वै सुकृतोऽमुं लोकं नक्षन्ति ते वा एते यन्नक्षत्राणि । मै ,,

३१. संवत्सरस्य (नक्षत्राणि) प्रतिष्ठा । तै ३, ११,, १३ ।

३२. संवत्सरोऽसि नक्षत्रेषु श्रितः । ऋतूनां प्रतिष्ठा । तै ३,११,,१४ ।

३३. तद् आहुर् यत् सप्तर्चं सप्तमस्याह्नो रूपम् अथ कस्मात् पञ्चमे ऽहन् क्रियत इति। स ब्रूयात् सप्तपदा वै शक्वर्यास्, सप्त ग्राम्याः पशवस्, सप्त चतुरुत्तराणि छन्दांसि, सप्त मुख्याः प्राणास्, सप्तविंशतिर् दिव्यानि नक्षत्राणि, सप्तविंशम् एतद् अहर्, एतस्यैव सर्वस्यावरुद्ध्या एतस्योपाप्त्या इति। जै , ८६ ( तु. तां २३, २३, ; शांआ २.१६०)

३४. नक्षत्रेष्टका उप दधाति । एतानि वै दिवो ज्योतीषि तान्य् एवाव रुन्द्धे सुकृतां वा एतानि ज्योतीषि यन् नक्षत्राणि तान्य् एवाप्नोति । अथो अनूकाशम् एवैतानि
ज्योतीषि कुरुते सुवर्गस्य लोकस्यानुख्यात्यै । तैसं ,,,

नक्षत्राणि वा अपामायतनम् ।आपो वै नक्षत्राणामायतनम् । तैआ १.२२.५;

अस्रीवि-२ – मै १.११.१०,

सोमश्चतुरक्षरयास्रीवीर्नक्षत्राणि (उदजयत्) - काठ १४.४;

दिवम् एव तृतीयस्य तृचस्य प्रथमया स्तोत्रियया जयत्य् आदित्यं द्वितीयया नक्षत्राणि तृतीयया। नवैता बहिष्पवमान्यो भवन्ति नव देवलोकाः– जै १.२४५,

न्द्रमसा नक्षत्राणि (अन्वाभवन्)- काठ ३५.१५, ४३.४

अभ्यातानाः -- यमः पृथिव्या वायुर् अन्तरिक्षस्य सूर्यो दिवश् चन्द्रमा नक्षत्राणाम् (अधिपतिः) – तैसं ३.४.५.१,

चत्वार्य् उ ह वै देवानाम् आविष्टमानाव् अतिज्योतींष्य् - अग्निः पृथिव्याम्, आदित्यो दिवि, चन्द्रमा नक्षत्रेषु, विद्युद् अप्सु। – जै २.३३३,

एतान्य् एव पञ्च ज्योतींषीद्धान्य् एषु लोकेषु दीप्यन्ते - ऽग्निः पृथिव्यां, वायुर् अन्तरिक्ष, आदित्यो दिवि, चन्द्रमा नक्षत्रेषु, विद्युद् अप्सु। अग्निर् एव रथन्तरस्य, वायुर् वामदेव्यस्य, आदित्यो बृहतश्, चन्द्रमा गायत्रस्य, विद्युद् यज्ञायज्ञीयस्य। आपो हि यज्ञायज्ञीयम्। जै २.४३३ (तु. जै १.२९२),

यथा सूर्यो दिवा चन्द्रमसे समनमन् नक्षत्रेभ्यः समनमत् । यथा चन्द्रमा नक्षत्रैः वरुणाय समनमद् अद्भ्यः समनमत् । – तैसं ७.५.२३.१,

प्रजापतिर्वै सोमाय राज्ञे दुहितॄरददान्नक्षत्राणि स रोहिण्यामेवावसत् .... तं वैश्वदेवेन चरुणामावस्यां रात्रीमयाजयत् तेनैनं यक्ष्मादमुञ्चत्  - काठ ११.३

यत्पञ्चमे हन्प्रवृज्यते । चन्द्रमा भूत्वा नक्षत्राण्येति- तैआ ५.१२.१,

राष्ट्रभृन्मन्त्राः - आयुवः सुषुम्नः सूर्यरश्मिश् चन्द्रमा गन्धर्वस् तस्य नक्षत्राण्य् अप्सरसो बेकुरयः ।- तैसं ३.४.७.१, मै २.१२.२, क २९.३;

जनि-२ – मै ३.१.८;

माश ६.५.४.८

ज्योतिस् १४ – तैआ ९.१०.३,

यश इति पशुषु । ज्योतिरिति नक्षत्रेषु । प्रजातिरमृतमानन्द इत्युपस्थे । - तैउ ३.१०.३;

इयं वाव प्रथमा चितिर् ओषधयो वनस्पतयः पुरीषम् अन्तरिक्षं द्वितीया वया सि पुरीषम् असौ तृतीया नक्षत्राणि पुरीषम् – तैसं ५.६.१०.२,

इयं वाव प्रथमा चितिरोषधयः पुरीषमन्तरिक्षं द्वितीया वयाँसि पुरीषं द्यौस्तृतीया नक्षत्राणि पुरीषं  – काठ २२.४

 विशसनाभिधानम् -  पृथिवी ते ऽन्तरिक्षेण वायुश् छिद्रम् भिषज्यतु । द्यौस् ते नक्षत्रैः सह रूपं कृणोतु साधुया ॥ – तैसं ५.२.१२.३,

१४५ – काश १.१.४.२५;

 यानि वा इमानि पृथिव्याश्चित्राणि । तानि नक्षत्राणि । तस्मादश्लीलनाम श्चित्रे । नावस्येन्न यजेत ।- तै १.५.२.६;

अश्वमेधे प्रथममहः  धानाभिर्जुहोति । नक्षत्राणां वा एतद्रूपम् । यद्धानाः । यद्धानाभिर्जुहोति । नक्षत्राण्येव तत्प्रीणाति । तै ३.८.१४.५।।

ते अब्रूतां द्यावापृथिवी मा प्र हार् आवयोर् वै श्रित इति ते अब्रूताम् । वरं वृणावहै नक्षत्रविहिताऽहम् असानीत्य् असाव् अब्रवीच् चित्रविहिताऽहम् इतीयम् । तस्मान् नक्षत्रविहिताऽसौ चित्रविहिते ऽयम् । य एवं द्यावापृथिव्योः वरं वेदैनं वरो गच्छति स आभ्याम् – तैसं २.५.२.५