|
पुराण विषय अनुक्रमणिका PURAANIC SUBJECT INDEX (From Dvesha to Narmadaa ) Radha Gupta, Suman Agarwal & Vipin Kumar
|
|
|
धेनु भगवद्गीतायां १०.२८ कथनमस्ति – धेनूनामस्मि कामधुक्। प्रथमतः, धेनुः/धेनवः किं भवति। ऋग्वेदे १.१२०.०९ कथनमस्ति – इषे च नो मिमीतं धेनुमत्यै। या प्रकृतिः अस्ति, तस्याः कालानुसारेण प्रवाहः लक्ष्यरहितः अस्ति। इषधातोः एकमर्थं इच्छा, अभीप्सा अपि अस्ति। या अनन्ता अभीप्सा अस्ति, तस्मात् सीमितायाः अभीप्सायाः चयनं धेनुशब्देन व्यक्तं भवति। ऋ. ३.०५७.०१(प्र मे विविक्वाँ अविदन्मनीषां धेनुं चरन्तीं प्रयुतामगोपाम्।) अनुसारेण मनीषा धेनुः अस्ति यां विवेकवान् एव ज्ञातुं समर्थः भवति। धेनुः अर्थात् प्रकृत्याः यः प्रवाहः ऋणात्मकः अस्ति, तस्य धनात्मकेन रूपान्तरणम्। वैदिकवाङ्मये धेनुः एवं वत्सस्य किमभिप्रायमस्ति, अस्य विवेचनं वत्सोपरि टिप्पण्यां उपलब्धमस्ति। स्कन्दपुराणे ३.२.६.६(ऋक्पृष्ठासौ यजुःसंध्या सामकुक्षिपयोधरा । इष्टापूर्तविषाणा च साधुसूक्ततनूरुहा ।।) एका गौः अस्ति यस्याः अङ्गानि यज्ञस्य विभिन्नेभिः कृत्येभिः निर्मिताः सन्ति। तस्याः वत्सः स्वरः अस्ति, इति कथनमस्ति। अयं संकेतमस्ति यत् यावत् व्य़ञ्जनानां स्थितिः अस्ति, स्थौल्यं अस्ति, तावत् सा गौः अस्ति। यदा व्यञ्जनेभ्यः स्वराणां आविर्भावः भविष्यति, तदा वत्सस्य जन्मः भविष्यति। काठ.सं. ३४.१ अनुसारेण गोः आविर्भावः द्वादशाहसंज्ञकस्य यज्ञस्य सप्तमे अहनि भवति एवं वत्सस्य आविर्भावं अष्टमे अहनि। एतयोः अह्नयोः संज्ञा छन्दोमौ अस्ति। अयं रसस्य स्थितिः अस्ति। यथा नवरात्रस्य टिप्पण्यां विवेचितमस्ति, सप्तम्यां तिथौ स्वस्तिकस्य दानं अपेक्षितमस्ति, अष्टम्यां अष्टदलकमलस्य। सप्तम्याः तिथेः देवी कालरात्रिः अस्ति यः दुर्गासुरस्य वधं करोति। अष्टम्याः देवी गौरी अस्ति यस्याः कालीतः गौरीरूपेण रूपान्तरणं भवति। अयं ब्रह्मानन्दस्य स्थितिः अस्ति। भागवतपुराणे सप्तमे स्कन्धे हिरण्यकशिपुतः प्रह्लादवत्सस्य जन्म भवति। अष्टमे स्कन्धे समुद्रमन्थनं भवति यत्र रत्नानां प्रादुर्भावः भवति।
ऋ. २.००२.०२ उपमानमस्ति यत् यथा धेनवः वत्सं प्रति धावन्ति, एवमेव नक्तोषासा अग्निं प्रति धावति। ऋ. ४.०२४.१० (क इमं दशभिर्ममेन्द्रं क्रीणाति धेनुभिः। यदा वृत्राणि जङ्घनदथैनं मे पुनर्ददत्॥) कथनमस्ति – कः अस्ति यः मम दशभिः धेनुभिः इन्द्रं क्रीणाति। एवं यदा इन्द्रः वृत्राणां वधं करोति, तदनन्तरं मम धेनवः पुनर्ददाति (सोमयागे गौर्मूल्येन शूद्रतः अपरिष्कृतस्य सोमस्य क्रीणनं कुर्वन्ति)। एतानि दश धेनवः कानि सन्ति, अस्पष्टमेव अस्ति। पुराणेषु आज्य,गुड, जलादि दश धेनूनां दानं प्रसिद्धमस्ति। ऋ. ४.०३३.०८ (रथं ये चक्रुः सुवृतं नरेष्ठां ये धेनुं विश्वजुवं विश्वरूपाम्।) उल्लेखमस्ति यत् ऋभवः विश्वरूपाधेनोः सृजनं कर्तुं समर्थाः सन्ति(पुराणेषु त्वष्टा-पुत्रस्य विश्वरूपस्य त्रयः शीर्षाः सन्ति। एकेन शीर्ष्णा सः सोमपानं करोति, द्वितीयेन अन्नेन अशनातृप्तिः, तृतीयेन सुरापानम्।)। शौअ. ९.५.१० (पञ्चौदनो ब्रह्मणे दीयमानो विश्वरूपा धेनुः कामदुघास्येका ॥) सूक्तं अजपञ्चौदनदेवतायाः अस्ति। अत्र उल्लेखमस्ति यत् या विश्वरूपा धेनुः अस्ति, तस्याः रूपान्तरणं कामदुघा रूपे भवितुं शक्यते। शौअ ९.५.२५ (पञ्च रुक्मा पञ्च नवानि वस्त्रा पञ्चास्मै धेनवः कामदुघा भवन्ति ।) कथनमस्ति यत् पञ्च धेनवः कामदुघा भवन्ति। शौअ ४.३४.८ (स मे मा क्षेष्ट स्वधया पिन्वमानो विश्वरूपा धेनुः कामदुघा मे अस्तु ॥) सूक्तं ब्रह्मौदनदेवताकस्य अस्ति। अत्रापि विश्वरूपाधेनोः रूपान्तरणं कामधेनुरूपे कर्तुं निर्देशः अस्ति। वैदिकवाङ्मये एकः ब्रह्मौदनमस्ति, अन्यः प्रवर्ग्यः। डा. फतहसिंह अनुसारेण ओदनः उदानप्राणस्य प्रतीकमस्ति। ब्रह्मौदनः ऊर्जायाः ऊर्ध्वमुखी विकासः प्रतीयते, प्रवर्ग्यः दैशिकं। शौअ ४.३९.८ (पृथिवी धेनुस्तस्या अग्निर्वत्सः । सा मेऽग्निना वत्सेनेषमूर्जं कामं दुहाम् । आयुः प्रथमं प्रजां पोषं रयिं स्वाहा ॥२॥ अन्तरिक्षे वायवे समनमन्त्स आर्ध्नोत्। यथान्तरिक्षे वायवे समनमन्न् एवा मह्यं संनमः सं नमन्तु ॥३॥ अन्तरिक्षं धेनुस्तस्या वायुर्वत्सः । सा मे वायुना वत्सेनेषमूर्जं कामं दुहाम् । आयुः प्रथमं प्रजां पोषं रयिं स्वाहा ॥४॥ दिव्यादित्याय समनमन्त्स आर्ध्नोत्। यथा दिव्यादित्याय समनमन्न् एवा मह्यं संनमः सं नमन्तु ॥५॥ द्यौर्धेनुस्तस्या आदित्यो वत्सः । सा म आदित्येन वत्सेनेषमूर्जं कामं दुहाम् । आयुः प्रथमं प्रजां पोषं रयिं स्वाहा ॥६॥ दिक्षु चन्द्राय समनमन्त्स आर्ध्नोत्। यथा दिक्षु चन्द्राय समनमन्न् एवा मह्यं संनमः सं नमन्तु ॥७॥ दिशो धेनवस्तासां चन्द्रो वत्सः । ता मे चन्द्रेण वत्सेनेषमूर्जं कामं दुहामायुः प्रथमं प्रजां पोषं रयिं स्वाहा ॥) धेनूनां विकासं ऊर्ध्वदिशायां एवं चतुर्दिक्षु केन प्रकारेण भवति, अस्याः कथनमस्ति। वा.रामायणे १.५२ विश्वामित्रेण वसिष्ठस्य कामदुघाधेनोः हरणस्य आख्यानमस्ति। अन्यत्र (गणेश १.७७.५१, ब्रह्मवैवर्त ३.२४.४०, ब्रह्माण्ड २.३.२६.५४, स्कन्द ६.६६.३८ ) सहस्रार्जुनेन जमदग्नेः कामधेनोः हरणस्य आख्यानाः सन्ति। यथा सर्वविदितमस्ति, वसिष्ठस्य साधना ऊर्ध्वमुखी अस्ति, विश्वामित्रस्य चतुर्दिक्षु। शौअ अनुसारेण या चतुर्दिक्षु साधना अस्ति, तत्र धेनोः वत्सः चन्द्रः अस्ति।
संदर्भाः अहन्नहिं पर्वते शिश्रियाणं त्वष्टास्मै वज्रं स्वर्यं ततक्ष। वाश्रा इव धेनवः स्यन्दमाना अञ्जः समुद्रमव जग्मुरापः॥ १.०३२.०२ नीचावया अभवद्वृत्रपुत्रेन्द्रो अस्या अव वधर्जभार। उत्तरा सूरधरः पुत्र आसीद्दानुः शये सहवत्सा न धेनुः॥ १.०३२.०९ तक्वा न भूर्णिर्वना सिषक्ति पयो न धेनुः शुचिर्विभावा॥ १.०६६.०२ ऋतस्य हि धेनवो वावशानाः स्मदूध्नीः पीपयन्त द्युभक्ताः। परावतः सुमतिं भिक्षमाणा वि सिन्धवः समया सस्रुरद्रिम्॥ १.०७३.०६ ता अस्य पृशनायुवः सोमं श्रीणन्ति पृश्नयः। प्रिया इन्द्रस्य धेनवो वज्रं हिन्वन्ति सायकं वस्वीरनु स्वराज्यम्॥ १.०८४.११ सोमो धेनुं सोमो अर्वन्तमाशुं सोमो वीरं कर्मण्यं ददाति। सादन्यं विदथ्यं सभेयं पितृश्रवणं यो ददाशदस्मै॥ १.०९१.२० अधेनुं दस्रा स्तर्यं विषक्तामपिन्वतं शयवे अश्विना गाम्। युवं शचीभिर्विमदाय जायां न्यूहथुः पुरुमित्रस्य योषाम्॥ १.११७.२० युवं धेनुं शयवे नाधितायापिन्वतमश्विना पूर्व्याय। अमुञ्चतं वर्तिकामंहसो निः प्रति जङ्घां विश्पलाया अधत्तम्॥ १.११८.०८ मा कस्मै धातमभ्यमित्रिणे नो माकुत्रा नो गृहेभ्यो धेनवो गुः। स्तनाभुजो अशिश्वीः॥ १.१२०.०८ दुहीयन्मित्रधितये युवाकु राये च नो मिमीतं वाजवत्यै। इषे च नो मिमीतं धेनुमत्यै॥ १.१२०.०९ उप क्षरन्ति सिन्धवो मयोभुव ईजानं च यक्ष्यमाणं च धेनवः। पृणन्तं च पपुरिं च श्रवस्यवो घृतस्य धारा उप यन्ति विश्वतः॥ १.१२५.०४ तुभ्यं धेनुः सबर्दुघा विश्वा वसूनि दोहते। अजनयो मरुतो वक्षणाभ्यो दिव आ वक्षणाभ्यः॥ (दे.वायुः) १.१३४.०४ उतो विहुत्मतीनां विशां ववर्जुषीणाम्। विश्वा इत्ते धेनवो दुह्र आशिरं घृतं दुह्रत आशिरम्॥ १.१३४.०६ साकं गावः सुवते पच्यते यवो न ते वाय उप दस्यन्ति धेनवो नाप दस्यन्ति धेनवः॥ १.१३५.०८ तां वां धेनुं न वासरीमंशुं दुहन्त्यद्रिभिः सोमं दुहन्त्यद्रिभिः। अस्मत्रा गन्तमुप नोऽर्वाञ्चा सोमपीतये। अयं वां मित्रावरुणा नृभिः सुतः सोम आ पीतये सुतः॥ १.१३७.०३ यद्ध त्यामङ्गिरोभ्यो धेनुं देवा अदत्तन। वि तां दुह्रे अर्यमा कर्तरी सचाँ एष तां वेद मे सचा॥ १.१३९.०७ आ धेनवो मामतेयमवन्तीर्ब्रह्मप्रियं पीपयन्सस्मिन्नूधन्। पित्वो भिक्षेत वयुनानि विद्वानासाविवासन्नदितिमुरुष्येत्॥ १.१५२.०६ पीपाय धेनुरदितिर्ऋताय जनाय मित्रावरुणा हविर्दे। हिनोति यद्वां विदथे सपर्यन्स रातहव्यो मानुषो न होता॥ १.१५३.०३ स वह्निः पुत्रः पित्रोः पवित्रवान्पुनाति धीरो भुवनानि मायया। धेनुं च पृश्निं वृषभं सुरेतसं विश्वाहा शुक्रं पयो अस्य दुक्षत॥ १.१६०.०३ अग्निं दूतं प्रति यदब्रवीतनाश्वः कर्त्वो रथ उतेह कर्त्वः। धेनुः कर्त्वा युवशा कर्त्वा द्वा तानि भ्रातरनु वः कृत्व्येमसि॥ १.१६१.०३ उप ह्वये सुदुघां धेनुमेतां सुहस्तो गोधुगुत दोहदेनाम्। श्रेष्ठं सवं सविता साविषन्नोऽभीद्धो घर्मस्तदु षु प्र वोचम्॥ १.१६४.२६ गायत्साम नभन्यं यथा वेरर्चाम तद्वावृधानं स्वर्वत्। गावो धेनवो बर्हिष्यदब्धा आ यत्सद्मानं दिव्यं विवासान्॥ १.१७३.०१ उप व एषे नमसा जिगीषोषासानक्ता सुदुघेव धेनुः। समाने अहन्विमिमानो अर्कं विषुरूपे पयसि सस्मिन्नूधन्॥ १.१८६.०४ अभि त्वा नक्तीरुषसो ववाशिरेऽग्ने वत्सं न स्वसरेषु धेनवः। दिव इवेदरतिर्मानुषा युगा क्षपो भासि पुरुवार संयतः॥ २.००२.०२ एवा नो अग्ने अमृतेषु पूर्व्य धीष्पीपाय बृहद्दिवेषु मानुषा। दुहाना धेनुर्वृजनेषु कारवे त्मना शतिनं पुरुरूपमिषणि॥ २.००२.०९ ता अस्य वर्णमायुवो नेष्टुः सचन्त धेनवः। कुवित्तिसृभ्य आ वरं स्वसारो या इदं ययुः॥ २.००५.०५ पुरा सम्बाधादभ्या ववृत्स्व नो धेनुर्न वत्सं यवसस्य पिप्युषी। सकृत्सु ते सुमतिभिः शतक्रतो सं पत्नीभिर्न वृषणो नसीमहि॥ २.०१६.०८ अहेळता मनसा श्रुष्टिमा वह दुहानां धेनुं पिप्युषीमसश्चतम्। पद्याभिराशुं वचसा च वाजिनं त्वां हिनोमि पुरुहूत विश्वहा॥ २.०३२.०३ आ नो ब्रह्माणि मरुतः समन्यवो नरां न शंसः सवनानि गन्तन। अश्वामिव पिप्यत धेनुमूधनि कर्ता धियं जरित्रे वाजपेशसम्॥ २.०३४.०६ यद्युञ्जते मरुतो रुक्मवक्षसोऽश्वान्रथेषु भग आ सुदानवः। धेनुर्न शिश्वे स्वसरेषु पिन्वते जनाय रातहविषे महीमिषम्॥ २.०३४.०८ स्व आ दमे सुदुघा यस्य धेनुः स्वधां पीपाय सुभ्वन्नमत्ति। सो अपां नपादूर्जयन्नप्स्वन्तर्वसुदेयाय विधते वि भाति॥ २.०३५.०७ स्तीर्णा अस्य संहतो विश्वरूपा घृतस्य योनौ स्रवथे मधूनाम्। अस्थुरत्र धेनवः पिन्वमाना मही दस्मस्य मातरा समीची॥ ३.००१.०७ दिवक्षसो धेनवो वृष्णो अश्वा देवीरा तस्थौ मधुमद्वहन्तीः। ऋतस्य त्वा सदसि क्षेमयन्तं पर्येका चरति वर्तनिं गौः॥ ३.००७.०२ गम्भीराँ उदधीँरिव क्रतुं पुष्यसि गा इव। प्र सुगोपा यवसं धेनवो यथा ह्रदं कुल्या इवाशत॥ ३.०४५.०३ अन्यस्या वत्सं रिहती मिमाय कया भुवा नि दधे धेनुरूधः। ऋतस्य सा पयसापिन्वतेळा महद्देवानामसुरत्वमेकम्॥ ३.०५५.१३ आ धेनवो धुनयन्तामशिश्वीः सबर्दुघाः शशया अप्रदुग्धाः। नव्यानव्या युवतयो भवन्तीर्महद्देवानामसुरत्वमेकम्॥ ३.०५५.१६ प्र मे विविक्वाँ अविदन्मनीषां धेनुं चरन्तीं प्रयुतामगोपाम्। सद्यश्चिद्या दुदुहे भूरि धासेरिन्द्रस्तदग्निः पनितारो अस्याः॥ ३.०५७.०१ या जामयो वृष्ण इच्छन्ति शक्तिं नमस्यन्तीर्जानते गर्भमस्मिन्। अच्छा पुत्रं धेनवो वावशाना महश्चरन्ति बिभ्रतं वपूंषि॥ ३.०५७.०३ धेनुः प्रत्नस्य काम्यं दुहानान्तः पुत्रश्चरति दक्षिणायाः। आ द्योतनिं वहति शुभ्रयामोषसः स्तोमो अश्विनावजीगः॥ ३.०५८.०१ धेनुः प्रीणयित्र्युषाः ता तू ते सत्या तुविनृम्ण विश्वा प्र धेनवः सिस्रते वृष्ण ऊध्नः। अधा ह त्वद्वृषमणो भियानाः प्र सिन्धवो जवसा चक्रमन्त॥ ४.०२२.०६ क इमं दशभिर्ममेन्द्रं क्रीणाति धेनुभिः। यदा वृत्राणि जङ्घनदथैनं मे पुनर्ददत्॥ ४.०२४.१० प्र ऋभुभ्यो दूतमिव वाचमिष्य उपस्तिरे श्वैतरीं धेनुमीळे। ये वातजूतास्तरणिभिरेवैः परि द्यां सद्यो अपसो बभूवुः॥ ४.०३३.०१ रथं ये चक्रुः सुवृतं नरेष्ठां ये धेनुं विश्वजुवं विश्वरूपाम्। त आ तक्षन्त्वृभवो रयिं नः स्ववसः स्वपसः सुहस्ताः॥ ४.०३३.०८ ये अश्विना ये पितरा य ऊती धेनुं ततक्षुर्ऋभवो ये अश्वा। ये अंसत्रा य ऋधग्रोदसी ये विभ्वो नरः स्वपत्यानि चक्रुः॥ ४.०३४.०९ राया वयं ससवांसो मदेम हव्येन देवा यवसेन गावः। तां धेनुमिन्द्रावरुणा युवं नो विश्वाहा धत्तमनपस्फुरन्तीम्॥ ४.०४२.१० धेनुं प्रीणयित्रीं रयिं क्षेत्रस्य पते मधुमन्तमूर्मिं धेनुरिव पयो अस्मासु धुक्ष्व। मधुश्चुतं घृतमिव सुपूतमृतस्य नः पतयो मृळयन्तु॥ ४.०५७.०२ अबोध्यग्निः समिधा जनानां प्रति धेनुमिवायतीमुषासम्। यह्वा इव प्र वयामुज्जिहानाः प्र भानवः सिस्रते नाकमच्छ॥ ५.००१.०१ अग्निं तं मन्ये यो वसुरस्तं यं यन्ति धेनवः। अस्तमर्वन्त आशवोऽस्तं नित्यासो वाजिन इषं स्तोतृभ्य आ भर॥ ५.००६.०१ सो अग्निर्यो वसुर्गृणे सं यमायन्ति धेनवः। समर्वन्तो रघुद्रुवः सं सुजातासः सूरय इषं स्तोतृभ्य आ भर॥ ५.००६.०२ आ धेनवः पयसा तूर्ण्यर्था अमर्धन्तीरुप नो यन्तु मध्वा। महो राये बृहतीः सप्त विप्रो मयोभुवो जरिता जोहवीति॥ ५.०४३.०१ धेनवः प्रीणयित्र्यो नद्यः उदीरयथा मरुतः समुद्रतो यूयं वृष्टिं वर्षयथा पुरीषिणः। न वो दस्रा उप दस्यन्ति धेनवः शुभं यातामनु रथा अवृत्सत॥ ५.०५५.०५ धेनवः प्रीणयितारो मेघाः “न “उप "दस्यन्ति न शुष्यन्ति इरावतीर्वरुण धेनवो वां मधुमद्वां सिन्धवो मित्र दुह्रे। त्रयस्तस्थुर्वृषभासस्तिसॄणां धिषणानां रेतोधा वि द्युमन्तः॥ ५.०६९.०२ स गोमघा जरित्रे अश्वश्चन्द्रा वाजश्रवसो अधि धेहि पृक्षः। पीपिहीषः सुदुघामिन्द्र धेनुं भरद्वाजेषु सुरुचो रुरुच्याः॥ ६.०३५.०४
तमा नूनं वृजनमन्यथा चिच्छूरो यच्छक्र वि दुरो गृणीषे । इमा उ त्वा सुतेसुते नक्षन्ते गिर्वणो गिरः। वत्सं गावो न धेनवः॥ ६.०४५.२८ आ सखायः सबर्दुघां धेनुमजध्वमुप नव्यसा वचः। सृजध्वमनपस्फुराम्॥ ६.०४८.११ भरद्वाजायाव धुक्षत द्विता। धेनुं च विश्वदोहसमिषं च विश्वभोजसम्॥ ६.०४८.१३ पुरु हि वां पुरुभुजा देष्णं धेनुं न इषं पिन्वतमसक्राम्। स्तुतश्च वां माध्वी सुष्टुतिश्च रसाश्च ये वामनु रातिमग्मन्॥ ६.०६३.०८ वपुर्नु तच्चिकितुषे चिदस्तु समानं नाम धेनु पत्यमानम्। मर्तेष्वन्यद्दोहसे पीपाय सकृच्छुक्रं दुदुहे पृश्निरूधः॥ ६.०६६.०१ उत योषणे दिव्ये मही न उषासानक्ता सुदुघेव धेनुः। बर्हिषदा पुरुहूते मघोनी आ यज्ञिये सुविताय श्रयेताम्॥ ७.००२.०६ धेनुं न त्वा सूयवसे दुदुक्षन्नुप ब्रह्माणि ससृजे वसिष्ठः। त्वामिन्मे गोपतिं विश्व आहा ऽऽ न इन्द्रः सुमतिं गन्त्वच्छ॥ ७.०१८.०४ अभि त्वा शूर नोनुमोऽदुग्धा इव धेनवः। ईशानमस्य जगतः स्वर्दृशमीशानमिन्द्र तस्थुषः॥ ७.०३२.२२ आ वातस्य ध्रजतो रन्त इत्या अपीपयन्त धेनवो न सूदाः। महो दिवः सदने जायमानोऽचिक्रदद्वृषभः सस्मिन्नूधन्॥ ७.०३६.०३ अभि ये मिथो वनुषः सपन्ते रातिं दिवो रातिषाचः पृथिव्याः। अहिर्बुध्न्य उत नः शृणोतु वरूत्र्येकधेनुभिर्नि पातु॥ ७.०३८.०५ प्र ब्रह्माणो अङ्गिरसो नक्षन्त प्र क्रन्दनुर्नभन्यस्य वेतु। प्र धेनव उदप्रुतो नवन्त युज्यातामद्री अध्वरस्य पेशः॥ ७.०४२.०१ इरावती धेनुमती हि भूतं सूयवसिनी मनुषे दशस्या। व्यस्तभ्ना रोदसी विष्णवेते दाधर्थ पृथिवीमभितो मयूखैः॥ ७.०९९.०३ आ त्वद्य सबर्दुघां हुवे गायत्रवेपसम्। इन्द्रं धेनुं सुदुघामन्यामिषमुरुधारामरंकृतम्॥ ८.००१.१० गोभिर्यदीमन्ये अस्मन्मृगं न व्रा मृगयन्ते। अभित्सरन्ति धेनुभिः॥ ८.००२.०६ सव्यामनु स्फिग्यं वावसे वृषा न दानो अस्य रोषति। मध्वा सम्पृक्ताः सारघेण धेनवस्तूयमेहि द्रवा पिब॥ ८.००४.०८ धेनुष्ट इन्द्र सूनृता यजमानाय सुन्वते। गामश्वं पिप्युषी दुहे॥ ८.०१४.०३ युवो रथस्य परि चक्रमीयत ईर्मान्यद्वामिषण्यति। अस्माँ अच्छा सुमतिर्वां शुभस्पती आ धेनुरिव धावतु॥ ८.०२२.०४ अस्य प्रजावती गृहेऽसश्चन्ती दिवेदिवे। इळा धेनुमती दुहे॥ ८.०३१.०४ नेह भद्रं रक्षस्विने नावयै नोपया उत। गवे च भद्रं धेनवे वीराय च श्रवस्यतेऽनेहसो व ऊतयः सुऊतयो व ऊतयः॥ ८.०४७.१२ आ नः स्तोममुप द्रवद्धियानो अश्वो न सोतृभिः। यं ते स्वधावन्स्वदयन्ति धेनव इन्द्र कण्वेषु रातयः॥ ८.०४९.०५ अषाळ्हमुग्रं पृतनासु सासहिं यस्मिन्महीरुरुज्रयः। सं धेनवो जायमाने अनोनवुर्द्यावः क्षामो अनोनवुः॥ ८.०७०.०४ तं वो दस्ममृतीषहं वसोर्मन्दानमन्धसः। अभि वत्सं न स्वसरेषु धेनव इन्द्रं गीर्भिर्नवामहे॥ ८.०८८.०१ देवीं वाचमजनयन्त देवास्तां विश्वरूपाः पशवो वदन्ति। सा नो मन्द्रेषमूर्जं दुहाना धेनुर्वागस्मानुप सुष्टुतैतु॥ ८.१००.११ अभीममघ्न्या उत श्रीणन्ति धेनवः शिशुम्। सोममिन्द्राय पातवे॥ ९.००१.०९ वाश्रा अर्षन्तीन्दवोऽभि वत्सं न धेनवः। दधन्विरे गभस्त्योः॥ ९.०१३.०७ तिस्रो वाच उदीरते गावो मिमन्ति धेनवः। हरिरेति कनिक्रदत्॥ ९.०३३.०४ सम्मिश्लो अरुषो भव सूपस्थाभिर्न धेनुभिः। सीदञ्छ्येनो न योनिमा॥ ९.०६१.२१ तवेमे सप्त सिन्धवः प्रशिषं सोम सिस्रते। तुभ्यं धावन्ति धेनवः॥ ९.०६६.०६ अच्छा समुद्रमिन्दवोऽस्तं गावो न धेनवः। अग्मन्नृतस्य योनिमा॥ ९.०६६.१२ प्र देवमच्छा मधुमन्त इन्दवोऽसिष्यदन्त गाव आ न धेनवः। बर्हिषदो वचनावन्त ऊधभिः परिस्रुतमुस्रिया निर्णिजं धिरे॥ ९.०६८.०१ उक्षा मिमाति प्रति यन्ति धेनवो देवस्य देवीरुप यन्ति निष्कृतम्। अत्यक्रमीदर्जुनं वारमव्ययमत्कं न निक्तं परि सोमो अव्यत॥ ९.०६९.०४ त्रिरस्मै सप्त धेनवो दुदुह्रे सत्यामाशिरं पूर्व्ये व्योमनि। चत्वार्यन्या भुवनानि निर्णिजे चारूणि चक्रे यदृतैरवर्धत॥ ९.०७०.०१ हरिं मृजन्त्यरुषो न युज्यते सं धेनुभिः कलशे सोमो अज्यते। उद्वाचमीरयति हिन्वते मती पुरुष्टुतस्य कति चित्परिप्रियः॥ ९.०७२.०१ एष प्र कोशे मधुमाँ अचिक्रददिन्द्रस्य वज्रो वपुषो वपुष्टरः। अभीमृतस्य सुदुघा घृतश्चुतो वाश्रा अर्षन्ति पयसेव धेनवः॥ ९.०७७.०१ प्र ते मदासो मदिरास आशवोऽसृक्षत रथ्यासो यथा पृथक्। धेनुर्न वत्सं पयसाभि वज्रिणमिन्द्रमिन्दवो मधुमन्त ऊर्मयः॥ ९.०८६.०२ प्र वो धियो मन्द्रयुवो विपन्युवः पनस्युवः संवसनेष्वक्रमुः। सोमं मनीषा अभ्यनूषत स्तुभोऽभि धेनवः पयसेमशिश्रयुः॥ ९.०८६.१७ अव्ये पुनानं परि वार ऊर्मिणा हरिं नवन्ते अभि सप्त धेनवः। अपामुपस्थे अध्यायवः कविमृतस्य योना महिषा अहेषत॥ ९.०८६.२५ सोमं गावो धेनवो वावशानाः सोमं विप्रा मतिभिः पृच्छमानाः। सोमः सुतः पूयते अज्यमानः सोमे अर्कास्त्रिष्टुभः सं नवन्ते॥ ९.०९७.३५ त्वां रिहन्ति मातरो हरिं पवित्रे अद्रुहः। वत्सं जातं न धेनवः पवमान विधर्मणि॥ ९.१००.०७ असच्च सच्च परमे व्योमन्दक्षस्य जन्मन्नदितेरुपस्थे। अग्निर्ह नः प्रथमजा ऋतस्य पूर्व आयुनि वृषभश्च धेनुः॥ १०.००५.०७ बृहन्नच्छायो अपलाशो अर्वा तस्थौ माता विषितो अत्ति गर्भः। अन्यस्या वत्सं रिहती मिमाय कया भुवा नि दधे धेनुरूधः॥ १०.०२७.१४ तदित्सधस्थमभि चारु दीधय गावो यच्छासन्वहतुं न धेनवः। माता यन्मन्तुर्यूथस्य पूर्व्याभि वाणस्य सप्तधातुरिज्जनः॥ १०.०३२.०४ ता वर्तिर्यातं जयुषा वि पर्वतमपिन्वतं शयवे धेनुमश्विना। वृकस्य चिद्वर्तिकामन्तरास्याद्युवं शचीभिर्ग्रसिताममुञ्चतम्॥ १०.०३९.१३ स द्विबन्धुर्वैतरणो यष्टा सबर्धुं धेनुमस्वं दुहध्यै। सं यन्मित्रावरुणा वृञ्ज उक्थैर्ज्येष्ठेभिरर्यमणं वरूथैः॥ १०.०६१.१७ इयं मे नाभिरिह मे सधस्थमिमे मे देवा अयमस्मि सर्वः। द्विजा अह प्रथमजा ऋतस्येदं धेनुरदुहज्जायमाना॥ १०.०६१.१९ यां मे धियं मरुत इन्द्र देवा अददात वरुण मित्र यूयम्। तां पीपयत पयसेव धेनुं कुविद्गिरो अधि रथे वहाथ॥ १०.०६४.१२ त्वे धेनुः सुदुघा जातवेदोऽसश्चतेव समना सबर्धुक्। त्वं नृभिर्दक्षिणावद्भिरग्ने सुमित्रेभिरिध्यसे देवयद्भिः॥ १०.०६९.०८ अभि त्वा सिन्धो शिशुमिन्न मातरो वाश्रा अर्षन्ति पयसेव धेनवः। राजेव युध्वा नयसि त्वमित्सिचौ यदासामग्रं प्रवतामिनक्षसि॥ १०.०७५.०४ या सुजूर्णिः श्रेणिः सुम्नआपिर्ह्रदेचक्षुर्न ग्रन्थिनी चरण्युः। ता अञ्जयोऽरुणयो न सस्रुः श्रिये गावो न धेनवोऽनवन्त॥ १०.०९५.०६ हरिं हि योनिमभि ये समस्वरन्हिन्वन्तो हरी दिव्यं यथा सदः। आ यं पृणन्ति हरिभिर्न धेनव इन्द्राय शूषं हरिवन्तमर्चत॥ १०.०९६.०२ अहन्न् अहिं पर्वते शिश्रियाणं त्वष्टास्मै वज्रं स्वर्यं ततक्ष । वाश्रा इव धेनवः स्यन्दमाना अञ्जः समुद्रमव जग्मुरापः ॥शौअ २.५.६॥ प्रथमा ह व्युवास सा धेनुरभवद्यमे । सा नः पयस्वती दुहामुत्तरामुत्तरां समाम् ॥शौअ ३.१०.१॥ यां देवाः प्रतिनन्दन्ति रात्रिं धेनुमुपायतीम् । संवत्सरस्य या पत्नी सा नो अस्तु सुमङ्गली ॥३.१०.२॥ धरुण्यसि शाले बृहच्छन्दाः पूतिधान्या । आ त्वा वत्सो गमेदा कुमार आ धेनवः सायमास्पन्दमानाः ॥३.१२.३॥ अस्मै द्यावापृथिवी भूरि वामं दुहाथां घर्मदुघे इव धेनू । अयं राजा प्रिय इन्द्रस्य भूयात्प्रियो गवामोषधीनां पशूनाम् ॥४.२२.४॥ पयो धेनूनां रसमोषधीनां जवमर्वतां कवयो य इन्वथ । शग्मा भवन्तु मरुतो नः स्योनास्ते नो मुञ्चन्त्वंहसः ॥४.२७.३॥ इममोदनं नि दधे ब्राह्मणेषु विष्टारिणं लोकजितं स्वर्गम् । स मे मा क्षेष्ट स्वधया पिन्वमानो विश्वरूपा धेनुः कामदुघा मे अस्तु ॥(ब्रह्मौदनम्) ४.३४.८॥ पृथिवी धेनुस्तस्या अग्निर्वत्सः । सा मेऽग्निना वत्सेनेषमूर्जं कामं दुहाम् । आयुः प्रथमं प्रजां पोषं रयिं स्वाहा ॥२॥ अन्तरिक्षे वायवे समनमन्त्स आर्ध्नोत्। यथान्तरिक्षे वायवे समनमन्न् एवा मह्यं संनमः सं नमन्तु ॥३॥ अन्तरिक्षं धेनुस्तस्या वायुर्वत्सः । सा मे वायुना वत्सेनेषमूर्जं कामं दुहाम् । आयुः प्रथमं प्रजां पोषं रयिं स्वाहा ॥४॥ दिव्यादित्याय समनमन्त्स आर्ध्नोत्। यथा दिव्यादित्याय समनमन्न् एवा मह्यं संनमः सं नमन्तु ॥५॥ द्यौर्धेनुस्तस्या आदित्यो वत्सः । सा म आदित्येन वत्सेनेषमूर्जं कामं दुहाम् । आयुः प्रथमं प्रजां पोषं रयिं स्वाहा ॥६॥ दिक्षु चन्द्राय समनमन्त्स आर्ध्नोत्। यथा दिक्षु चन्द्राय समनमन्न् एवा मह्यं संनमः सं नमन्तु ॥७॥ दिशो धेनवस्तासां चन्द्रो वत्सः । ता मे चन्द्रेण वत्सेनेषमूर्जं कामं दुहामायुः प्रथमं प्रजां पोषं रयिं स्वाहा ॥४.३९.८॥ नास्य धेनुः कल्याणी नानड्वान्त्सहते धुरम् । विजानिर्यत्र ब्राह्मणो रात्रिं वसति पापया ॥५.१७.१८॥ अनडुद्भ्यस्त्वं प्रथमं धेनुभ्यस्त्वमरुन्धति । अधेनवे वयसे शर्म यच्छ चतुष्पदे ॥६.५९.१॥ समिद्धो अग्निरश्विना तप्तो वां घर्म आ गतम् । दुह्यन्ते नूनं वृषणेह धेनवो दस्रा मदन्ति वेधसः ॥७.७७.२॥ उप ह्वये सुदुघां धेनुमेतां सुहस्तो गोधुगुत दोहदेनाम् । श्रेष्ठं सवं सविता साविषन् नोऽभीद्धो घर्मस्तदु षु प्र वोचत्॥७.७७.७॥ कः पृश्निं धेनुं वरुणेन दत्तामथर्वणे सुदुघां नित्यवत्साम् । बृहस्पतिना सख्यं जुषणो यथावशं तन्वः कल्पयाति ॥७.१०९.१॥ यो वै कशायाः सप्त मधूनि वेद मधुमान् भवति । ब्राह्मणश्च राजा च धेनुश्चानड्वांश्च व्रीहिश्च यवश्च मधु सप्तमम् ॥९.१.२२॥ सा ते काम दुहिता धेनुरुच्यते यामाहुर्वाचं कवयो विराजम् । तया सपत्नान् परि वृङ्ग्धि ये मम पर्येनान् प्राणः पशवो जीवनं वृणक्तु ॥९.२.५॥ अयं पिपान इन्द्र इद्रयिं दधातु चेतनीम् । अयं धेनुं सुदुघां नित्यवत्सां वशं दुहां विपश्चितं परो दिवः ॥९.४.२१॥ अजस्त्रिनाके त्रिदिवे त्रिपृष्ठे नाकस्य पृष्ठे ददिवांसं दधाति । पञ्चौदनो ब्रह्मणे दीयमानो विश्वरूपा धेनुः कामदुघास्येका ॥९.५.१०॥ पञ्च रुक्मा पञ्च नवानि वस्त्रा पञ्चास्मै धेनवः कामदुघा भवन्ति । योऽजं पञ्चौदनं दक्षिणाज्योतिषं ददाति ॥९.५.२५॥ अनुपूर्ववत्सां धेनुमनड्वाहमुपबर्हणम् । वासो हिरण्यं दत्त्वा ते यन्ति दिवमुत्तमाम् ॥९.५.२९॥ उप ह्वये सुदुघां धेनुमेतां सुहस्तो गोधुगुत दोहदेनाम् । श्रेष्ठं सवं सविता साविषन् नोऽभीद्धो घर्मस्तदु षु प्र वोचत्॥९.१५.४॥ यज्ञं दुहानं सदमित्प्रपीनं पुमांसं धेनुं सदनं रयीणाम् । प्रजामृतत्वमुत दीर्घमायू रायश्च पोषैरुप त्वा सदेम ॥११.१.३४॥ जनं बिभ्रती बहुधा विवाचसं नानाधर्माणं पृथिवी यथौकसम् । सहस्रं धारा द्रविणस्य मे दुहां ध्रुवेव धेनुरनपस्फुरन्ती ॥१२.१.४५॥ प्रियं प्रियाणां कृणवाम तमस्ते यन्तु यतमे द्विषन्ति । धेनुरनड्वान् वयोवय आयदेव पौरुषेयमप मृत्युं नुदन्तु ॥१२.३.४९॥ वि मिमीष्व पयस्वतीं घृताचीं देवानां धेनुरनपस्पृगेषा । इन्द्रः सोमं पिबतु क्षेमो अस्त्वग्निः प्र स्तौतु वि मृधो नुदस्व ॥१३.१.२७॥ अबोध्यग्निः समिधा जनानां प्रति धेनुमिवायतीमुषासम् । यह्वा इव प्र वयामुज्जिहानाः प्र भानवः सिस्रते नाकमच्छ ॥१३.२.४६॥ यां ते धेनुं निपृणामि यमु क्षीर ओदनम् । तेना जनस्यासो भर्ता योऽत्रासदजीवनः ॥१८.२.३०॥ कोशं दुहन्ति कलशं चतुर्बिलमिडां धेनुं मधुमतीं स्वस्तये । ऊर्जं मदन्तीमदितिं जनेष्वग्ने मा हिंसीः परमे व्योमन् ॥१८.४.३०॥ धाना धेनुरभवद्वत्सो अस्यास्तिलोऽभवत्। तां वै यमस्य राज्ये अक्षितामुप जीवति ॥१८.४.३२॥ एतास्ते असौ धेनवः कामदुघा भवन्तु । एनीः श्येनीः सरूपा विरूपास्तिलवत्सा उप तिष्ठन्तु त्वात्र ॥१८.४.३३॥ तं वो दस्ममृतीषहं वसोर्मन्दानमन्धसः । अभि वत्सं न स्वसरेषु धेनव इन्द्रं गीर्भिर्नवामहे ॥२०.९.१॥ धेनुष्ट इन्द्र सूनृता यजमानाय सुन्वते । गामश्वं पिप्युषी दुहे ॥२०.२७.३॥ हरिं हि योनिमभि ये समस्वरन् हिन्वन्तो हरी दिव्यं यथा सदः । आ यं पृणन्ति हरिभिर्न धेनव इन्द्राय शूषं हरिवन्तमर्चत ॥२०.३०.२॥ अभि त्वा वर्चसा गिरः सिञ्चन्त्या चरण्युवः । अभि वत्सं न धेनवः ॥२०.४८.१॥ तं वो दस्ममृतीषहं वसोर्मन्दानमन्धसः । अभि वत्सं न स्वसरेषु धेनव इन्द्रं गीर्भिर्नवामहे ॥२०.४९.४॥ अषाल्हमुग्रं पृतनासु सासहिं यस्मिन् महीरुरुज्रयः । सं धेनवो जायमाने अनोनवुर्द्यावः क्षामो अनोनवुः ॥२०.९२.१९॥ ता अस्य पृशनायुवः सोमं श्रीणन्ति पृश्नयः । प्रिया इन्द्रस्य धेनवो वज्रं हिन्वन्ति सायकं वस्वीरनु स्वराज्यम् ॥२०.१०९.२॥ अभि त्वा शूर नोनुमोऽदुग्धा इव धेनवः । ईशानमस्य जगतः स्वर्दृशमीशानमिन्द्र तस्थुषः ॥२०.१२१.१॥
धेना १. अन्नं वै धेनाः । माश ७,५,२,११॥ २. धेना बृहस्पतेः (+ पत्नी [गो.)। मै १,९,२; काठ ९,१०; गो २,२,९; तैआ ३,९,१ । धेनु १. आपो वाव धेनवस्ता हीदं सर्वं धिन्वन्ति । ऐआ १, ३, ५ (तु. कौ १२, १)। २. सौत्रामण्यामवभृथः - धेनुर्दक्षिणा। इयं (पृथिवी) वै धेनुः। माश १२, ९, २, ११ ॥ ३. उपहूता धेनुः सहर्षभा मिथुनम् एवोप ह्वयते ।। तैसं २, ६, ७, २-३ । ४. एतद्वै सर्वं वयो यद् धेनुश्चानड्वाꣳश्चैतौ वै यज्ञस्य माता च पिता च यद् धेनुश्चानड्वाꣳश्चाज्यं च पयश्च धेन्वाः, पुरोडाशश्च चरुश्चानडुहः । मै १,६,४।। ५. दोग्ध्री धेनुः (आजायताम् )। वोढाऽनड्वान् - तैसं ७, ५, १८, १ । ६. द्यावापृथिव्यां धेनुँ सप्तमेऽहन्नालभेरन् प्रथमे छन्दोमे द्यावापृथिवी वै यज्ञस्य प्रतिष्ठा द्यावापृथिव्योरेव तद्यज्ञस्यान्ततः प्रतितिष्ठन्ति द्यावापृथिव्या खलु वाव धेनुर्देवतया वायव्यं वत्समष्टमेऽहन्नालभेरन् मध्यमे छन्दोमे प्राणो वै वायुः प्राण एव तद्यज्ञस्यान्ततः प्रतितिष्ठन्ति ॥। काठ ३४, १। ७. राजसूयः -- धेनुः प्रतिहर्तुः, प्रतीव ३ ह्येषा हरति, प्रतीव प्रतिहर्ता । मै ४.४.८ ।। ८. धेनुरिव पयो अस्मासु धुक्ष्व । तैसं १, १, १४, ३ । ९. धेनुरिव वा इयं (पृथिवी) मनुष्येभ्यः सर्वान् कामान् दुग्धे (दुहे [माश.) । काश १, २,१,१२; माश २,२,१,२१ । . १०. धेनुर्होत्रे देयाशिषामवरुद्ध्या अनड्वानध्वर्यवे वह्न्येव यज्ञस्यावरुन्द्धे। काठ ८, ८ । ११. धेनू भौमी । काठ ५०, १ । धेनुर् मैत्रावरुणाय, ऋषभो ब्राह्मणाच्छंसिने – जैब्रा २.२०२ १२. पयस्या वै धेनुः । पयस्याभाजसौ मित्रावरुणौ । अथ यद् ऋषभो ब्राह्मणाच्छंसिने भवत्य् - ऐन्द्रो वै ब्राह्मणाच्छंस्य् , ऐन्द्र ऋषभस् - जै २,२०३। । १३. प्रथमा ह व्युवास, सा धेनुरभवद्यमे । मै २, १३, १०। १४. तस्यै धेनुर्दक्षिणा । धेनुरिव वा इयं मनुष्येभ्यः सर्वान् कामान्दुहे माता धेनुर्मातेव वा इयं मनुष्यान्बिभर्ति। माश २, २, १, २१ रत्नयागाः – अथ श्वो भूते । महिष्यै गृहान्परेत्य आदित्यं चरुं निर्वपतीयं वै पृथिव्यदितिः सेयं देवानां पत्न्येषा... - माश ५, ३, १, ४ । १५. मातेव वा इयं (पृथिवी ) मनुष्याणां च पशूनां च मातेव धेनुः । काश १, २,१, १२ । १६. वाग्वै धेनुः । मै ४, ४, ८; गो १,२,२१; तां १८, ९, २१ । १७. वेदत्रयीवाग्धेनूपासनब्राह्मणम् -- वाचं धेनुमुपासीत। तस्याश्चत्वार स्तनाः स्वाहाकारो वषट्कारो हन्तकारः स्वधाकारस्तस्यै द्वौ स्तनौ देवा उपजीवन्ति स्वाहाकारं च वषट्कारं च हन्तकारं मनुष्याः स्वधाकारं पितरस्तस्याः प्राण ऋषभो मनो वत्सः । माश १४, ८, ९, १ १८. यद्वेवेष्टका धेनूः कुरुते । वाग्वा अयमग्निर्वाचा हि चितः स यदाहैका च दश चान्तश्च परार्धश्चेति वाग्वा एका वाग्दश वागन्तो वाक्परार्द्धो वाचमेव तद्देवा धेनुमकुर्वत तथैवैतद्यजमानो वाचमेव धेनुं कुरुतेऽथ यत्संतनोति वाचमेव तत्संतनोत्येता मे अग्न इष्टका धेनवः सन्त्वमुत्रामुष्मिंलोक इत्येतद्वा एना अस्मिंलोके धेनूः कुरुतेऽथैना एतदमुष्मिंलोके धेनूः कुरुते तथो हैनमेता उभयोर्लोकयोर्भुञ्जन्त्यस्मिंश्चामुष्मिंश्च। माश ९, १, २, १७ ॥ १९. दीक्षासंस्काराः -- स धेन्वै चानडुहश्च नाश्नीयाद्धेन्वनडुहौ वाऽ इदꣳ सर्वं बिभृतः... हन्त यदन्येषां वयसां वीर्यं तद्धेन्वनडुहयोर्दधामेति । माश ३,१,२,२१ २०. अपां नप्त्रे स्वाहा....सारस्वतश्चरुर्धेनुर्दक्षिणा । मै २, ६,१३ ॥ [ °नु- अदिति- ५२ – माश ५.३.१.४, ५७ – मैसं ४.३.८; अनडुङ्- ४ – तैसं ४.७.१०.२, १० – तैसं २.२.९.४ अनुमति- ५ – तैसं १.८.१.१, (तु. काठ १५.१, माश ५.२.३.२) १० – मैसं ४.३.१; आदित्य- ९० – तैसं १.८.९.१ ,९४ – मैसं २.६.५, ४.३.८; आशिस्- २ – तैसं २.४.११.६; इडा- २४ – मैसं ४.२.२; उक्थामद- २ – तैसं २.४.११.६; छन्दस् १८ – काठ १२.४; जगती- ३२ – मै ३.१३.१८, प्रथमचितिगता वयस्या इष्टकाः - धेनुर् वयो जगती छन्दः । अनड्वान् वयः पङ्क्तिश् छन्दः । - तैसं ४.३.५.१, मै २.८.२, काठ १७.२; द्यावापृथिव्यां धेनुम् आ लभेत ज्योगपरुद्धः । ... वत्सम् आ लभेत । वायुर् वा अनयोर् वत्सः ।– तैसं २.१.४.७ धाना- १ – तैआ ६.७.१; २ – तैआ ६.९.१; द्र. ] ।
धेनुष्टरी- धेनुर्वा एषा सती न दुहे तस्माद् धेनुष्टर्युच्यते । काठ १३, ६ । |