Site hosted by Angelfire.com: Build your free website today!

PURAANIC SUBJECT INDEX

(From Mahaan  to Mlechchha )

Radha Gupta, Suman Agarwal & Vipin Kumar


Home Page

Mahaan - Mahaabhuuta  ( words like Mahaan / great, Mahaapadma, Mahaapaarshva, Mahaabhuuta etc. )

Mahaabhoja - Mahaalaya ( Mahaamaayaa, Mahaalakshmi , Mahaalaya etc.)

Mahaalinga - Mahishaasura ( Mahisha / buffalo,  Mahishaasura etc.)

Mahishee - Mahotkata (  Mahee / earth, Mahendra, Maheshwara, Mahotkata etc. )

 Mahotpaata - Maandavya ( Mahodaya, Mahodara, Maansa / flesh, Maagadha, Maagha, Maandavya etc.)

Maandooki - Maatrikaa(  Maatangi, Maatali, Maataa / mother, Maatrikaa etc.)

Maatraa - Maadhavi (  Maadri, Maadhava, Maadhavi etc.)

Maadhyandina - Maandhaataa ( Maana / respect, Maanasa, Maanasarovara, Maandhaataa etc.)

Maamu - Maareecha (Maayaa / illusion, Maayaapuri, Maarishaa, Maareecha etc.)

Maareesha - Maargasheersha (  Maaruta, Maarkandeya, Maargasheersha etc.)

Maarjana - Maalaa  (Maarjaara / cat, Maartanda / sun, Maalati, Maalava, Maalaa / garland etc. )

Maalaavatee - Maasa ( Maalaavati, Maalini, Maali, Malyavaan, Maasha, Maasa / month etc.)

Maahikaa - Mitrasharmaa ( Maahishmati, Mitra / friend, Mitravindaa etc.)

Mitrasaha - Meeraa ( Mitrasaha, Mitraavaruna, Mithi, Mithilaa, Meena / fish etc.)

Mukuta - Mukha (Mukuta / hat, Mukunda, Mukta / free, Muktaa, Mukti / freedom, Mukha / mouth etc. )

Mukhaara - Mudgala (Mukhya / main, Muchukunda, Munja, Munjakesha, Munda, Mudgala etc.)

Mudraa - Muhuurta (Mudraa / configuration, Muni, Mura, Mushti, Muhuurta / moment etc.)

Muuka - Moolasharmaa (  Muuka,  Muurti / moorti / idol, Muula / moola etc.)

Muuli- Mrigayaa (Mooshaka / Muushaka / rat, Muushala / Mooshala / pestle, Mrikandu, Mriga / deer etc.)

Mriga - Mrityu ( Mrigavyaadha, Mrigaanka, Mrityu / death etc.)

Mrityunjaya - Meghavaahana ( Mekhalaa, Megha / cloud, Meghanaada etc.)

Meghaswaati - Menaa  (Medhaa / intellect, Medhaatithi, Medhaavi, Menakaa, Menaa etc.)

Meru - Maitreyi  ( Meru, Mesha, Maitreya etc.)

Maithila - Mohana ( Mainaaka, Mainda, Moksha, Moda, Moha, Mohana etc.)

Mohammada - Mlechchha ( Mohini, Mauna / silence, Maurya, Mlechchha etc.)

 

 

मार्जालीयः

टिप्पणी

शतपथब्राह्मणादिषु ३.५.३.४ उल्लेखमस्ति यत् या पुरुषाकारा उत्तरवेदिः अस्ति, तस्याः मार्जालीयः सव्यबाहुरस्ति, आग्नीध्रीयः दक्षिण बाहुः। ब्रह्मपुराणे २.१४ एकः आख्यानमस्ति यत् केसरीवानरस्य भार्याद्यौ स्तः अञ्जना एवं अद्रिका/मार्जारी। अञ्जना हनुमानं जनयति एवं अद्रिका पिशाचं। कालान्तरे हनुमानः एवं पिशाचः सहयोगिनौ भवन्तः। किं हनुमानः आग्नीध्रऋत्विजस्य एवं पिशाचः मार्जालीयस्य प्रतीकः अस्ति, अन्वेषणीयः।

     सोमयागे अग्नेः ये विभिन्नरूपाः सन्ति, तेषां संज्ञा धिष्ण्याः सन्ति। मार्जालीयः एकः धिष्ण्यः अस्ति। धिष्ण्य अग्नयः द्विनामानः सन्ति। मार्जालीयस्य विषये कथनमस्ति - शुन्ध्युरसि मार्जालीयः। ऋग्वेदे सोमस्य पवित्रपवनेन मृजनस्य बहवः उल्लेखाः सन्ति, किन्तु अग्नेः मृजनस्य विरलाः। उदाहरणार्थ, ऋग्वेदे ५.१.७ कथनमस्ति - आ यस्ततान रोदसी ऋतेन नित्यं मृजन्ति वाजिनं घृतेन। मार्जने एवं शोधने किं अन्तरं अस्ति, अन्वेषणीयः। शुक्लयजुर्वेदे ६.१४ उल्लेखमस्ति - वाचं ते शुन्धामि ।
प्राणं ते शुन्धामि । चक्षुस् ते शुन्धामि । श्रोत्रं ते शुन्धामि ।
नाभिं ते शुन्धामि । मेढ्रं ते शुन्धामि । पायुं ते शुन्धामि । चरित्रास् ते शुन्धामि ॥

     पुराणेषु सुन्द ताडका मारीच आख्यानः प्रसिद्धमस्ति। किं सुन्दः शोधनस्य विकृतिः अस्ति, अन्वेषणीयः। सुन्दस्य एकं जन्म ह्रादतः भवति। यः आह्लादः उत्पन्नं भवति, तत् निरर्थकं न भवेत्। तेन चक्षु, श्रोत्रादीनां शोधनं अपेक्षितं अस्ति।

 

संदर्भाः

विहव्या इष्टकाः -- षण् मार्जालीये षड् वा ऋतव ऋतवः खलु वै देवाः पितर ऋतून् एव देवान् पितॄन् प्रीणाति तैसं ५.४.११.४

उदकुम्भान् अधिनिधाय दास्यो मार्जालीयम् परि नृत्यन्ति पदो निघ्नतीर् इदम्मधुं गायन्त्यः । - तैसं ७.५.१०.१

यामेन मार्जालीयमुपतिष्ठन्ते पितृलोकमेव तज्जयन्ति तांब्रा ५.४.११

महाव्रतम् -- परि कुम्भिन्यो मार्जालीयं यन्तीदं मध्विदं मध्विति सघोषा एव तद्वयो भूत्वा सह स्वर्गंल्लोकं यन्ति तांब्रा ५.६.१५

यदि दीक्षितानां प्रमीयते दग्ध्वास्थीन्युपनह्य यो नेदिष्ठी स्यात् तं दीक्षयित्वा सह यजेरन् । एतदन्यत् कुर्युरभिषुत्यान्यत् सोममगृहीत्वा ग्रहान् यासौ दक्षिणा स्रक्तिस्तद्वा स्तुयुर्मार्जालीयेव । अपि वा एतस्य यज्ञे यो दीक्षितः प्रमीयते तमेतेन निरवदयन्ते । यामेन स्तुवन्ति यमलोकमेवैनं गमयन्ति । तिसृभिः स्तुवन्ति तृतीये हि लोके पितरः तांब्रा ९.८.५

सर्पराज्ञ्या ऋग्भिः स्तुवन्ति । अर्बुदः सर्प एताभिर्मृतां त्वचमपाहत मृतामेवैताभिस्त्वचमपघ्नते । ता ऋचोऽनुब्रुवन्तस्त्रिर्मार्जालीयं परियन्ति सव्यानूरूनाघ्नानाः तांब्रा ९.८.९

मार्जालीयस्य चतुर्वारं विहरणं सोमे। संकर्ष. ३।२।१६(मीमांसाकोशः)

शुन्ध्युरसि मार्जालीयः  - मै १.२.१२

स्तुप एवास्य यूपः । बाहू एवास्याग्नीध्रीयश्च मार्जालीयश्च - माश ३.५.३.४

ते वा एते । सोमस्यैव गुप्त्यै न्युप्यन्त आहवनीयः पुरस्तान्मार्जालीयो दक्षिणत आग्नीध्रीय उत्तरतोऽथ ये सदसि ते पश्चात् माश ३.६.२.२१

तृतीयसवन एव घृत्याहुतिः प्राप्नोति न सौम्या यच्छालाकैर्धिष्ण्यान्व्याघारयति तानेतैरेव यजुर्भिर्यथोपकीर्णं यथापूर्वं व्याघारयति मार्जालीय एवोत्तमम् - ४.४.२.[७]
तद्धैके । आग्नीध्रीये पुनराघारयन्त्युदग्न इदं कर्मानुसंतिष्ठाता इति तदु तथा न कुर्यान्मार्जालीय एवोत्तमम् माश ४.४.२.८

षण्मार्जालीये । षड्वा ऋतवः पितरस्तं हैतमृतवः पितरो दक्षिणतः पर्यूहिरे स एषामेष दक्षिणतः स वा इतीममुपदधातीतीमानित्यमुं विशं तत्क्षत्रमभिसम्मुखां करोति माश ९.४.३.८

अथ दक्षिणतः सिकता उपकीर्णा भवन्ति तन्मार्जयन्ते य एव मार्जालीये बन्धुः सोऽत्रानुप्रहरति शाकलानथोपसदा चरन्त्येतदु यज्ञस्य शिरः संस्कृतं यथायथैनं तदश्विनौ प्रत्यधत्ताम् माश १४.२.२.४३

मार्जालीयविषये सोमयागे ऋत्विजः कथयन्ति यत् प्रवर्ग्येष्ट्यां यः प्रवर्ग्यखरः भवति, प्रवर्ग्येष्ट्यनन्तरं तस्य खरस्य मृत्तिकायाः स्थानान्तरं मार्जालीयखरे कुर्वन्ति। अतएव, मार्जालीयखरे प्रवर्ग्यः निहितः अस्ति। प्रसंगस्य स्पष्टीकरणाय, सोमयागे सोमस्य द्विप्रकारौ स्तः प्रवर्ग्यः एवं क्रीतसोमः। अथवा प्रवर्ग्यः एवं ब्रहमौदनः। प्रवर्ग्यस्य संपादनं अस्माकं या चेतना ब्रह्माण्डे विस्तरिता अस्ति, तस्याः संघननतः भवति। यावत् प्रवर्ग्यस्य संपादनं पूर्णं न भवति, तावत् क्रीतसोमः अ-प्रयुक्तः, अतिथिरूपे एव विद्यते। यदा प्रवर्ग्यस्य संपादनं पूर्णं भवति, तदोपरि ब्रह्मौदनस्य संपादनाय क्रीतसोमस्य शोधनाय सुत्यासंज्ञकः प्रक्रिया भवति। यदा ब्रह्मौदनः आविर्भविष्यति, तर्हि प्रवर्ग्यस्य किं उपयोगः अवशिष्यते। संकेतमस्ति यत् स्वधा संबन्धीनि, पितृसंबन्धीनि यानि  देहव्यापाराः प्रचलन्ति, तेषां नियामकः मार्जालीयरूपेण प्रवर्ग्यः एव भविष्यति।

पुरुषो वै यज्ञः......बाहू मार्जालीयश् च आग्नीध्रीयश् च । -कौ १७.७

दशरात्रे दशममहः -- वाग्यताः संमील्यासत आ नक्षत्राणां दर्शनात् १०नक्षत्रेषु दृश्यमानेषु मार्जालीयदेशे तच्चक्षुरिति नक्षत्रेषु चक्षुर्विसृजन्ते ११सर्वे साम्नो निधनमुपेत्योत्तरस्य हविर्धानस्याधोऽक्षं सर्पन्ति शां.श्रौ.सू. १०.२१.१२

यदि दीक्षितः प्रमीयेत दग्ध्वास्थीन्युपनह्य पुत्रं भ्रातरं वा दीक्षयित्वा सह यजेरन् १
अभिषुत्य वा राजानमगृहीत्वा ग्रहान्दक्षिणापरस्यां वेदिश्रोण्यामस्थिकुम्भं निधाय तस्मिन्देशे सार्पराज्ञीभिः पराचीभिः स्तुवते २ मार्जालीयदेशे वा ३ त्रिः प्रसव्यं मार्जालीयं परियन्ति सव्यानूरूनपाघ्नानाः ४ सार्पराज्ञीर्होता निगदेत् शां.श्रौ.सू. १३.११.५

वाजपेयः --आहवनीयन्यन्ते सोमग्रहैरवतिष्ठन्ते । मार्जालीयन्यन्ते सुराग्रहैः २ प्रचरति सोमग्रहैः ३ वषट्कारानुवषट्कारौ सुराग्रहाननुप्रकम्पयन्ति आप.श्रौ.सू. १८.७.४

गवामयनम् -- अग्रेणाहवनीयं रथेषु कवचिनः संनह्यन्ते ६ मार्जालीयन्यन्तेऽष्टौ दासकुमार्य उदकुम्भैर्निकल्पन्ते ७ वाग्भद्रं मनो भद्रं मानो भद्रं तन्नो भद्रमिति त्रिः पर्वयेत् - आप.श्रौ.सू. २१.१८.८

दक्षिणे मार्जालीये दश स्रुच्युत्तमां चतुर्गृहीतं पूर्वमवदायोत्तरतोऽग्नेरुपनिधाय विहरणप्रभृति मध्यंदिने मार्जालीयो जागरितो भवति तस्मिन्परिवृते जुहोति ऐआ ५.१.१

बाहू मार्जालीयश् चाग्नीध्रीयश् च गोब्रा २.५.४

तं दक्षिणतो वेद्यै निधाय । सर्पराज्ञिया ऋग्भिः स्तुयुः । इयं वै सर्पतो राज्ञी ।अस्या एवैनं परिददति । व्यृद्धं तदित्याहुः । यत्स्तुतमननुशस्तमिति । होता प्रथमः प्रचीनावीती मार्जालीयं परीयात् । यामीरनुब्रुवन् । सर्पराज्ञीनां कीर्तयेत् । उभयोरेवैनं लोकयोः परिददति तैब्रा १.४.६.६

दक्षिणस्यां वेदिश्रोण्यामस्थिकुम्भं निदधाति ।। ३३ ।।  तिसृभिः  सार्पराज्ञीभिरभिप्रतिहृताभिरुद्गातारः स्तुवीरन् ।।।३४ । इतर ऋत्विजो होतृप्रथमाः  प्राचीनावीतिनो  यामीरनुब्रुवन्तः सार्पराज्ञीनां कीर्तयन्तो दक्षिणान्केशपक्षानुद्ग्रथ्य सव्यान्प्रस्रस्य दक्षिणानूरूनाघ्नानाः सव्यानित्येकेषाम् ।। ३५ ।। त्रिः प्रसव्यं मार्जालीयमनुपरीयुः ।। ऐन्द्रवायवाग्रा ग्रहा मैत्रावरुणाग्रा वा मार्जालीयन्यन्ते भक्षानुपनिनीयुः ।। हिरण्यकेशि श्रौ.सू. १५.५.३७ ।।