Site hosted by Angelfire.com: Build your free website today!

पुराण विषय अनुक्रमणिका

PURAANIC SUBJECT INDEX

(From Dvesha to Narmadaa )

Radha Gupta, Suman Agarwal & Vipin Kumar

HOME PAGE


Dwesha - Dhanavati ( words like Dwesha,  Dvaipaayana, Dhana / wealth, Dhananjaya, Dhanada etc.)

Dhanaayu - Dhara ( Dhanu / bow, Dhanurveda / archery, Dhanusha / bow, Dhanushakoti, Dhanyaa,  Dhanvantari, Dhara etc.)

Dhara - Dharma ( Dharani, Dharaa, Dharma etc.)

Dharma - Dharmadatta ( Dharma, Dharmagupta, Dharmadatta etc.)

Dharmadhwaja - Dhaataa/Vidhaataa ( Dharmadhwaja, Dharmaraaja, Dharmasaavarni, Dharmaangada, Dharmaaranya, Dhaataki, Dhaataa, Dhaaataa - Vidhaataa etc.)

Dhaatu - Dhishanaa ( Dhaataa - Vidhaataa, Dhaatu / metal, Dhaatri, Dhaanya / cereal, Dhaarnaa, Dhaarni, Dhaaraa, Dhishanaa etc.)

Dhishanaa - Dhuupa (Dhee / intellect, Dheeman, Dheera,  Dheevara, Dhundhu, Dhundhumaara, Dhuupa etc.)

Dhuuma - Dhritaraashtra  ( Dhuuma / smoke, Dhuumaketu, Dhuumaavati, Dhuumra, Dhuumralochana, Dhuumraaksha, Dhritaraashtra etc.)

Dhritaraashtra - Dhenu ( Dhriti, Dhrista, Dhenu / cow etc.)

Dhenu - Dhruva ( Dhenu, Dhenuka, Dhaumya, Dhyaana / meditation, Dhruva etc. )

Dhruvakshiti - Nakshatra  ( Dhruvasandhi, Dhwaja / flag, Dhwani / sound, Nakula, Nakta / night, Nakra / crocodile, Nakshatra etc.)

Nakshatra - Nachiketaa ( Nakshatra, Nakha / nail, Nagara / city, Nagna / bare, Nagnajit , Nachiketa etc.)

Nata - Nanda (  Nata, Nataraaja, Nadvalaa, Nadee / river, Nanda etc.)

Nanda - Nandi ( Nanda, Nandana, Nandasaavarni, Nandaa, Nandini, Nandivardhana, Nandi etc.)

Napunsaka - Nara (  Nabha/sky, Nabhaga, Namuchi, Naya, Nara etc. )

Naraka - Nara/Naaraayana (Nara / man, Naraka / hell, Narakaasura, Nara-Naaraayana etc.) 

Naramedha - Narmadaa  (  Naramedha, Naravaahanadutta, Narasimha / Narasinha, Naraantaka, Narishyanta, Narmadaa etc. )

 

 

नराशंस

अयं चित्रः  २०-३१ जनवरी, 2015 ई मध्ये गार्गेयपुरम्, कर्नूल मध्ये अनुष्ठितस्य ज्योतिअप्तोर्याम सोमयागस्य श्री राजशेखरशर्मणः संग्रहात् गृहीतमस्ति।

 

शतपथब्राह्मणे , , , १२ कथनमस्ति --  प्रजा वै नरस्ता अन्तरिक्षमनु वावद्यमानाः प्रजाश्चरन्ति यद्वै वदति शँसतीति वै तदाहुस्तस्मादन्तरिक्षं नराशँसः। ऋग्वेदे .००२.१-२ अग्नेः धूमस्य द्वयोः रूपयोः उल्लेखमस्ति। एके रूपे स धूमः द्युलोकं गत्वा सूर्यस्य रूपं गृहीतुं शक्नुते।  द्वितीये रूपे तत् अन्तरिक्षे एव स्थित्वा नराशंससंज्ञकाः प्राणाः भवितुं शक्यते। सोमयागे काष्ठनिर्मिताः चमससंज्ञकाः पात्राः भवन्ति येषां संज्ञा चमसाः अस्ति। अध्वर्युऋत्विजः तान् सोमेन पूरयित्वा तस्य सोमस्य आहुतिः देवेभ्यः अग्नौ ददाति। रिक्तस्य चमस्य पूरणं वसतीवरीसंज्ञकस्य पात्रस्य जलेन कुर्वन्ति। इदानीं एतेषां जलेन आप्यायितानां पात्राणां संज्ञा नराशंसाः भवति। कथनमस्ति यत् एते पात्राः पितॄणां पात्राः सन्ति।  अस्य क्रमस्य पुनरावृत्तिः प्रातःसवन, माध्यंदिनसवन एवं तृतीयसवनेषु भवति। प्रातःसवने पितॄणां संज्ञा ऊमा, माध्यन्दिने ऊर्वाः एवं तृतीयसवने काव्याः भवति। डा. फतहसिंह अनुसारेण ये प्राणाः आधारभूतायाः जीवनप्रक्रियायाः निर्वाहं कुर्वन्ति, तेषां संज्ञा पितरः भवति। एषा जीवनप्रक्रिया स्वयंसंचालिता अस्ति क्षुधा, निद्रा आदि। लोके एतेषां प्राणानां सामान्य संज्ञा अर्धचेतनमनः(सबकांक्शस माईंड) अस्ति। एतेषां पितॄणां अन्यरूपः, यथा शतपथब्राह्मणे , , , १२ कथनमस्ति शकुनरूपा वागस्ति। काठकसंहिता १४.५ अनुसारेण - अनृतं हि गाथाऽनृतं नाराशँसी।

     ऋग्वेदे १०.१८२. बृहस्पतिदेवताके सूक्ते कथनमस्ति - नराशंसो नोऽवतु प्रयाजे शं नो अस्त्वनुयाजो हवेषु । कथनमस्ति प्राणा वै प्रयाजाः छन्दांसि अनुयाजाः। अयं प्रतीयते यत् प्रयाजेषु ये प्राणाः सन्ति, ते दिष्टाः सन्ति, देवताविशेषाय प्राणस्य रूपं विशिष्टप्रकारस्य भविष्यति। अनुयाजेषु ये प्राणाः भवन्ति, तेषां संज्ञा छन्दांसि अस्ति। एते प्राणाः अदिष्टाः, समूहरूपा भवन्ति( आङ्गलभाषायां स्केलर, वैक्टर)।

 

 

नराशंस

नराशंसमिह प्रियमस्मिन्यज्ञ उप ह्वये।

मधुजिह्वं हविष्कृतम्॥ .०१३.०३

नराशंसं सुधृष्टममपश्यं सप्रथस्तमम् ।
दिवो न सद्ममखसम् ॥१.१८.

नराशंसं वाजिनं वाजयन्निह क्षयद्वीरं पूषणं सुम्नैरीमहे।

रथं न दुर्गाद्वसवः सुदानवो विश्वस्मान्नो अंहसो निष्पिपर्तन॥ .१०६.०४

बृहस्पते सदमिन्नः सुगं कृधि शं योर्यत्ते मनुर्हितं तदीमहे ।
रथं न दुर्गाद्वसवः सुदानवो विश्वस्मान्नो अंहसो निष्पिपर्तन ॥१.१०६.

शुचिः पावको अद्भुतो मध्वा यज्ञं मिमिक्षति।

नराशंसस्त्रिरा दिवो देवो देवेषु यज्ञियः॥ .१४२.०३

असाम यथा सुषखाय एन स्वभिष्टयो नरां न शंसैः।

असद्यथा न इन्द्रो वन्दनेष्ठास्तुरो न कर्म नयमान उक्था॥ .१७३.०९

विष्पर्धसो नरां न शंसैरस्माकासदिन्द्रो वज्रहस्तः।

मित्रायुवो न पूर्पतिं सुशिष्टौ मध्यायुव उप शिक्षन्ति यज्ञैः॥ .१७३.१०

आ नो ब्रह्माणि मरुतः समन्यवो नरां न शंसः सवनानि गन्तन।

अश्वामिव पिप्यत धेनुमूधनि कर्ता धियं जरित्रे वाजपेशसम्॥ .०३४.०६

जुषस्व नः समिधमग्ने अद्य शोचा बृहद्यजतं धूममृण्वन्।

उप स्पृश दिव्यं सानु स्तूपैः सं रश्मिभिस्ततनः सूर्यस्य॥ ७.००२.०१

नराशंसस्य महिमानमेषामुप स्तोषाम यजतस्य यज्ञैः।

ये सुक्रतवः शुचयो धियंधाः स्वदन्ति देवा उभयानि हव्या॥ .००२.०२

ते हि द्यावापृथिवी भूरिरेतसा नराशंसश्चतुरङ्गो यमोऽदितिः।

देवस्त्वष्टा द्रविणोदा ऋभुक्षणः प्र रोदसी मरुतो विष्णुरर्हिरे॥ १०.०९२.११

नराशंसो नोऽवतु प्रयाजे शं नो अस्त्वनुयाजो हवेषु ।
क्षिपदशस्तिमप दुर्मतिं हन्नथा करद्यजमानाय शं योः ॥
१०.१८२.२॥

इदं जना उप श्रुत नराशंस स्तविष्यते ।
षष्टिं सहस्रा नवतिं च कौरम आ रुशमेषु दद्महे ॥१॥
उष्ट्रा यस्य प्रवाहणो वधूमन्तो द्विर्दश ।
वर्ष्मा रथस्य नि जिहीडते दिव ईषमाणा उपस्पृशः ॥२॥
एष इषाय मामहे शतं निष्कान् दश स्रजः ।
त्रीणि शतान्यर्वतां सहस्रा दश गोनाम् ॥शौअ २०.१२७.

 

१. अन्तरिक्षं वै नराशँसः । माश १, , , १२॥

२. देवस्याहं बर्हिषो देवयज्यया प्रजावान् भूयासं देवस्याहं नराशंसस्य देवयज्यया पशुमान् भूयासम् देवस्याहमग्नेस्स्विष्टकृतो देवयज्ययायुः प्रतिष्ठां गमेयम् ।। काठ , , तैसं , , ,

३. देवो नराशंसस्त्रिशीर्षा षडक्षः, शतं इदेनं शितिपृष्ठा आदधति, .देवो नराशंसो वसुवने वसुधेयस्य वेतु। मै , १३,

४. नराशँसस्याहं देवयज्यया पशुमान् भूयासम् । तैसं , , ,

५. नराशँसेन वै प्रजापतिः पशूनसृजत । काठ ३२, ३।

६. अथानुयाजकर्म -- स वै खलु बर्हिः प्रथमं यजति । अयं वै लोको बर्हिरोषधयो बर्हिः.... अथ नराशंसं द्वितीयं यजति । अन्तरिक्षं वै नराशंसः प्रजा वै नरस्ता अन्तरिक्षमनु वावद्यमानाः प्रजाश्चरन्ति यद्वै वदति शँसतीति वै

तदाहुस्तस्मादन्तरिक्षं नराशँसः । माश , , , १२

७. नराशँसस्य महिमानमेषामुपस्तोषाम यजतस्य यज्ञैः। ये सुक्रतवश्शुचयो धियंधास्स्वदन्ति देवा उभयानि हव्या ॥ ......मनुष्या वै (हि काठ.J) नराशँसः । काठ ३७, ; तै २, , , २। ।

नराशंस-पङ्क्ति- द्विनाराशंसं प्रातःसवनं द्विनाराशंसं माध्यन्दिनं सवनं सकृन्नाराशंसं तृतीयसवनमेष वै यज्ञो नराशंसपङ्क्तिः । ऐ , २४ (तु. मै ३,१०,५)। नाराशंस

१. अथाह यन्नाराशंसं वै तृतीयसवनमथ कस्मादच्छावाकोऽन्ततः शिल्पेष्वनाराशंसीः शंसतीति विकृतिर्वै नाराशंसं किमिव च वै किमिव च रेतो विक्रियते तत्तदा विकृतं प्रजातं भवत्यथैतन्मृद्विव छन्दः शिथिरं यन्नाराशंसमथैषोऽन्त्यो यदच्छावाकस्तद्दृळ्हतायै दृळ्हे प्रतिष्ठास्याम इति तस्मादच्छावाकोऽन्ततः शिल्पेष्वनाराशंसिः शंसति । ऐ ,१६ ।  

नराशंसः - नाराशंसीः शंसति प्रजा वै नरो वाक्शंसः प्रजास्वेव तद्वाचं दधाति तस्मादिमाः प्रजा वदन्त्यो जायन्ते य एवं वेद यदेव नाराशंसीः शंसन्तो वै देवाश्च ऋषयश्च स्वर्गं लोकमायंस्तथैवैतद्यजमानाः शंसन्त एव स्वर्गं लोकं यन्ति ताः प्रग्राहं शंसति - ऐतरेयब्राह्मणम् ६.३२

नराशँसं यजति तनूनपाद्वै यज्ञः प्रसृतो नराशँसोऽप्रसृतः प्रसृतो वा एतर्हि यज्ञस्तस्मान्नराशँसमनुयाजेषु यजति। काठ ३६,

तनूनपाद्वै यज्ञोऽप्रसृतो , नराशंसःप्रसृतो , तस्मात्तनूनपातं प्रयाजेषु यजति , अप्रसृतो हि तर्हि यज्ञो , तस्मादु नराशंसं अनुयाजेषु यजति , प्रसृतो हि तर्हि यज्ञो  - मै १.१०.९

३. यज्ञतन्वाख्येष्टका उपनद्धो असुरः, क्रीयमाणो मित्रः....पितृणां नाराशंसः (भक्षितशेषः सोमः)। तैसं ,,,, २ ।

४. अथ यदि नाराशंसेषु सन्नः किंचिदापद्येत। पितृभ्यो नाराशंसेभ्यः स्वाहा इति जुहुयात्। पितरो हि स तर्हि नाराशंसा भवति। । माश १२,,,३३

५. साकमेधे महापितृयज्ञः -- मनो न्वाहुवामहे नाराशँसेन स्तोमेन पितॄणां (पितृणां [मै.]) च मन्मभिः । तैसं ,,,; मै १,१०,; काठ ९.६ ।

६. यत्सदसि भक्षयन्ति तन्मनुष्येषु जुहोति तस्मान्मनुष्याः सन्त्यथ यद्धविर्धानयोर् नाराशँसाः सीदन्ति तत् पितृषु जुहोति । माश ,, २.२५

७. विकृतिर्वै नाराशंसं किमिव च वै किमिव च रेतो विक्रियते तत्तदा विकृतं प्रजातं भवति । ऐ ६,१६ ।

आप्यायितांश्चमसान् सादयन्ति ते नाराशंसा भवन्ति आश्व.श्रौ.सू. ५.६.३०

(भक्षितेषु चमसेषु पुनः पूरणमाप्यायनम् सायणभाष्यम्)

नाराशंसा नाम त्रयः पितृगणा ऊमाः और्वाः काव्याश्चेति तेषामनुसवनं

यथासङ्ख्येनाप्यायितानां चमसानां देवता भवन्तीति वाचस्पत्यम् पृ. ४०४८

नाराशंसपङ्क्ति- द्विनाराशंसा प्रातस्सवने, द्विनाराशँसा माध्यन्दिन एकनाराशँसा तृतीयसवने, तेन नाराशंसपङ्क्तिः । काठ २९,, क ४५,२ ।

नाराशंसी- नाराशंसीर्भवन्ति शान्त्यै । मै २, , ५॥

यो गाथानाराशँसीभ्याँ सनोति तस्य न प्रतिगृह्यमनृतेन हि स सनोत्यनृतँ हि गाथानृतं नाराशँसी  काठ १४.५

 देवा वै ब्रह्मणश्चान्नस्य च शमलमपाघ्नन् । यद्ब्रह्मणः शमलमासीत् सा गाथानाराशँस्यभवत्। यदन्नस्य । सा सुरा - तै १.३.२.६