Site hosted by Angelfire.com: Build your free website today!

PURAANIC SUBJECT INDEX

(From Mahaan  to Mlechchha )

Radha Gupta, Suman Agarwal & Vipin Kumar


Home Page

Mahaan - Mahaabhuuta  ( words like Mahaan / great, Mahaapadma, Mahaapaarshva, Mahaabhuuta etc. )

Mahaabhoja - Mahaalaya ( Mahaamaayaa, Mahaalakshmi , Mahaalaya etc.)

Mahaalinga - Mahishaasura ( Mahisha / buffalo,  Mahishaasura etc.)

Mahishee - Mahotkata (  Mahee / earth, Mahendra, Maheshwara, Mahotkata etc. )

 Mahotpaata - Maandavya ( Mahodaya, Mahodara, Maansa / flesh, Maagadha, Maagha, Maandavya etc.)

Maandooki - Maatrikaa(  Maatangi, Maatali, Maataa / mother, Maatrikaa etc.)

Maatraa - Maadhavi (  Maadri, Maadhava, Maadhavi etc.)

Maadhyandina - Maandhaataa ( Maana / respect, Maanasa, Maanasarovara, Maandhaataa etc.)

Maamu - Maareecha (Maayaa / illusion, Maayaapuri, Maarishaa, Maareecha etc.)

Maareesha - Maargasheersha (  Maaruta, Maarkandeya, Maargasheersha etc.)

Maarjana - Maalaa  (Maarjaara / cat, Maartanda / sun, Maalati, Maalava, Maalaa / garland etc. )

Maalaavatee - Maasa ( Maalaavati, Maalini, Maali, Malyavaan, Maasha, Maasa / month etc.)

Maahikaa - Mitrasharmaa ( Maahishmati, Mitra / friend, Mitravindaa etc.)

Mitrasaha - Meeraa ( Mitrasaha, Mitraavaruna, Mithi, Mithilaa, Meena / fish etc.)

Mukuta - Mukha (Mukuta / hat, Mukunda, Mukta / free, Muktaa, Mukti / freedom, Mukha / mouth etc. )

Mukhaara - Mudgala (Mukhya / main, Muchukunda, Munja, Munjakesha, Munda, Mudgala etc.)

Mudraa - Muhuurta (Mudraa / configuration, Muni, Mura, Mushti, Muhuurta / moment etc.)

Muuka - Moolasharmaa (  Muuka,  Muurti / moorti / idol, Muula / moola etc.)

Muuli- Mrigayaa (Mooshaka / Muushaka / rat, Muushala / Mooshala / pestle, Mrikandu, Mriga / deer etc.)

Mriga - Mrityu ( Mrigavyaadha, Mrigaanka, Mrityu / death etc.)

Mrityunjaya - Meghavaahana ( Mekhalaa, Megha / cloud, Meghanaada etc.)

Meghaswaati - Menaa  (Medhaa / intellect, Medhaatithi, Medhaavi, Menakaa, Menaa etc.)

Meru - Maitreyi  ( Meru, Mesha, Maitreya etc.)

Maithila - Mohana ( Mainaaka, Mainda, Moksha, Moda, Moha, Mohana etc.)

Mohammada - Mlechchha ( Mohini, Mauna / silence, Maurya, Mlechchha etc.)

 

 

महाभूत

 

सूर्यनमस्कारस्य प्रथमाः षड्मन्त्राः अनेन प्रकारेण सन्ति

ॐ ह्रां मित्राय नमः।

ॐ ह्रीं रवये नमः।

ॐ ह्रूं सूर्याय नमः।

ॐ ह्रैं भानवे नमः।

ॐ ह्रौं खगाय नमः।

ॐ ह्रः पूष्णे नमः।

वैदिक, पौराणिक साहित्य मध्ये कुत्रापि ह्रां, ह्रीं इत्यादीनां बीजमन्त्राणां तात्पर्यं स्पष्टरूपेण प्रकाशितं न भवति। केवलं परोक्षरूपेणेव एवं विकीर्णरूपेणेव कथितं भवति। अग्निपुराणम् ७४ स्य कथनं अनुसृत्वा ह्रां, ह्रूं इत्यादीनां बीजाक्षरणां सम्बन्धं पृथिवी, जल, तेज, वायु एवं आकाशेन सह स्थापितुं कर्तुं शक्यन्ते।  शिव पुराण १.१० स्य कथनस्य आधारे पृथिवी, जल एवं तेजस्य सम्बन्धनं ओंकारस्य अ, उ, म मात्राभिः सह कर्तुं शक्नुमः। सार्वत्रिक कथनानुसारेण, अ मात्रा शक्त्याः आदानं हेतु भवति। अस्य देवता ब्रह्मा अस्ति। ब्रह्मा ब्रह्माण्डतः शक्तिं गृहीत्वा सृष्टिं करोति। तदोपरि, उ मात्रा स्थिति हेतु भवति। विष्णुः उ मात्रानुसारेण सृष्ट्याः निर्वाहं करोति, स्थिरीकरणं करोति। ऊर्जायाः क्षयकारकाः ये कारकाः भवन्ति, तेषां निराकरणं करोति। तदोपरि, म मात्रा अनुपयोगी ऊर्जायाः निस्सारणं हेतु भवति। अस्य देवता शिवः अस्ति। हठयोगे एषां प्रतीकाः श्वासस्य आदानं, कुम्भकं एवं विसर्जनं भवति।

      यदि ह्रां बीजाक्षरं पृथिवीतत्त्वेन सह सम्बद्धं भवति, तेन किं। पुराणेषु एकस्थाने निर्देशं अस्ति यत् यो अवतारः यस्य महाभूतस्य उद्धारं करोति, तस्य महाभूतस्य धारणा हेतु सैव देवता भवति। अनेन निर्देशानुसारेण पृथिवीतत्त्वस्य धारणा हेतु वराहस्य ध्यानं करणीयं अस्ति। किन्तु वराहस्य गुणाः न सारल्येन अंगीकरणीयाः सन्ति। पृथिव्याः गौ रूपं सारल्येन अंगीकरणीयमस्ति। पृथिवी महाभूतस्य गुणानां संदर्भे, पृथिवी भूतस्य एकं गुणं गुरुत्वाकर्षणमस्ति। स्थावर (वृक्षाः) एवं जंगम (चतुष्पादाः) जीवस्य गतिः ऊर्ध्वमुखी भवति। पृथिव्याः गुरुत्वाकर्षणम् अस्य ऊर्ध्वमुखी गत्याः रोधनं करोति। अनेन संघर्षकारणेन स्थावराः रुद्धकाष्ठस्य निर्माणं कुर्वन्ति। रुद्धकाष्ठ अर्थात् काष्ठस्य कोषाः विकृताः, तन्यस्थिति सहिता भवन्ति। जंगमजीवानां मध्ये गुरुत्वाकर्षण शक्त्याः कोशस्य संरचनोपरि किमपि प्रभावं न भवति। यदा कोशाः केनापिप्रकारस्य कर्षणात् मुक्ताः भवन्ति, तदा पयः उत्पन्नं भवति।  सर्वेषां स्तनधारी जीवानां मध्ये पयःजननस्य क्षमता भवति। अयं ह्रां बीजस्य नैसर्गिक, स्वयंप्राप्त उपलब्धिः अस्ति। अग्रिमे किं कर्तव्यं। पुराणकथानुसारेण, क्रोधादिकरणेन अयं पयः दूषितं भवति। अतएव, ये घटकाः पयः दूषणं कुर्वन्ति, तेषां अपनयनं अपेक्षणीयः।

      ह्रां बीजाक्षरः सृष्टिकरणे अपि प्रयुक्तं भवति। प्रथमतः पृथिवी, जलादीनां परस्परं परिच्छिन्नकरणं आवश्यकं भवति। परिच्छिन्नस्य किम् तात्पर्यम्। डा. फतहसिंह अनुसारेण समाधिस्थितितः व्युत्थानमपि सृष्ट्याः एकं प्रकारमस्ति। यदा समाधिस्थित्याः व्युत्थानं भवति, तदा बाह्य चेतना अत्यन्त सीमितं भवति, केवलं शब्दमात्रमेव। क्रमशः स्पर्शतन्मात्रायाः विकासं भवति, तदोपरि रूपस्य , तदोपरि रसस्य, तदोपरि गन्धस्य। गन्ध तन्मात्रायां अन्य महाभूतानां मिश्रणं भवति। अयं परिच्छिन्नं स्थितिः उच्यते। यदा पृथिवी, जल, तेजादि महाभूतेषु प्राण, मन, बुद्ध्याः प्रवेशः सम्भवं भवति, तदैव सृष्टिः भवति। न केवलं इतः पर्यन्तं। इतः उपरि ब्रह्मणः अनुग्रहात् जीवाः स्व-स्व धारण शक्ति अनुसारेण विपर्यय, शक्ति, सिद्धि, पुष्ट्याः ग्रहणं कुर्वन्ति(विपर्ययः स्थावरेषु, शक्तिः चतुष्पात्सु, सिद्धिः द्विपात्सु, पुष्टिः देवतासु)। पुराणेषु सार्वत्रिक निर्देशानुसारेण महाभूतानां धारणा करणीयः। धारणा द्वारा प्राणादीनां महाभूतेषु प्रवेशं करणीयः। अस्मिन् संदर्भे, आधुनिक विज्ञानस्य प्रयोगाः उल्लेखनीयाः सन्ति। जीवन हेतु ये रसायनाः आवश्यकाः भवन्ति, तेषां मिश्रणं कृत्वा सूर्यस्य किरणेषु धारयन्ति। परिणामस्वरूपेण प्रति दशलक्ष रसायन अणूनां मध्ये जीवस्य उत्पत्तिः अत्यल्पमात्रमेव भवति। पुराणानुसारेण, धारणायाः परिणामाः एवं भवन्ति पृथिवी महाभूते गन्धस्य उत्पत्तिः भवति, जले रसस्य, तेजे रूपस्य, वायवे स्पर्शस्य, आकाशे श्रवणस्य।  

      व्यावहारिक दृष्ट्या, एकल जीवस्य चेतना महाभूतानां एवं प्राणादीनां अद्भुतं सामञ्जस्यं भवति। तस्मिन् चेतनायां कः संशोधनं अपेक्षितं अस्ति। अयं चेतना एकल चेतना नास्ति, अपितु खण्डित खण्डित भागानां एकत्रीकरणं अस्ति। अतः एकल जीवः केन प्रकारेण एकल चेतनायाः संभरणं करोतु, अयं अन्वेषणीयः। ये घटकाः एकल चेतनायाः खण्डनकरणे कारकाः सन्ति, तेषां अपनयनं आवश्यकं। संगीत दृष्ट्या, देहस्य निम्नभागः, पादादि, तालरहिताः भवन्ति। ते कस्यापि प्रकारस्य स्पन्दनस्य ग्रहणं न कुर्वन्ति। अयं संशोधनीयं अस्ति।

ह्रीं बीजाक्षरस्य जलमहाभूतेन सह सम्बन्धं अस्ति। ओंकारस्य अयं उ मात्रा अस्ति। विष्णुः देवतास्ति। स्थितिकरणं, ब्रह्मणः सृष्ट्याः पालनं विष्णोः कृत्यं भवति। सृष्ट तन्त्रात् न केनापि प्रकारेण ऊर्जायाः क्षयं भवतु, अयं विष्णोः कृत्यम्। आधुनिक विज्ञानानुसारेण एकप्रकारस्य ऊर्जायाः अन्यप्रकारस्य ऊर्जायां रूपान्तरणं शतप्रतिशत दक्षतापूर्वकं संभवं नास्ति। ऊर्जायाः एकं अंशं रूपान्तरणकरणे व्यर्थं भविष्यति। व्यर्थ अंशस्य निष्कासनं आवश्यकं अस्ति। अयं तेज महाभूतस्य विषयः अस्ति।

      पुराणानुसारेण ह्रीं बीजेन जले रसस्य उत्पादनं अपेक्षणीयः। आधुनिक विज्ञानानुसारेण, विभिन्न जीवेषु रसनायां विभिन्न एन्जाईमाः भवन्ति येषां कारणेन ते जड पदार्थेषु अपि रसानां अनुभवं कुर्वन्ति। ह्रीं बीजस्य साहाय्येन किं अयं संभवमस्ति यत् गौः जिह्वोपरि ये एन्जाईमाः सन्ति, ते अस्माकं जिह्वोपरि अपि उत्पन्नाः भवेयुः। अमृत उत्पादनं, परितृप्तिः इत्यादि गुणाः ह्रीं बीजेन सह सम्बद्धाः सन्ति। केन प्रकारेण, अयं अज्ञातमेव। भौतिक जगतस्य मध्ये अयं धारणा अस्ति यत् यदा सूर्यस्य किरणानां ओषधीषु प्रवेशं भवति, तदा विषस्य उत्पत्तिः भवति। यदा चन्द्रस्य प्रवेशं भवति, तदा अमृतस्य उत्पत्तिः भवति। चन्द्रस्य षोडश्याः कलायाः ओषधीषु प्रवेशः अमावास्यां तिथ्यां भवति।

      स्कन्द पुराणे महाभूतेभिः सह तीर्थानां सम्बन्धनं कृतं भवति। अनेनानुसारेण जल महाभूतेन सह हरिश्चन्द्र, मध्यम इत्यादीनां तीर्थानां सम्बन्धं अस्ति। मध्यमं तीर्थं किं भवति, अस्मिन् संदर्भे ब्रह्माण्ड पुराणे ज्येष्ठ, मध्य एवं कनिष्ठ पुष्कराणां वर्णनं अस्ति। परशुरामः ज्येष्ठे पुष्करे तपः करोति, किन्तु सफलता न मिलति। मध्यमे पुष्करे सः मृगाणां वार्ता शृणोति यत् यदि अयं परशुरामः कनिष्ठपुष्करे गत्वा अगस्त्य मुनितः प्रेमामृतं स्तोत्रं गृह्णातु, तदा सफलता संभवमस्ति। अतएव, मध्यमा स्थितिः सा भवति यत्र सफलतायाः ये सूत्राः सन्ति, ते विभिन्नेभिः माध्यमेभिः साधकं प्रापयन्ति। भागवत पुराणानुसारेण

ईश्वरे तदधीनेषु बालिशेषु द्विषत्सु च।

प्रेम मैत्री कृपा उपेक्षा यः करोति स मध्यमः।।

एवं मध्यम प्रकारस्य भक्त हेतु प्रेम, मैत्री, कृपा, उपेक्षा एते चत्वारः स्तराः भवन्ति। केवल प्रेम्णः स्थिति न भवति। ऊर्जायाः क्षयं द्वेष रूपे अपि भवति। अपि च, ऊर्जायाः विरलीभवनं(बालिशं) अपि भवति। मन्त्रं अस्ति अप नः शोशुचदघं। हे आपः अघस्य अपनयनं कुरु। अघ अर्थात् अ-घ, घ घनत्वे। अघ अर्थात् विरलीकरणम्। एतेः सर्वे घटकाः तेज महाभूतस्य, संहारस्य विषयाः भविष्यन्ति।

ह्रीं सह केदार तीर्थस्य अपि सम्बन्धं भवति। यथा केदार शब्दस्य टिप्पण्यां कथितं अस्ति, कोपि घटना यदा अस्माकं निम्नतरं चेतनां दारयति, आकाशीय विद्युद् भांति कर्तितं करोति यथा कोपि आश्चर्यं, तदा केदार तीर्थस्य जन्म भवति। वयं किमपि कार्यं कुर्यामः, यदि अयं कार्यं केदारं न भवति, तदा ऊर्जायाः क्षयं भविष्यति।

      जल महाभूतेन सह प्रतिष्ठागुणस्य सम्बन्धमस्ति। लोके देवमूर्त्तेः प्राणप्रतिष्ठा प्रसिद्धमस्ति। पुराणेषु पुरूरवा प्रतिष्ठानपुरस्य राजा अस्ति। सः उर्वश्याः कामनां करोति। प्रतिष्ठा अर्थात् दैनिके जीवने क्षुधा-तृषा आदि उच्चावचानि जीवनस्य भयदायकाः न भविष्यन्ति। जीवस्य परितः अरिष्टा स्थितिः भविष्यति।

जलस्य एकं गुणं प्रवाहं एवं परस्परमिश्रणं अस्ति। कथनं अस्ति यत् वृत्रस्य हननोपरि एव अयं सम्भवमस्ति। स्पष्टरूपेण, अयं चेतनायाः परस्परमिश्रणेन सह सम्बद्धं अस्ति।

      जल महाभूतस्य एकं गुणमयमस्ति यत् यत्र जलस्य उपलब्धिः भविष्यति, तत्रैव ओषधि-वनस्पतीनां प्रादुर्भावं भविष्यति। वैदिक साहित्ये जलस्य वर्षणं साधारणा घटना नास्ति। यदा पुरोवातस्य, गर्जनस्य, विद्युतस्य आदीनां संयोगं भविष्यति, तदैव वर्षणं भविष्यति।

      ह्रूं बीजः तेजः अथवा अग्नि महाभूतेन सह संबद्धं भवति। ओंकारस्य मात्राणां मध्ये अयं म अक्षरं अस्ति। अयं संहारेण सह सम्बद्धं अस्ति। यथा ह्रीं बीजस्य संदर्भे उल्लिखितं भवति, यावत् पूर्ण प्रेम्णः स्थितिः न भवति, तावत् ऊर्जायाः क्षयः अनिवार्य रूपेण भविष्यति। अस्य क्षयितायाः ऊर्जायाः उद्धारस्य किमुपायं अस्ति। आधुनिक विज्ञानानुसारेण, यः ऊर्जा विरली भवति, अ-घ भवति, तस्य घनीकरणस्य कोपि उपायं न अस्ति। सा ऊर्जा ब्लैक होल, अंधकारमय पिंड एव भविष्यति। किन्तु अध्यात्म मध्ये शेषायाः ऊर्जायाः उद्धरणे उपायाः सन्ति। विष्णुः शेषोपरि शेते। शंकरः केन प्रकारेण शेषायाः ऊर्जायाः उद्धारं करोति, अयं अन्वेषणीयः।

      तेज महाभूतेन सह नृसिंह अवतारस्य सम्बन्धं अस्ति। नृसिंह अवतारस्य द्वि रूपाः सन्ति उग्र रूपं यः हिरण्यकशिपुं हन्ति एवं सौम्य रूपं यः जगन्नाथ पुर्यां वासुदेव, संकर्षण, सुभद्रा एवं चक्र रूपेण परिवर्त्यते।

      तेजः महाभूतेन सह प्रभास, लांगल, नैमिषादि तीर्थाः संबद्धाः भवन्ति। पुराणेषु, प्रभास वसोः पुत्रः विश्वकर्मा अस्ति। विश्वकर्मा पुरुषार्थस्य सर्वोपरि स्थितिरस्ति। पुरुषार्थ पूर्व स्थितिः दैव अस्ति। यदा वयं दैवस्य नियन्त्रण कर्तुं, तस्य अपनयन कर्तुं समर्थाः भवामः, तदैव विश्वकर्मा स्थित्याः उद्भवं भविष्यति। यावत् शेष ऊर्जायाः, विरल ऊर्जायाः उद्धारं न भवेत्, तावत् दैव स्थित्याः अपि लोपनं न भवेत्। लांगलं स्थितिः स्वतेजस्य तीव्रीकरण द्वारा कर्षणकरणेन सम्बद्धं अस्ति, अयं प्रतीयते।

      तैजस् अथवा अग्नि महाभूतेन सह विद्या कलायाः सम्बन्धं अस्ति। पुराणेषु कथनमस्ति यत् विद्या अविद्यायाः अन्योन्यसम्बन्धं अस्ति। यावत् चेतनायाः अव्यक्ता स्थितिः भवति, तावत् विद्यायाः अस्तित्वं भवति। यदा चेतना मन, बुद्धि रूपेण व्यक्तं भवति, अहंकारस्य क्षेत्रे प्रविशति, तदानीमेव अविद्यायाः क्षेत्रस्य प्रादुर्भावं भवति।

      ह्रैं बीजः वायु महाभूतेन सह सम्बद्धं अस्ति। वायुः प्राणानां अनिरुक्तं रूपमस्ति, अयं वैदिक साहित्ये प्रसिद्धमस्ति। येषां अष्ट तीर्थानां वर्गीकरणं वायु महाभूते अस्ति ते एवंप्रकारेण सन्ति

गया चैव कुरुक्षेत्रं तीर्थं कनखलं तथा ॥ ९ ॥
विमलं चाट्टहासं च माहेन्द्रं भीमसंज्ञकम् ॥
गुह्याद्गुह्यतरं ह्येतत्प्रोक्तं वाय्वष्टकं तव ॥ स्कन्द 7.1.10.१०

हृदयं वायु महाभूतस्य स्थानमस्ति। तन्त्रे अस्य महाभूतस्य प्रतीकं षट्कोणिक, षड्भुजीय आकृतिः अस्ति। मधुमक्षिकायाः कुलायस्य संरचना अपि षड्भुजीयं एव भवति। आधुनिक विज्ञानानुसारेण ग्रेफाईट इत्यादि द्रव्याणां आन्तरिक संरचना अपि षट्भुजीयं भवति। एवं तेषां संरचना मुख्य रूपेण द्वि विमीयं भवति। तृतीय विमा  अपेक्षाकृत लुप्ता एव भवति। ग्रेफाईट द्रव्यस्य एकं विशिष्ट प्रकारं आधुनिक विज्ञाने ग्रेफीन अस्ति यस्य गुणानां अध्ययनं वर्तमान विज्ञानस्य विषयं अस्ति। अनेनानुसारेण, ग्रेफीन द्रव्ये विद्युत आवेश धारी कणानां यः चलनमस्ति, तस्योपरि ग्रेफीन द्रव्यस्य स्थूलतायाः प्रभावं न भवति। वैज्ञानिक शब्देषु अस्य स्थित्याः व्यक्तीकरणं इलेक्ट्रान फोनान अन्योन्यक्रिया द्वारा  भवति। फोनान अर्थात् स्थूल द्रव्यस्य कम्पनम्, ध्वनि। स्थूल द्रव्यस्य कम्पनम् विद्युत आवेश युक्तानां कणानां प्रचालनं छिन्नं करोति। किन्तु ग्रेफीन अथवा ग्रेफाईट द्रव्ये अयं स्थितिः न भवति। वायु महाभूतस्य प्रतिनिधि तीर्थं गया तीर्थं भवति। गया तीर्थस्य विशेषता पुराणेषु एवंप्रकारेण कथितमस्ति यत् गयासुरः स्वदेहस्य दानं देवानां यज्ञस्य हेतुं अकरोत्, किंतु तस्य देहस्य कम्पनस्य विरामं नाभवत्। तदा सर्वे देवाः तस्य देहोपरि स्थिताः अभवन्। किन्तु तदानीमपि तस्य कम्पनस्य विरामं नाभवत्। यदा गदाधरः विष्णुः स्वगदा सहितं तस्य देहोपरि स्थितः अभवत्, तदानीमेव तस्य कम्पनस्य विरामं अभवत्। आध्यात्मिक रूपेण इलेक्ट्रान फोनान अन्योन्यक्रियायाः किं अर्थं भवितुं शक्यते। एकं अर्थं भवति यत् ये देहस्य सुख-दुःखाः सन्ति, तेषां प्रभावं विद्युत रूपी आत्मोपरि न भवति। गयातीर्थसंदर्भे अस्य व्याख्या किंचित् अन्यप्रकारेण कर्तुं अपि शक्यन्ते। हृदयस्य परितः ये नाड्यः सन्ति, ते प्राणस्य/प्राणानां विश्रामस्य स्थानं भवन्ति। यदा प्राणः तेषु नाडीषु स्वपिति, तदा स्वप्नानां दर्शनं भवति। गदा अस्त्र द्वारा एषां नाडीनां शान्तिः भवति। व्यवहारे एकादशी-द्वादशी तिथिव्रत रूपेण अयं केन प्रकारेण भवति, अन्वेषणीयः। द्वादशी तिथिः नाडीनां शंकरणे सम्बद्धमस्ति। हनुमानः वायोः पुत्रं अस्ति। हनुमान द्वारा स्वहृदयस्य विस्फारणं कृत्वा रामस्य विद्यमानता प्रदर्शनं लोके सर्वज्ञातं अस्ति।

गया तीर्थे मरीचि पत्न्याः शिलारूपमपि विद्यते। मरीचि ऋषिः अस्य शिलायाः उपरि स्थित्वा तपः करोति। शिलायामपि कम्पनं भवति एवं तस्य शिलायाः आच्छादनं पर्वतेभ्यः भवति। किन्तु तथापि शिलायाः आच्छादनं सम्पूर्णं न भवति, अयं कथनमस्ति।

वायोः महाभूतस्य एकं गुणं तिरोभवनमस्ति। ग्रेफाईट द्रव्य मध्ये मुख्य रूपेण द्विविमायाः अस्तित्वं अस्ति। तृतीयं विमा गौण रूपेण अस्ति। तस्मिन् विमायां ग्रेफाईट द्रव्यस्य विस्तारं नास्ति। अन्य शब्देषु, ग्रेफाईट द्रव्यस्य चेतना द्विविमीयं अस्ति। तृतीय विमायां तस्य चेतना सुप्तमस्ति। प्रयत्नेन अस्य विमायाः सक्रियकरणं सम्भवमस्ति। किं अयं संभवमस्ति यत् एक विमीय एवं शून्य विमीय द्रव्याणां अपि अस्तित्वं अस्मिन् जगते अस्ति। इदानीं, विज्ञानानुसारेण एक- विमीय एवं शून्य- विमीय कृत्रिम द्रव्याः विद्यमानाः सन्ति, किन्तु वास्तविक रूपेण तेषां सुप्त चेतना लुप्तासु विमासु  भ्रमणं करोति। स्व चेतनायाः तिरोभवनं क्रमिक रूपेण केन प्रकारेण भवेत्, अयं अन्वेषणीयः।

अस्य महाभूतस्य  एकं गुणं उच्चाटनमस्ति। उच्चाटनस्य संदर्भे पुराणे अयं कथनं अस्ति यत् व्याधीनां द्विप्रकाराः सन्ति -  व्याधि एवं आधि। व्याधेः अपनयनं ओषधि सेवनं द्वारा सम्भवमस्ति। किन्तु केषांचित् व्याधीनां चिकित्सा ओषधिसेवन द्वारा संभवं नास्ति। कारणं तेषां व्याधीनां मूलं आधि रूपेण चेतना मध्ये विद्यमानमस्ति। आधेः चिकित्सा मन्त्र इत्यादि द्वारा एव सम्भवमस्ति। अतएव मन्त्रादि द्वारा आधेः उच्चाटनं, दूरीकरणं ह्रैं बीजक्षेत्रे भवति। अन्तर्जालोपरि उच्चाटनस्य उदाहरणं अन्य प्रकारेण भवति। कोपि जनः अस्ति यस्य प्रवेशं वयं स्वगृहे न इच्छन्ति। तस्य अपनयनं उच्चाटन क्रियायां मध्ये अस्ति।

      ह्रैं - वायु महाभूतस्य संदर्भे गया, कुरुक्षेत्र, नैमिषादि तीर्थानां उल्लेखः अस्ति। गया तीर्थः पितृणां श्राद्ध हेतु प्रसिद्धमस्ति। दक्षिण भारते श्राद्ध हेतु गोकर्ण तीर्थस्य प्रसिद्धिः अस्ति। किन्तु गोकर्ण तीर्थस्य वर्गीकरणं आकाश महाभूतान्तर्गतं अस्ति। कुरुक्षेत्रस्य उल्लेख संदर्भे, गीतायां कथनमस्ति धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः। यदि कोपि क्रिया धर्मानुसारेण कृतं भवति, तर्हि स क्रिया विना परिश्रम एव भविष्यति, कल्पवृक्षानुसारेण। ऊर्जायाः कोपि क्षयं न भविष्यति।

      वायुमहाभूते तीर्थाष्टके माहेन्द्र तीर्थं एकमस्ति। माहेन्द्र तीर्थस्य विशेषता सोमयागे महाव्रत अह द्वारा प्रदर्शितं भवति। महाव्रत अह्नि साम स्तोत्रं एवं वीणावादनं द्वयानां साकं विद्यमानता भवति। वीणावादनं मर्त्य स्तरे भवति। सामस्तोत्रं अमर्त्य स्तरे भवति। इलेक्ट्रान फोनान भाषायां अस्य स्थित्यां इलेक्ट्रान एवं फोनान परस्परं सहयोगं कुर्वन्ति।

      पुराणेषु वायु महाभूतस्य उत्कर्षं वायु रूप स्थूल प्राणस्य प्राण, अपान, व्यानादि अवयवेषु भवितुं कथितमस्ति। यदा एवं भवति, तदा वायोः द्वि अवयवानां मध्ये सन्धिः भवति यथा प्राण अपान मध्ये। यदि एवं भवति, तदा महापुरुषस्य द्वात्रिंशत् लक्षणानां उत्पत्ति अपि संभवं प्रतीत्यते। वायोः महाभूतस्य प्रतीकं द्वित्रिकोणानां मध्ये सन्धिना प्रदर्शितं भवति। डा. फतहसिंह अनुसारेण एकः त्रिकोणः उन्मनी एवं द्वितीयः त्रिकोणः समन्याः चेतनायाः प्रतीकमस्ति।

      अग्निपुराणम् ८८.४७ मध्ये वायु, आकाश एवं पराकाशस्य स्थित्यां अन्तरं कथितं भवति। वायु महाभूतस्य स्थित्यां स्वतन्त्रता भवति, संभवतः गुरुत्वाकर्षणतः स्वतन्त्रता भवति, खगवत् स्थितिः भवति।

वायु महाभूते शान्तिकलायाः अस्तित्वमस्ति। शान्तिकलायाः उपयोगं उपद्रवादीनां शान्तिकरणे भवति। उपद्रवं किं भवति, अस्मिन् संदर्भे ब्राह्मणग्रन्थे कथनं अस्ति यत् आरण्यकाः पशवः यदा मनुष्यं पश्यन्ति, तदा ते उपद्रवन्ति, लुप्तप्रायाः भवन्ति। यदा लोके कोपि आकस्मिकं उपद्रवं भवति युद्धं, शिशुजन्मे विकृतिः आदि, तस्य शमनं वायु महाभूतेन सम्भवं भवितुमर्हति। अयं उपद्रवसंज्ञकस्य भक्त्याः व्याख्या अस्ति। सामवेदस्य अन्यानां भक्तीनां संज्ञा हिंकार, प्रस्ताव, उद्गीथ, प्रतिहार एवं निधनं अस्ति। अयं संभवमस्ति यत् हिंकार भक्तिः पृथिवी महाभूतेन, प्रस्तावः जलमहाभूतेन, उद्गीथं तेजःमहाभूतेन, प्रतिहारं वायुमहाभूतेन एवं निधनं आकाशमहाभूतेन सम्बद्धं भवेत्।

 

ओं हां आत्मने सर्वज्ञो भव स्वाहा।

ओं हीं आत्मने परितृप्तो भव स्वाहा।

ओं हूं आत्मने अनादिबोधो भव स्वाहा।

ओं हैं आत्मने स्वतन्त्रो भव स्वाहा।

ओं हौं आत्मन् अलुप्तशक्तिर्भव स्वाहा।

ओं हः आत्मने अनन्तशक्तिर्भव स्वाहा।४७ - अग्निपुराणम् ८८.४७

 

देहमध्ये शिखिस्थानं तप्तजाम्बूनदप्रभम् । त्रिकोणं द्विपदामन्यच्चतुरस्रं चतुष्पदम् ॥ ५६॥

वृत्तं विहङ्गमानां तु षडस्रं सर्पजन्मनाम् । अष्टास्रं स्वेदजानां तु तस्मिन्दीपवदुज्ज्वलम् ॥ ५७॥

-    त्रिशिखब्राह्मणोपनिषद

-     

पार्थिवं मण्डलं पीतं कठिनं वज्रलाञ्छितं ।७४.०१८

हामित्यात्मीयबीजेन(३) तन्निवृत्तिकलामयं ॥७४.०१८
पदादारभ्य मूर्धानं विचिन्त्य चतुरस्रकं ।७४.०१९

अर्धचन्द्रं द्रवं सौम्यं शुभ्रसम्भोजलाञ्छितं(४) ।७४.०२०
ह्रीमित्यनेन बीजेन प्रतिष्ठारूपतां गतं ॥७४.०२०

अर्घ्यञ्चतुर्भिरुद्घातैर्वह्निभूतं विशोधयेत् ॥७४.०२१
आग्नेयं मण्डलं त्र्यस्त्रं रक्तं स्वस्तिकलाञ्छितं ।७४.०२२
हूमित्यनेन बीजेन विद्यारूपं विभावयेत् ॥७४.०२२

षडस्रं मण्डलं वायोर्बिन्दुभिः षड्भिरङ्कितं ॥७४.०२३
कृष्णं ह्रेमिति बीजेन जातं शान्तिकलामयं ।७४.०२४

नभोबिन्दुमयं वृत्तं बिन्दुशक्तिविभूषितं ।७४.०२५

व्योमाकारं सुवृत्तञ्च शुद्धस्फटिकनिर्मलं ॥७४.०२५
हौङ्कारेण फडन्तेन शान्त्यतीतकलामयं ।७४.०२६ अग्निपुराण ७४

पृथ्वीभागे स्थितो ब्रह्मा अपां भागे जनार्द्दनः ॥
तेजोभागस्थितो रुद्रो वायुभागे तथेश्वरः ॥ २ ॥
आकाशभागसंस्थाने स्थितः साक्षात्सदाशिवः ॥ ३ ॥
यस्ययस्यैव यो भागस्तस्मिंस्तीर्थानि यानि वै ॥
तस्यतस्य न संदेहः स स एवेश्वरः स्मृतः ॥ ४ ॥
छागलंडं दुगण्डं च माकोटं मण्डलेश्वरम् ॥
कालिंजरं वनं चैव शंकुकर्णं स्थलेश्वरम् ॥ ५ ॥
शूलेश्वरं च विख्यातं पृथ्वीतत्त्वे च संस्थितम् ॥
हरिश्चन्द्रं च श्रीशैलं जल्पेशोन्नांतिकेश्वरम्॥ ६ ॥
महाकालं मध्यमं च केदारं भैरवं तथा ॥
पवित्राष्टकमेतद्धि जलसंस्थं वरानने ॥ ७ ॥
अमरेशं प्रभासं च नैमिषं पुष्करं तथा ॥
आषाढिं चैव दण्डिं च भारभूतिं च लांगलम् ॥ ८ ॥
आदि गुह्याष्टकं ह्येतत्तेजस्तत्त्वे प्रतिष्ठितम् ॥
गया चैव कुरुक्षेत्रं तीर्थं कनखलं तथा ॥ ९ ॥
विमलं चाट्टहासं च माहेन्द्रं भीमसंज्ञकम् ॥
गुह्याद्गुह्यतरं ह्येतत्प्रोक्तं वाय्वष्टकं तव ॥ 7.1.10.१० ॥
वस्त्रापथं रुद्रकोटिर्ज्येष्ठेश्वरं महालयम् ॥
गोकर्णं रुद्रकर्णं च वर्णाख्यं स्थापसंज्ञकम् ॥ ११ ॥
पवित्राष्टकमेतद्धि आकाशस्थं वरानने ॥
एतानि तत्त्वतीर्थानि सर्वाणि कथितानि वै ॥ १२ ॥ - स्कन्दपुराण

पार्थिव

 

छागलंड छागलेय

दुगण्ड/ कुरण्डल

माकोट

मण्डलेश्वर

कालिंजर

शंकुकर्ण

स्थलेश्वर/ स्थूलकेश्वर

शूलेश्वर

 

अधिपति

कपर्दी

 

 

 

 

महातेज

महालिङ्ग

 

 

देवी

प्रचण्डा

त्रिसन्ध्या

मुकुटेश्वरी

शाण्डकी

काली

ध्वनि

स्थूला

हृल्लेखा

 

 

 

 

 

 

 

 

 

 

जलीय

 

हरिश्चन्द्र

श्रीशैल

जल्पेश/जप्येश

उन्नांतिकेश्वर/

आम्रातकेश्वर

महाकाल

मध्यम

केदार

भैरव

 

अधिपति

हर

त्रिपुरांतक

 

 

 

शर्व

ईशान

भैरवाकार

 

देवी

चन्द्रिका

शाङ्करी

त्रिशूला

सूक्ष्मा

शाङ्करी

शर्वाणी

मार्गदायिनी

भैरवी

 

 

 

 

 

 

 

 

 

 

तैजस

 

अमरेश

प्रभास

नैमिष

पुष्कर

आषाढि

दण्डि

भारभूति

लाङ्गल

 

अधिपति

 

शशिशेखर

देवदेव

अजागन्धि

 

 

 

 

 

देवी

चण्डिका

पुष्करेक्षिणी

लिङ्गधारिणी

पुरुहूता

रति

चण्डमुण्डि

भूति

 

 

 

 

 

 

 

 

 

 

 

वायव्य

 

गया

कुरुक्षेत्र

नाकुल

कनखल

विमल

अट्टहास

माहेन्द्र

भीम

 

अधिपति(स्कन्द ६.१०९

प्रपितामह

स्थाणु

 

 

 

महानाद

महाव्रत

 

 

देवी(दे.भा. ७.३८

मङ्गला

स्थाणुप्रिया

स्वायम्भुवि

उग्रा

विश्वेशा

महानन्दा

महान्तका

भीमेश्वरी

 

 

 

 

 

 

 

 

 

 

आकाश

 

वस्त्रापथ

रुद्रकोटि

ज्येष्ठेश्वर

महालय

गोकर्ण

रुद्रकर्ण

वर्ण

स्थाप

 

अधिपति

भव

महायोग

 

 

महाबल

 

 

 

 

देवी

भवानी शांकरी

रुद्राणी

 

महाभागा

भद्रकर्णी

 

 

स्थाण्वीशा

 

बह्वृचपरिशिष्टे भुक्तौ मुक्तौ तथा पुष्टौ जीर्ण्णोद्धारे विशेषतः । सदा होमे तथा शान्तौ वृत्तं

वरुणदिग्गतम् । कामिके तु तत्तद्दिक्षु तत्तत्फलार्थं कुण्डोक्तिर्यथा ऐन्द्य्रां--स्तम्भे चतुष्कोणमग्नौ भागे भगाकृति । चन्द्रार्द्धं मारणे याम्ये, नैरृते हि त्रिकोणकम् ।

वारुण्यां शान्तिके वृत्तं, षड़स्र्युच्चाटनेऽनिले । उदीच्यां पौष्टिके पद्मं रौद्र्यामष्टास्रमुक्तिदम् - वाचस्पत्यम्

 

शारदातिलके अष्टास्वाशासु रम्याणि कुण्डान्येतान्यनुक्रमात् । चतुरस्रं योनिरर्द्धचन्द्रं त्र्यस्रञ्च वर्त्तुलम् । षडस्रं पङ्कजाकारमष्टास्रन्तानि नामतः । - वाचस्पत्यम्

 

 

 

 

 

    शारदायाम् सर्वसिद्धिकरं कुण्डंचतुरस्रमुदाहृतम् । पुत्रप्रदं योनिकुण्डमर्द्धेन्द्वाभं शुभप्रदम् । शत्रु    क्षयकरन्त्र्यस्रं वर्त्तुलं शान्तिकर्मणि। छेदमारणयोः षष्ठं     षडस्रं पद्मसन्निभम् । वृष्टिदं रोगशमनं कुण्डमष्टास्रमीरितम् । कामिके तु फलान्तरम् ऐन्द्र्यां स्तम्भे चतुःकोणमग्नौ भीगे भगाकृति । चन्द्रार्द्धं मारणे याम्ये, द्वेषे

त्र्यस्रन्तु नैरृते । वारुण्यां शान्तिके वृत्तं, षडस्न्युच्चटिनेऽनिले । उदीच्यां पौष्टिके पद्मं रौद्य्रामष्टास्रि भुक्तिदमिति

 

स्त्रीणां कुंडानि विप्रेंद्रा योन्याकाराणि कारयेत्।।
अर्धचंद्रं त्रिकोणं च वर्तुलं कुंडमेव च।। २८.२१ ।।
षडस्रं सर्वतो वापि त्रिकोणं पद्मसन्निभम्।।
अष्टास्रं सर्वमाने तु स्थंडिलं केवलं तु वा।। २.२८.२२ ।। - लिङ्गपुराणम्

भगाभमग्नौ खण्डेन्दु दक्षे त्र्यस्रञ्च नैर्ऋते ।। २२ ।।
षडस्रं वायवे पद्म सौम्ये चाष्टास्रकं शिवे। - अग्निपुराण ९५

 

सृष्टिर्भूमौ स्थितिस्तोये संहारः पावके तथा ॥ १,१०.६
तिरोभावो ऽनिले तद्वदनुग्रह इहाम्बरे ॥ १,१०.७
सृज्यते धरया सर्वमद्भिः सर्वं प्रवर्धते ॥ १,१०.७
अर्द्यते तेजसा सर्वं वायुना चापनीयते ॥ १,१०.८
व्योम्नानुगृह्यते सर्वं ज्ञेयमेवं हि सूरिभिः ॥ १,१०.८
पञ्चकृत्यमिदं वोढुं ममास्ति मुखपञ्चकम् ॥ १,१०.९
चतुर्दिक्षु चतुर्वक्त्रं तन्मध्ये पञ्चमं मुखम् ॥ १,१०.९ - शिवपुराण